दशमं मण्डलम् - सूक्तम् 128

9 ऋचः

ऋषिः: विहव्यः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 10.128 - सम्पूर्णम्

1 / 9
ऋक्: 10.128.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.128.1
ममा᳚ग्ने॒ वर्चो᳚ विह॒वेष्व᳚स्तु व॒यं त्वेन्धा᳚नास्त॒न्वं᳚ पुषेम ।
मह्यं᳚ नमन्तां प्र॒दिश॒श्चत᳚स्र॒स्त्वयाध्य᳚क्षेण॒ पृत᳚ना जयेम ॥
▶ पदपाठः (Word-by-word)
मम᳚ । अ॒ग्ने॒ । वर्चः᳚ । वि॒॑ह॒वेषु᳚ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा᳚नाः । त॒न्व᳚म् । पु॒षे॒म॒ ।
मह्य᳚म् । न॒म॒न्ता॒म् । प्र॒॑दिशः᳚ । चत᳚स्रः । त्वया᳚ । अधि᳚॑अक्षेण । पृत᳚नाः । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ममाग्न इति नवर्चं षोडशं सूक्तमाङ्गिरसस्य विहव्यस्यार्षम् वैश्वदेवम्। अन्त्या जगती शिष्टास्त्रिष्टुभः। अनुक्रम्यते हि। ममाग्ने नव विहव्यो वैश्वदेवं जगत्यन्तमिति। संसवे निमित्तभूते वैश्वदेवसूक्तस्य पुरस्तादेतच्छंस्यम् । सूत्रितं च। ममाग्ने वर्च इति वैश्वदेवसूक्तस्यापि वैतेष्वेव निविदो दध्यात्। आ. ६-६-। इति। समावर्तनेऽनेन सूक्तेन सिष्णासुना प्रत्यृचं समिदाधातव्या। सूत्रितम् च। ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात्। आ. गृ. ३-९-२। इति॥

हे अग्ने। विविधमाहूयन्ते येषु शूरा इति विहवाः सङ्ग्रामाः। यद्वा। विविधं यागार्थं देवा आहूयन्त एष्विति विहवा यज्ञाः। ह्वः सम्प्रसारनं च न्यभ्युपविषु। पा. ३-३-७२। इत्यधिकरणेऽप् सम्प्रसारणं च। थाथादिनोत्तरपदान्तोदात्तत्वम्। सङ्ग्रामेषु यज्ञेषु वा वर्चो दीप्तिस्त्वदनुग्रहान्ममास्तु। भवतु। वयं च त्वा त्वामिन्धनाः समिद्भिर्दीपयन्तस्तन्वं तव शरीरं पुषेम। हविर्भिर्वर्धयेम। इन्धेः शानचि श्नसोरल्लोप उदात्त निवृत्तिस्वरेण शानच आद्युदात्तत्वे प्राप्ते विभाषा वेण्वन्धानयोः। पा. ६-१-२१५। इत्याद्युदात्तत्वम्। तन्वं पुषेम। पुषेर्लिङि लिङ्याशिष्यङ्। अपि च मह्यं मदर्थम् । ङयि चेत्यस्मद आद्युदात्तत्वम्। चतस्रः प्रदिशः प्रकृष्टा दिशः। तद्वासिनो जना इत्यर्थः। नमन्ताम्। स्वत एव प्रह्वीभवन्तु। नमतेः कर्मकर्तरि लोटि न दुह्स्नुनमामिति यक्प्रतिषेधः। त्वयास्माभिर्हविर्भिः प्रवर्धितेनाध्यक्षेणेश्वरेण सता पृतनाः शत्रुसेना जयेम । अभिभवेम॥१॥

10.128.2 समानपद
मम᳚ दे॒वा वि᳚ह॒वे स᳚न्तु॒ सर्व॒ इन्द्र᳚वन्तो म॒रुतो॒ विष्णु᳚र॒ग्निः ।
ममा॒न्तरि᳚क्षमु॒रुलो᳚कमस्तु॒ मह्यं॒ वातः᳚ पवतां॒ कामे᳚ अ॒स्मिन् ॥
▶ पदपाठः (Word-by-word)
मम᳚ । दे॒वाः । वि॒॑ह॒वे । स॒न्तु॒ । सर्वे᳚ । इन्द्र᳚॑वन्तः । म॒रुतः᳚ । विष्णुः᳚ । अ॒ग्निः ।
मम᳚ । अ॒न्तरि᳚क्षम् । उ॒रु॑लो᳚कम् । अ॒स्तु॒ । मह्य᳚म् । वातः᳚ । प॒व॒ता॒म् । कामे᳚ । अ॒स्मिन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सर्वे देवा विहवे सङ्रग्रामे यज्ञे वा मम सन्तु। ममैव साधका भवन्तु। के पुनस्ते। इन्द्रवन्त इन्द्रेण युक्ता मरुतो विष्णुरग्निश्च। तथान्तरिक्षं ममोरुलोकं विस्तीर्णप्रकाशकमस्तु। लोकृ दर्शने। भाए घञ्। लोक आलोकः प्रकाशः। उरुर्लोको यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अपि चास्मिन्कामे कामयितव्ये फले निमित्तभूते सति वातो वायुः पवताम्। अनुगुणं प्रवातु। पूङ् पवने भौवादिकः। ऊडिदमित्यादिनेदमः सप्तम्या उदात्तत्वम्॥२॥

10.128.3
मयि᳚ दे॒वा द्रवि᳚ण॒मा य᳚जन्तां॒ मय्या॒शीर᳚स्तु॒ मयि᳚ दे॒वहू᳚तिः ।
दैव्या॒ होता᳚रो वनुषन्त॒ पूर्वे॑रि᳚ष्टाः स्याम त॒न्वा᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
मयि᳚ । दे॒वाः । द्रवि᳚णम् । आ । य॒ज॒न्ता॒म् । मयि᳚ । आ॒॑शीः । अ॒स्तु॒ । मयि᳚ । दे॒व॑हू᳚तिः ।
दैव्याः᳚ । होता᳚रः । व॒नु॒ष॒न्त॒ । पूर्वे᳚ । अरि᳚ष्टाः । स्या॒म । त॒न्वा᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवाः सर्वे द्रविणं धनं मयि स्तोतर्या यजन्ताम्। गमयन्तु। मह्यं ददत्वित्यर्थः। तथाशीराशंसनीयं यज्ञफलं च मय्येवास्तु। देवानां हूतिराह्वानमस्मिन्निति देवहूतिर्यज्ञः। स च मय्यस्तु। अपि च देवानामिमे दैव्याः। देवाद्यञञाविति यञ्। तादृशा होतारः साधुहोमनिष्पादका मदीया ऋत्विजः पूर्वेऽन्यदीयेभ्य ऋत्विग्भ्यः प्रथमभाविनः सन्तो वनुषन्त। देवान्सम्भजन्ताम्। वनतेश्छान्दसे लङि व्यत्ययो बहुलमिति त्रयो विकरणा उप्रत्ययः सिप्यपौ च। अडभावश्छान्दसः। वयं च तन्वा शरीरेणारिष्टा अहिंसिताः सुवीराः सुपुत्राश्च स्याम। भवेम। वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम्॥३॥

10.128.4
मह्यं᳚ यजन्तु॒ मम॒ यानि᳚ ह॒व्याकू᳚तिः स॒त्या मन᳚सो मे अस्तु ।
एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे᳚ देवासो॒ अधि᳚ वोचता नः ॥
▶ पदपाठः (Word-by-word)
मह्य᳚म् । य॒ज॒न्तु॒ । मम᳚ । यानि᳚ । ह॒व्या । आ॑कू᳚तिः । स॒त्या । मन᳚सः । मे॒ । अ॒स्तु॒ ।
एनः᳚ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे᳚ । दे॒वा॒सः॒ । अधि᳚ । वो॒च॒त॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मह्यं मदर्थं यजन्तु। ऋत्विजो देवान्हविर्भिर्यजन्तु। यद्वा। षष्ठ्यर्थे चतुर्थी। मह्यं मदीया ऋत्विज इत्यर्थः। मम स्वभूतानि हव्यानि यानि हवींषि चरुपुरोडाशादीनि सन्ति तैर्हविर्भिरित्यर्थः। तथा मे मनस आकूतिः सङ्कल्पनमभीष्टस्य प्रार्थनं सत्या यथार्थमस्तु। अपि चाहं कतमच्चन किमप्येनः पापं मा नि गाम्। मा नियतं निकृष्ठतरं वा गच्छॆयम् । पापं मा कार्षमित्यर्थः। एतेर्माङि लुङेणो गा लुङेति गादेशः। गातिस्थेति सिचो लुक्। अपि च हे विश्वे सर्वे देवासो देवाः यूयं नोऽस्माकमधि वोचत। विवादेषु पक्षपातेन ब्रूत। वक्तेर्लोटि व्यत्ययेनाट्। वच उमित्युमागमः॥४॥

10.128.5 समानपद
देवी᳚ः षळुर्वीरु॒रु नः᳚ कृणोत॒ विश्वे᳚ देवास इ॒ह वी᳚रयध्वम् ।
मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र᳚धाम द्विष॒ते सो᳚म राजन् ॥
▶ पदपाठः (Word-by-word)
देवीः᳚ । ष॒ट् । उ॒र्वीः॒ । उ॒रु । नः॒ । कृ॒णो॒त॒ । विश्वे᳚ । दे॒वा॒सः॒ । इ॒ह । वी॒र॒य॒ध्व॒म् ।
मा । हा॒स्म॒हि॒ । प्र॒॑जया᳚ । मा । त॒नूभिः᳚ । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे षडुर्वीः षट् सङ्ख्याका उर्व्यः। एताश्चान्यत्राम्नायन्ते। षण्मोर्वीरंहसः पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्चेति। ईदृश्यो हे देवीर्देव्यः। जसि वा छन्दसीति पूर्वसवर्णदीर्घः। नामन्त्रिते समानाधिकरणे सामान्यवचनमित्यस्याविद्यमानत्वनिषेधेन षळुर्वीरित्यनयोरामन्त्रितयोः पदात्परत्वादाष्टमिकमामंत्रितानुदात्तत्वम्। ता यूयमुरु विस्तीर्णम् धनं नोऽस्माकं कृणोत। कुरुत। कृवि हिंसाकरणयोः। धिन्विक्रुण्व्योरच्चेत्युप्रत्ययः। तप्तनप्तनथनाश्चेति तस्य तबादेशः। हे विश्वे सर्वे देवासो देवाः यूयं चेहास्मिन्धने प्राप्तव्ये विशये वीरयध्वम्। विक्रामयत। तथा वयं तद्धनं लभेमहि। तथा वीर्यवन्तो यूयं प्रयच्छध्वमित्यर्थः। वीर विक्रान्तौ। अपि च प्रजया पुत्रादिरूपया मा हास्महि। वयं मा परित्यज्येमहि। मा च तनूभिः शरीरैस्त्यज्येमहि। अस्मान्कदाचिदपि पुत्रादयः शरीराणि च मा परित्याक्षुरित्यर्थः। ओ हाक् त्यागे। अस्मात्कर्मणि लुङि चिण्वद्भावाभावे रूपमेतत्। तथा हे राजन्राजमान यद्वास्माकं स्वामिन् हे सोम द्विषतेऽप्रीतिं कुर्वते। द्विषेः शतर्यादादित्वाच्छपो लुक्। शतुरनुम इति बिभक्तेरुदात्तत्वम्। षष्ठ्यर्थे चतुर्थी व्यक्तव्येति चतुर्थी। द्विषतः शत्रोमा रधाम। मा वशं प्राप्नुयाम। तथा त्वं कुर्वित्यर्थः। रध्यतिर्वशगमन इति यास्कः। नि. ६-३२। यद्वा। द्विषते शत्रवे तदर्थं मा रधाम। परिपक्वा हननार्हा मा भूम। रध हिंसासंराध्योः। संराद्धिः पाक इति तद्वृत्तिः। माङि लुङि पुषादित्वाच्च्लेरङादेशः॥५॥

10.128.6
अग्ने᳚ म॒न्युं प्र᳚तिनु॒दन्परे᳚षा॒मद᳚ब्धो गो॒पाः परि᳚ पाहि न॒स्त्वम् ।
प्र॒त्यञ्चो᳚ यन्तु नि॒गुत॒ः पुन॒स्ते॒३॒᳚॑मैषां᳚ चि॒त्तं प्र॒बुधां॒ वि ने᳚शत् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । म॒न्युम् । प्र॒ति॒॑नु॒दन् । परे᳚षाम् । अद᳚ब्धः । गो॒पाः । परि᳚ । पा॒हि॒ । नः॒ । त्वम् ।
प्र॒त्यञ्चः᳚ । य॒न्तु॒ । नि॒॑गुतः᳚ । पुन॒रिति᳚ । ते । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒॑बुधा᳚म् । वि । ने॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने परेषां शत्रूणां मन्युं क्रोधं प्रतिनुदन् प्रतिमुखं प्रेरयंस्तिरस्कुर्वनदब्द्धः केनाप्यहिंसितो गोपा गोपयिता। गुपू रक्षन इत्यस्मादाय प्रत्ययांतात्क्विपि वेरपृक्तस्य लोपात्पूर्वं वलि लोपे रूपमेतत्। ईदृशस्त्वं नोऽस्मान्परि पाहि। परितः सर्वतो रक्ष। ते शत्रवः प्रत्यञ्चः प्रत्यञ्चन्तः प्रतिनिवर्तमाना निगुतः। गुङ् अव्यक्ते शब्दे। अस्मात्क्विपि तुक्। भयेन गद्गदरूपमव्यक्तं शब्दं नितरां कुर्वन्तः पुनर्यन्तु। स्वकीयं स्थानं पुनर्गच्छन्तु। अपि च प्रबुधां प्रबुध्यमानानामेतेषां शत्रूणां चित्तं ज्ञानसाधनं मनोऽमा सह युगपदेव वि नेशत्। विनश्यतु। प्रेत्येकाभिप्रायेणैकवचनम्। णश अदर्शन इत्यस्माच्छान्दसो लुङ्। पुषादित्वाच्च्लेरङादेशः। नशिमन्योरलिट्येत्वं वक्तव्यम्। पा. ६-४-१२०-५। इत्यकारस्यैत्वम्॥६॥

10.128.7
धा॒ता धा᳚तॄ॒णां भुव᳚नस्य॒ यस्पति᳚र्दे॒वं त्रा॒तार᳚मभिमातिषा॒हम् ।
इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति᳚र्दे॒वाः पा᳚न्तु॒ यज᳚मानं न्य॒र्थात् ॥
▶ पदपाठः (Word-by-word)
धा॒ता । धा॒तॄ॒णाम् । भुव᳚नस्य । यः । पतिः᳚ । दे॒वम् । त्रा॒तार᳚म् । अ॒भि॒मा॒ति॒॑स॒हम् ।
इ॒मम् । य॒ज्ञम् । अ॒श्विना᳚ । उ॒भा । बृह॒स्पतिः᳚ । दे॒वाः । पा॒न्तु॒ । यज᳚मानम् । नि॒॑अ॒र्थात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धातॄणां स्रष्टॄणामपि धाता स्रष्टा भुवनस्य कृत्स्नस्य भूतजातस्य य इन्द्रः सविता वा पतिः पालयिता तं देवं देवनशीलं त्रातारं सर्वेभो भयेभ्यः पालयितारमभिमातिषाहमभिमातीनां शत्रूणां सोड्य्हारमभिभवितारं एवंगुणविशिष्टमिन्द्रं सवितारं वा स्त्ॐईति शेषः। षह अभिभवे। छन्दसि सह इति ण्विप्रत्ययः। छान्दसं विभक्त्युदात्तत्वम्। उभोभावश्विनौ बृहस्पतिश्चैतत्प्रमुखाः सर्वे देवा इमं यज्ञमनुष्ठीयमानं यजमानं च न्यर्थान्निकृष्टादर्थात्पापात्। यद्वा। अर्थस्य प्रयोजनस्याभावो न्यर्थम् । तस्मात्पान्तु। रक्षन्तु। सफलं कुर्वन्त्वित्यर्थः। नेरनिधाने। पा. ६-२-१९२। इत्युत्तरपदान्तोदात्तत्वम्॥७॥

10.128.8
उ॒रु॒व्यचा᳚ नो महि॒षः शर्म᳚ यंसद॒स्मिन्हवे᳚ पुरुहू॒तः पु᳚रु॒क्षुः ।
स नः᳚ प्र॒जायै᳚ हर्यश्व मृळ॒येन्द्र॒ मा नो᳚ रीरिषो॒ मा परा᳚ दाः ॥
▶ पदपाठः (Word-by-word)
उ॒रु॒॑व्यचाः᳚ । नः॒ । म॒हि॒षः । शर्म᳚ । यं॒स॒त् । अ॒स्मिन् । हवे᳚ । पु॒रु॒॑हू॒तः । पु॒रु॒॑क्षुः ।
सः । नः॒ । प्र॒॑जायै᳚ । ह॒रि॒॑अ॒श्व॒ । मृ॒ळ॒य॒ । इन्द्र᳚ । मा । नः॒ । रि॒रि॒षः॒ । मा । परा᳚ । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उरुव्यचा विस्तीर्णव्यापनो महिषो महान्पूज्यो वा पुरुहूतो बहुभिर्यजमानैराहूतः पुरुक्षुर्बहुनिवासः। क्शियतेर्मितद्र्वादिभ्य उपसङ्ख्यानम्। पा. ३-२-१८१-१। इति डु प्रत्ययः। यद्वा। पुरुभिर्बहुभिः शब्द्यमानः स्तूयमानः। पूर्ववड्डुप्रत्ययः। औणादिके कर्मणि क्विप् वानित्यमागमशासनमिति तुगभावः। ईदृश इन्द्रोऽस्मिन्हवे यज्ञे। हूयन्तेऽस्मिन्हवींषीति हवो यज्ञः। जुहोतेऽरधिकरणेऽप्। यद्वा। अस्मिन्हवे त्वद्विषय आह्वाने। भावेऽनुपसर्गस्येति ह्वयतेरप् सम्प्रसारणम् च। नोऽस्मभ्यं शर्म सुखं यंसत्। यच्छतु। ददात्वित्यर्थः। यमेर्लेट्यडागमः। सिब्बहुलमिति सिप्। हे हर्यश्व हरी आश्वौ यस्य तादृश हे इन्द्र स त्वं नोऽस्माकं प्रजायै। द्वितीयार्थे चतुर्थी । प्रजां पुत्रपौत्रादिकां मृळय। सुखय। नोऽस्मान्मा रीरिषः। मा हिंसीः। मा च परा दाः। परादानं परित्यागः। मा परित्याक्षीरित्यर्थः॥८॥

10.128.9
ये नः᳚ स॒पत्ना॒ अप॒ ते भ᳚वन्त्विन्द्रा॒ग्निभ्या॒मव᳚ बाधामहे॒ तान् ।
वस᳚वो रु॒द्रा आ᳚दि॒त्या उ᳚परि॒स्पृशं᳚ मो॒ग्रं चेत्ता᳚रमधिरा॒जम᳚क्रन् ॥
▶ पदपाठः (Word-by-word)
ये । नः॒ । स॒॑पत्नाः᳚ । अप᳚ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । अव᳚ । बा॒धा॒म॒हे॒ । तान् ।
वस᳚वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒॑स्पृश᳚म् । मा॒ । उ॒ग्रम् । चेत्ता᳚रम् । अ॒धि॒॑रा॒जम् । अ॒क्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं ये सपत्नाः शत्रवस्तेऽप भवन्तु। अपगता भवन्तु। स्वस्थानादपगताः प्रच्युता भवन्तु। तान्सपत्नानिन्द्राग्निभ्यां हविर्भिः स्तुत्या च प्रसन्नाभ्यामनुगृहीता वयमव बाधामहे। निक्रुष्टतरं विनाशयामः। अपि च वसवो रुद्रा आदित्याश्च मा मामुपरिस्पृशमुन्नतपदस्य संस्पष्टारं सर्वेभ्यः श्रेष्ठमक्रन्। कुर्वन्तु। तथोग्रमुद्गूर्णबलं चेत्तारं चेतितारम् । छान्दस इडभावः। सर्वस्य ज्ञातारमधिराजं सर्वषामधीश्वरं च मां कुर्वन्तु। करोतेश्छान्दसे लुङि मन्त्रे घसेत्यादिना च्लेर्लुक्॥९॥