दशमं मण्डलम् - सूक्तम् 102

12 ऋचः

ऋषिः: मुद्गलो भार्म्यश्वः देवता: द्रुघण इंद्रो वा छन्दः: बृहती

सूक्तम् 10.102 - सम्पूर्णम्

1 / 12
ऋक्: 10.102.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.102.1 समानपद
प्र ते॒ रथं᳚ मिथू॒कृत॒मिन्द्रो᳚॑वतु धृष्णु॒या ।
अ॒स्मिन्ना॒जौ पु᳚रुहूत श्र॒वाय्ये᳚ धनभ॒क्षेषु᳚ नो॑व ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । रथ᳚म् । मि॒थु॒॑कृत᳚म् । इन्द्रः᳚ । अ॒व॒तु॒ । धृ॒ष्णु॒॑या ।
अ॒स्मिन् । आ॒जौ । पु॒रु॒॑हू॒त॒ । श्र॒वाय्ये᳚ । ध॒न॒॑भ॒क्षेषु᳚ । नः॒ । अ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र ते रथमिति द्वादशर्चं तृतीयं सुक्तम्। भर्मश्वपुत्रो मुद्गलऋषिः। आद्या तृतीयान्त्या चेति तिस्रो ब्रुहत्यः। शिष्टा नव त्रिष्टुभः। द्रुघणो नाम मुद्गरः। तद्देवत्यमिदमिन्द्रदेवत्यं वा। तथा चानुक्रान्तम्। प्र ते मुद्गलो भार्म्यश्व ऋषभेण द्रुघणेन चाजिं जिगायेति द्रौघणं वाद्या तृतीयान्त्या च बृहत्य इति। गतो विनियोगः। अत्राहुः । मुद्गलस्य हृता गावश्चोरैस्त्यक्त्वा जरद्गवम्। स शिष्टम् शकटे कृत्वा गत्वैक ऋजुराहवम्। द्रुघणं युयुजेऽन्यत्र चोरमार्गनुसारकः। द्रुघणं चाग्रतः क्षिप्त्वा चोरेभ्यो जगृहे स्वग इति। तथा निरुक्तेऽपीयं कथा सूचिता। मुद्गलो भार्म्यश्व ऋषिर्वृषभं च द्रुघणं च युक्त्वा अङ्ग्रामे व्यवहृत्याजिं जिगाय। नि. ९-२३। इति॥

हे मुद्गल ते रथं मिथूकृतम् मिथःकृतमसहायं कृतम्। अथवा मिथुरिति मिथ्यानाम। अश्वादिभिः शून्यं कृतं धृष्णुया धर्षणशील इन्द्रोऽवतु। रक्षतु। यद्वा। धृष्णुया धर्षणशीलेन वज्रेण। उभयत्र सुपां सुलुगिति सुपो याजादेशः। अथ प्रत्यक्शकृतः। हे पुरुहूत बहुभिराहूतेन्द्र अस्मिन्नाजौ सङ्ग्रामेऽपह्रुतगोभिश्चोरैः क्रुते सङ्ग्रामे। कीदृशे। श्रवाय्ये श्रोतव्ये। विश्रुत इत्यर्थः। श्रुदक्षीत्यादिना। उ. ३-९६। आय्यप्रत्ययः। धनभक्षेष्वस्मासु गोरूप धनभजनकामेषु सत्सु। यद्वा। गोरूपधनस्य भक्षकेषु चौरेषु जेतव्येषु सत्सु। नोऽस्मानव। रक्ष॥१॥

10.102.2
उत्स्म॒ वातो᳚ वहति॒ वासो᳚॑स्या॒ अधि᳚रथं॒ यदज᳚यत्स॒हस्र᳚म् ।
र॒थीर᳚भून्मुद्ग॒लानी॒ गवि᳚ष्टौ॒ भरे᳚ कृ॒तं व्य᳚चेदिन्द्रसे॒ना ॥
▶ पदपाठः (Word-by-word)
उत् । स्म॒ । वातः᳚ । व॒ह॒ति॒ । वासः᳚ । अ॒स्याः॒ । अधि᳚॑रथम् । यत् । अज᳚यत् । स॒हस्र᳚म् ।
र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी᳚ । गो॑इ᳚ष्टौ । भरे᳚ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒॑से॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्या रथीरभून्युद्गलानीति वक्ष्यमाणत्वादस्य मुद्गलस्य पत्न्याः सारथिभूताया वासोऽंशुकं वातो वायुरद्वहति। ऊर्ध्वं प्रापयति। श्रमजनितस्वेदपनयनाय। अथवा शीघ्ररथाधावनजनितो वायुरंशुकं चालयतीत्यर्थः। कदेति उच्यते। यद्यदाधिरथमधिकं रथमारुह्य सहस्रं सहस्रसङ्ख्याकं गोसङ्घमजयत् तदा। यद्या गोसहस्रमजयदस्या इदि वा योज्यम्। यद्योगाज्जयतेर्न निघातः। गविष्टौ गवामपहृतानामेषणे मुद्गलानी मुद्गलस्य स्त्री रथीरभूत्। सारथिरभवत्। छान्दस आनुक्। इन्द्रसेना स्तुत्या परितुष्टस्येन्द्रस्य सेना। यद्वा। इन्द्रस्य शत्रूणां दारयितुर्मुद्गलस्य सेनानीरूपा मुद्गलानी। भरे सङ्ग्रामे कृतं सम्पादितं गोसङ्घं व्यचेत्। व्यचिनोत्। शत्रुभ्यः पृथक्क्रवती। चयतेर्लङि बहुलं छन्दसीति विकरनस्य लुक्॥२॥

10.102.3
अ॒न्तर्य᳚च्छ॒ जिघां᳚सतो॒ वज्र᳚मिन्द्राभि॒दास᳚तः ।
दास᳚स्य वा मघव॒न्नार्य᳚स्य वा सनु॒तर्य᳚वया व॒धम् ॥
▶ पदपाठः (Word-by-word)
अ॒न्तः । य॒च्छ॒ । जिघां᳚सतः । वज्र᳚म् । इ॒न्द्र॒ । अ॒भि॒॑दास᳚तः ।
दास᳚स्य । वा॒ । म॒घ॒॑व॒न् । आर्य᳚स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र जिघांसतो हन्तुमिच्छतोऽभिदासतोऽभिद्रुह्यतः शत्रोर्वज्रमन्तर्यच्छ। अन्तर्गमय। तदेवाह। हे मघवन्धनवन्निन्द्र दासस्य वोपक्षीणस्याल्पस्यार्यस्यभिगन्तव्यस्य महतो वा शत्रोर्वधम्। वज्रनामैतत्। हननसाधनं वज्रं सनुतः। अन्तर्हितनामैतत्। अन्तर्हितं गूढं प्रयुज्यमानं यवय। पृथक्कुरु॥३॥

10.102.4
उ॒द्नो ह्र॒दम᳚पिब॒ज्जर्हृ᳚षाण॒ः कूटं᳚ स्म तृं॒हद॒भिमा᳚तिमेति ।
प्र मु॒ष्कभा᳚र॒ः श्रव᳚ इ॒च्छमा᳚नो॑जि॒रं बा॒हू अ᳚भर॒त्सिषा᳚सन् ॥
▶ पदपाठः (Word-by-word)
उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ᳚षाणः । कूट᳚म् । स्म॒ । तृं॒हत् । अ॒भि॑मा᳚तिम् । ए॒ति॒ ।
प्र । मु॒ष्क॑भा᳚रः । श्रवः᳚ । इ॒च्छमा᳚नः । अ॒जि॒रम् । बा॒हू इति᳚ । अ॒भ॒र॒त् । सिसा᳚सन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र वृषभः स्तूयते। वृषभ उद्न उदकस्य ह्रदमगाधजलाशयमपिबज्जर्हृषाणोऽत्यन्तं हृषितः सन्। तथा कूटं पर्वतशृंगं चोरैर्गोपिधानार्थं निहितं तृंहत्स्म। शृङ्गेण विहिंसितवान्। व्यदारयदित्यर्थः। तथा कृत्वाभिमातिमेति। शत्रुं गच्छति हन्तुम् । पश्चान्मुष्कभारः प्रवृद्धमुष्कः। प्रव्रुद्धस्य वृषभस्य हि मुष्कवृद्धिर्भवति। तथा प्रवृद्धो व्रुषभः श्रवः। श्रूयत इति श्रवो यशः। इच्छमान इच्छन्नजिरं गमनशीलं शत्रुं बाहू बाहुभ्यां बाह्वोर्वा प्राभरत्। प्रहृतवान्। यद्वा। अजिरमिति क्शिप्रनाम। क्षिप्रं सिशासन् सम्भक्तुमिच्छन् बाहू प्राभरत् प्रसारितवानित्यर्थः॥४॥

10.102.5 समानपद
न्य᳚क्रन्दयन्नुप॒यन्त᳚ एन॒ममे᳚हयन्वृष॒भं मध्य᳚ आ॒जेः ।
तेन॒ सूभ᳚र्वं श॒तव᳚त्स॒हस्रं॒ गवां॒ मुद्ग᳚लः प्र॒धने᳚ जिगाय ॥
▶ पदपाठः (Word-by-word)
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒॑यन्तः᳚ । ए॒न॒म् । अमे᳚हयन् । वृ॒ष॒भम् । मध्ये᳚ । आ॒जेः ।
तेन᳚ । सूभ᳚र्वम् । श॒त॑व᳚त् । स॒हस्र᳚म् । गवा᳚म् । मुद्ग᳚लः । प्र॒॑धने᳚ । जि॒गा॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मुद्गल आह। तेनेति तच्छब्दश्रुतेर्यच्छब्दाध्याहारः। यमेनं व्रुषभं न्यक्रन्दयन् नितरां क्रन्दनमकुर्वन्। के। उपयन्तः समीपे गच्छन्तो नरः। यथा प्रचण्डेन क्रन्दनेन शत्रवो भीताः पलायन्ते तथाकुर्वन्। किम्। वृषभं वर्षकं सेक्तारमाजेः सङ्ग्रामस्य मध्येऽमेहयन् मूत्रपुरीशोत्सर्गं विश्रामार्थं कारितवन्तः सूभर्वम्। भर्वतिरत्तिकर्मा। शोभनचर्मणादिभक्शकम् । तादृशो यथा भवति तथा कृत्वेत्यर्थः। यद्वा। एतद्गोसहस्रविशेषणम्। तेनोक्तरूपेण वृषभेण सूभर्वं सुष्ठु यवसास्वादि शतवच्छतोपेतं गवां सहस्रंमुद्गल एतन्नामाहं प्रधने सङ्ग्रामे जिगाय। अजैषम्॥५॥

10.102.6
क॒कर्द᳚वे वृष॒भो यु॒क्त आ᳚सी॒दवा᳚वची॒त्सार᳚थिरस्य के॒शी ।
दुधे᳚र्यु॒क्तस्य॒ द्रव᳚तः स॒हान᳚स ऋ॒च्छन्ति᳚ ष्मा नि॒ष्पदो᳚ मुद्ग॒लानी᳚म् ॥
▶ पदपाठः (Word-by-word)
क॒कर्द᳚वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा᳚वचीत् । सार᳚थिः । अ॒स्य॒ । के॒शी ।
दुधेः᳚ । यु॒क्तस्य᳚ । द्रव᳚तः । स॒ह । अन᳚सा । ऋ॒च्छन्ति᳚ । स्म॒ । निः॒॑पदः᳚ । मु॒द्ग॒लानी᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ककर्दवे हिंसनाय शत्रूणां वृषभो वर्षिता गौर्युक्त आसीत्। रथे सम्बद्धोऽभूत्। केशी केशवान् प्रग्रहवानस्य राज्ञो रथस्य वा सारथिः। मुद्गलानीत्यर्थः। सारथ्यभिप्रायेण केशीति पुल्लिङ्गता। अवावचीत्। वृषभभयजनकं शत्रुभयजनकं वाक्रोशमकरोत्। अथवा। केशी केशिनी सारथिरस्य। अमुमित्यर्थः। अमुं वृशभं शब्दमकारयत्। वच परिभाषण इत्यस्य केवलस्यान्तर्णीतण्यर्थस्य यङ् लुगन्तस्य लुङि रूपम् । अथवा। अस्य सारथिः सहायभूतः केशी प्रकृष्टकेशो वृषभोऽवावचित्। भृशमशब्दयत्। एवंभूतस्य दुधेर्दुर्धरस्यानसा सह द्रवतः शीघ्रं शत्रुमध्ये रथेन सह धावतो वृषभस्य भयङ्ग्करशब्देन निष्पदो निर्गच्छन्तो योद्धारो मुद्गलानीं मुद्गलस्य योषितं सारथिभुतां प्रत्युच्छन्ति ष्म। आगच्छन्नित्यर्थः। पाघ्रेत्यादिनर्च्छादेशः॥६॥

10.102.7
उ॒त प्र॒धिमुद᳚हन्नस्य वि॒द्वानुपा᳚युन॒ग्वंस᳚ग॒मत्र॒ शिक्ष᳚न् ।
इन्द्र॒ उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒ पद्या᳚भिः क॒कुद्मा᳚न् ॥
▶ पदपाठः (Word-by-word)
उ॒त । प्र॒॑धिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप᳚ । अ॒यु॒न॒क् । वंस᳚गम् । अत्र᳚ । शिक्ष᳚न् ।
इन्द्रः᳚ । उत् । आ॒व॒त् । पति᳚म् । अघ्न्या᳚नाम् । अरं᳚हत । पद्या᳚भिः । क॒कुत्॑मा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च विद्वान् स मुद्गलोऽस्य रथस्य प्रधिम्। प्रधिरक्षच्छिद्रकाष्ठः स च रथावयवानामुपलक्शकः। रथावयवमुदहन्। उदगमयत्। रथं सन्ननाहेत्यर्थः। तदनन्तरमत्र रथे वंसगं वननीयगमनं वृषभं शिक्षञ्शिक्षयन्रज्जुषु स्थापयन्नुपायुनक्। रथसमीपे युगेऽयोजयत्। युजेर्लङि तिपो हल्ङ्यादिलोपः। एवं सतीन्द्रो देवोऽघ्न्यानामहन्तव्यानां गवां पतिमुदावत्। उत्कृष्टमावत्। रक्षामकरोत्। पश्चात्ककुद्मान्वृषभः पद्याभिः सरणिभिररंहत। वेगेनागमत्। रहिर्गत्यर्थः॥७॥

10.102.8
शु॒नम᳚ष्ट्रा॒व्य᳚चरत्कप॒र्दी व᳚र॒त्रायां॒ दार्वा॒नह्य᳚मानः ।
नृ॒म्णानि᳚ कृ॒ण्वन्ब॒हवे॒ जना᳚य॒ गाः प᳚स्पशा॒नस्तवि᳚षीरधत्त ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । अ॒ष्ट्रा॒॑वी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्राया᳚म् । दारु᳚ । आ॒॑नह्य᳚मानः ।
नृ॒म्णानि᳚ । कृ॒ण्वन् । ब॒हवे᳚ । जना᳚य । गाः । प॒स्प॒शा॒नः । तवि᳚षीः । अ॒ध॒त्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुनमिति सुखनाम। सुखं यथा भवति तथा। अष्ट्रावी। अष्ट्रा प्रतोदः। तद्वान्। छान्दसो विनिः। कपर्दी कपर्दवानचरत्। सञ्चरति। किं कुर्वन्। वरत्रायां वध्र्यां दारु काष्ठं रथाङ्गभुतमानह्यमानः सर्वतो बध्नन्। पुनः किं कुर्वन्। बहवे जनाय स्वपुत्रभृत्यादिलक्शणाय नृम्णानि धनानि शत्रुसम्बन्धीनि सुखानि वा कृण्वन्। गाः पस्पशानः स्पृशन्। स्पश बाधनस्पर्शनयोः। छान्दसो लिटि कानच्। एवं कुर्वंस्तविषीर्बलान्यधत्त। धत्ते। जयं प्राप्नोतीत्यर्थः॥८॥

10.102.9
इ॒मं तं प᳚श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा᳚या॒ मध्ये᳚ द्रुघ॒णं शया᳚नम् ।
येन᳚ जि॒गाय᳚ श॒तव᳚त्स॒हस्रं॒ गवां॒ मुद्ग᳚लः पृत॒नाज्ये᳚षु ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य᳚ । युञ्ज᳚म् । काष्ठा᳚याः । मध्ये᳚ । द्रु॒॑घ॒नम् । शया᳚नम् ।
येन᳚ । जि॒गाय᳚ । श॒त॑व᳚त् । स॒हस्र᳚म् । गवा᳚म् । मुद्ग᳚लः । पृ॒त॒नाज्ये᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

कञ्चन सखायं सेनादिसहायाभावेन जयविषय उपहासं कुर्वानं प्रति ब्रविति। राजा द्रुघणेन वृषभेण चाजिं जिगायेत्युक्तवान्। पूर्वं वृशभो वर्णितः। अत्र द्रुघणो वर्ण्यते। हे सखे तमिमं द्रुघणं पश्य। कीदृशमिममिति उच्यते। युजेरसमासे। पा. ७-१-७१। इति नुम्। युजम्। युज्यत इति युक् सखा। वृषभस्य सखिभूतम्। वृशभो यावन्तमर्थं साधयति तावन्तमेव साधयन्तमित्यर्थः। पुनः कीदृशम् । काष्ठाया मध्ये । आज्यन्तोऽपि काष्ठोच्यत इति निरुक्तम्। २-१५। आज्यन्तस्य मध्ये। सङ्ग्राम इत्यर्थः। तत्र शयानं हन्तव्यान्सर्वाह्नत्वा सुखेन स्वपन्तं निर्व्यापारत्वेन वर्तमानम्। ईदृशं द्रुममयं घनं पश्येत्यर्थः। येन द्रुघणेन शतवच्छतोपेतं गवां सहस्रं पृतनाज्येषु सङ्ग्रामेषु जिगाय अहमजैषं तमिमं पश्येति समन्वयः। जयतेर्लुट्। सन्लिटो र्जेरित्यभ्यासादुत्तरस्य कुत्वम्। मिपो णल्॥९॥

10.102.10
आ॒रे अ॒घा को न्वि१॒᳚त्था द᳚दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था᳚पयन्ति ।
नास्मै॒ तृणं॒ नोद॒कमा भ᳚र॒न्त्युत्त᳚रो धु॒रो व᳚हति प्र॒देदि᳚शत् ॥
▶ पदपाठः (Word-by-word)
आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति᳚ । तम् । ऊं॒ इति᳚ । आ । स्था॒प॒य॒न्ति॒ ।
न । अ॒स्मै॒ । तृण᳚म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्॑त᳚रः । धु॒रः । व॒ह॒ति॒ । प्र॒॑देदि᳚शत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

या आरे समीप एवाघाघानि दुःखानि शत्रुरूपाणि करोति तं को नरो न्विदानीमित्थेत्थम् ददर्श। पश्यति। किञ्च यं द्रुघनं युञ्जन्ति रथे तमु तमेवास्थापयन्ति। आरोहयन्तीत्यर्थः। अथवा यं रथे युञ्जयन्ति तमेव प्रहरणार्थमास्थापयन्ति। उभयविधं कार्यमेकः करोतीत्यर्थः। किञ्चास्मै तृणं ना भरन्ति। नाहरन्ति। तथोदकं नाहरन्ति। हृग्रहोर्भ इति भत्वम्। ईदृशो द्रुघण उत्तरो दक्षिणस्य वृशभस्य स्वयमुत्तर सन् धुरो रथभारस्य रथधुरं वहति प्रदेदिशत् प्रकर्षेण जयं स्वामिने प्रदिशन् शत्रूणां वा भयं प्रदिशन् वहति। दिश अतिसर्जन इत्यस्माद्यङ् लुगन्ताच्छतरि रूपम्॥१०॥

10.102.11
प॒रि॒वृ॒क्तेव᳚ पति॒विद्य᳚मान॒ट् पीप्या᳚ना॒ कूच᳚क्रेणेव सि॒ञ्चन् ।
ए॒षै॒ष्या᳚ चिद्र॒थ्या᳚ जयेम सुम॒ङ्गलं॒ सिन᳚वदस्तु सा॒तम् ॥
▶ पदपाठः (Word-by-word)
प॒रि॒वृ॒क्ता॑इ᳚व । प॒ति॒॑विद्य᳚म् । आ॒न॒ट् । पीप्या᳚ना । कूच᳚क्रेण॑इव । सि॒ञ्चन् ।
ए॒ष॒॑ए॒ष्या᳚ । चि॒त् । र॒थ्या᳚ । ज॒ये॒म॒ । सु॒॑म॒ङ्गल᳚म् । सिन᳚॑वत् । अ॒स्तु॒ । सा॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र मुद्गलानी सारथिः स्तूयते। एषा मुद्गलानी परिवृक्तेव। वृजी वर्जने। परित्यक्ता पत्या पत्या वियुक्ता योशिदिव। सा यथा पतिविद्यम्। विद्यो वेद्यो लम्भनीयः। पैत्श्चासौ विद्यश्च। पतिविद्यमानशे तद्वत्पतिविद्यमानट्। आनड् व्याप्तिकर्मा। नशेर्लुङि मन्त्रे घसेति च्लेर्लुक्। छन्दस्यपि दृश्यते। पा. ६-४-७३। इत्यनजादीनामप्यडागमः। अश्नोतेर्लिटि वा णल्लोपश्छान्दसः। तथा पतिसमीपं सारथित्वेनागत्य पीप्याना वर्धमाना भवति। किमिव। कूचक्रेणेव सिञ्चन्। कुः पृथिवी। तस्याश्चक्रो वलयः कूचक्रः। तेन वर्षणीयत्वेन निमित्तेन सिञ्चञ्जलं वर्ष्मन्मेघ इव। स यथान्तरिक्षे स्वल्पमात्रोऽपि वर्षनसमये महान्भवति तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः। तथैषैष्या। एशितव्यो गोसङ्घ एषः। तमिच्छतीत्येषैषी। ईदृश्या तया रथ्या सारथिभूतया जयेम शत्रुभिरपहृतं गोसङ्घम् । तस्याः सातं दत्तं सम्भजनं वा सुमङ्गलं शोभनमङ्गलवत सिनवत्। सिनमन्नम्। तद्वच्चास्तु। गोरूपान्नवच्च भवतु॥११॥

10.102.12
त्वं विश्व᳚स्य॒ जग᳚त॒श्चक्षु᳚रिन्द्रासि॒ चक्षु᳚षः ।
वृषा॒ यदा॒जिं वृष᳚णा॒ सिषा᳚ससि चो॒दय॒न्वध्रि᳚णा यु॒जा ॥
▶ पदपाठः (Word-by-word)
त्वम् । विश्व᳚स्य । जग᳚तः । चक्षुः᳚ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु᳚षः ।
वृषा᳚ । यत् । आ॒जिम् । वृष᳚णा । सिसा᳚ससि । चो॒दय᳚न् । वध्रि᳚णा । यु॒जा ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूक्तस्य विकल्पेनैन्द्रत्वादाविन्द्रस्य स्तुतत्वादन्तेऽपीन्द्रः स्तूयते। हे इन्द्र त्वं विश्वस्य सर्वस्य जगतश्चक्षुशश्चक्षुष्मतः पश्यतो वा जगतश्चक्षुरसि। प्रत्येकमुत्पत्तिविशिष्टचक्षुः सद्भावेऽपि सर्वस्य साधारणं चक्षुरसि। त्वया द्रष्टव्यानैहिकामुष्मिकपदार्थान्पश्यन्तीत्यर्थः। त्वामेव हि यज्ञादिना लब्ध्वा पुरुषार्थान्साधयन्ति। यद्वा। विश्वस्य जगतो यन्निजं चक्शुरस्ति तस्यापि चक्षुषस्त्वं चक्शुरसि। यद्यस्माद्वृय्षाभिमतवर्षकस्त्वमाजिं मुद्गलस्य मम सङ्ग्रामं वध्रिणा पाशेन युजा युजौ युक्तौ वृषणा वृषणौ वर्षकावश्वौ रथे योजयित्वा चोदयञ्शत्रुषु प्रेरयन् सिषाससि आजिं स्तम्भक्तुमिच्छसि तस्माच्चक्षुरसि॥१२॥