ए॒षै॒ष्या᳚ चिद्र॒थ्या᳚ जयेम सुम॒ङ्गलं॒ सिन᳚वदस्तु सा॒तम् ॥
पदपाठः (Word-by-word)
ए॒ष॒॑ए॒ष्या᳚ । चि॒त् । र॒थ्या᳚ । ज॒ये॒म॒ । सु॒॑म॒ङ्गल᳚म् । सिन᳚॑वत् । अ॒स्तु॒ । सा॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
अत्र मुद्गलानी सारथिः स्तूयते। एषा मुद्गलानी परिवृक्तेव। वृजी वर्जने। परित्यक्ता पत्या पत्या वियुक्ता योशिदिव। सा यथा पतिविद्यम्। विद्यो वेद्यो लम्भनीयः। पैत्श्चासौ विद्यश्च। पतिविद्यमानशे तद्वत्पतिविद्यमानट्। आनड् व्याप्तिकर्मा। नशेर्लुङि मन्त्रे घसेति च्लेर्लुक्। छन्दस्यपि दृश्यते। पा. ६-४-७३। इत्यनजादीनामप्यडागमः। अश्नोतेर्लिटि वा णल्लोपश्छान्दसः। तथा पतिसमीपं सारथित्वेनागत्य पीप्याना वर्धमाना भवति। किमिव। कूचक्रेणेव सिञ्चन्। कुः पृथिवी। तस्याश्चक्रो वलयः कूचक्रः। तेन वर्षणीयत्वेन निमित्तेन सिञ्चञ्जलं वर्ष्मन्मेघ इव। स यथान्तरिक्षे स्वल्पमात्रोऽपि वर्षनसमये महान्भवति तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः। तथैषैष्या। एशितव्यो गोसङ्घ एषः। तमिच्छतीत्येषैषी। ईदृश्या तया रथ्या सारथिभूतया जयेम शत्रुभिरपहृतं गोसङ्घम् । तस्याः सातं दत्तं सम्भजनं वा सुमङ्गलं शोभनमङ्गलवत सिनवत्। सिनमन्नम्। तद्वच्चास्तु। गोरूपान्नवच्च भवतु॥११॥