दशमं मण्डलम् - सूक्तम् 118

9 ऋचः

ऋषिः: उरुक्षय आमहीयवः देवता: अग्नी रक्षोहा छन्दः: गायत्री

सूक्तम् 10.118 - सम्पूर्णम्

1 / 9
ऋक्: 10.118.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.118.1
अग्ने॒ हंसि॒ न्य१॒᳚त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये᳚ शुचिव्रत ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । हंसि᳚ । नि । अ॒त्रिण᳚म् । दीद्य᳚त् । मर्त्ये᳚षु । आ ।
स्वे । क्षये᳚ । शु॒चि॒॑व्र॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्ने हंसीति नवर्चं षष्ठं सूक्तममहीयुगोत्रस्योरुक्षयस्यार्षं गायत्रम्। रक्षोहाग्निर्देवता। तथा चानुक्रम्यते। अग्ने हंस्युरुक्षय आमहीयव आग्नेयं राक्षोघ्नं गायत्रं त्विति। मथ्यमानेऽग्नावजायमान इदमनुवक्तव्यम्। सूत्रितं च। अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसि न्यत्रिणामिति सूक्तमावपेत। आ. २-१६। इति। प्रातरनुवाकाश्विनशस्त्रयोरपि गायत्रे छन्दसीदं सूक्तम्। सूत्रितं च। अग्ने हंस्यग्निं हिन्वन्तु नः। आ. ४-१३। इति। दशमेऽहनि धिष्ण्याङ्गाराभिविहरण आद्य जप्या। सूत्रितं च। परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणम्। आ. ८-१२। इति॥

हे शुचिव्रत पूतकर्मन् दीप्यमानतेजस्क हे अग्ने अत्रिणमत्तारं शत्रुं तमोरूपं नितरां हंसि। विनाशय। आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः। किं कुर्वन्। मर्त्येषु मनुस्येषु यजनानेष्वाभिमुख्येन दीद्यत् कर्मसिद्ध्यर्थं प्रकाशमनाः। दीदितिर्दीप्तिकर्मा। तथा स्व आत्मीये क्षये निवासभुत आहवनीयादिस्थाने दीप्यमानः। क्षयो निवासे। पा. ६-१-२-१। इत्याद्युदात्तत्वम्॥१॥

10.118.2
उत्ति᳚ष्ठसि॒ स्वा᳚हुतो घृ॒तानि॒ प्रति᳚ मोदसे ।
यत्त्वा॒ स्रुचः᳚ स॒मस्थि᳚रन् ॥
▶ पदपाठः (Word-by-word)
उत् । ति॒ष्ठ॒सि॒ । सु॑आ᳚हुतः । घृ॒तानि᳚ । प्रति᳚ । मो॒द॒से॒ ।
यत् । त्वा॒ । स्रुचः᳚ । स॒म्॑अस्थि᳚रन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्वाहुतोऽस्माभिः सुष्ठ्वाहूयमानः सन्नुत्तिष्थसि। अरणीभ्यामुद्गतो भव। ऊर्ध्वकर्मत्वादात्मनेपदाभावः। पा. १-३-२४। उद्गत्य च घृतानि घृतेन सहितान्यस्माभिर्दीयमानानि हवींषि प्रति मोदसे। हृष्तो भव। मुदहर्षे भौवादिकः। अनुदात्तेत्। यद्यदा त्वा त्वां स्रुचो जुह्वादीनि पात्राणि समस्थिरन् सङ्गतान्यभवन्। समवप्रविभ्यः स्थ इति लुङ्यात्मने पदम्। स्थाघ्वोरिच्चेति सिचः कित्त्वमिकारश्चान्तादेशः। ह्रस्वादङ्गादिति सिचो लोपः। व्यत्ययेन झस्य रन्। तिङि चोदात्तवतिति गतेर्निघातः॥२॥

10.118.3
स आहु᳚तो॒ वि रो᳚चते॒॑ग्निरी॒ळेन्यो᳚ गि॒रा ।
स्रु॒चा प्रती᳚कमज्यते ॥
▶ पदपाठः (Word-by-word)
सः । आ॑हु᳚तः । वि । रो॒च॒ते॒ । अ॒ग्निः । ई॒ळेन्यः᳚ । गि॒रा ।
स्रु॒चा । प्रती᳚कम् । अ॒ज्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आहुत आभिमुख्येन हुतः। गतिरनन्तर इति गतेः प्रकृतिस्वरः। गिरा स्तुतिलक्षणया वाचेलेन्यः स्तोतव्यः सोऽग्निर्वि रोचते। अत्यर्थं दीप्यते। तथा प्रतीकं सर्वेषां देवानां पूर्वमेव स्रुचा घृतसहितयाज्यते। सिच्यते॥३॥

10.118.4
घृ॒तेना॒ग्निः सम᳚ज्यते॒ मधु᳚प्रतीक॒ आहु᳚तः ।
रोच᳚मानो वि॒भाव᳚सुः ॥
▶ पदपाठः (Word-by-word)
घृ॒तेन᳚ । अ॒ग्निः । सम् । अ॒ज्य॒ते॒ । मधु᳚॑प्रतीकः । आ॑हु᳚तः ।
रोच᳚मानः । वि॒भा॑व᳚सुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्घृतेन हविषा समज्यते। सम्यक् सिक्तो भवति। कीदृशः। मधुप्रतीको घृतप्रयुक्तावयवः आहुतः स्तुतिभिर्हविर्भिर्वा रोचमानो दीप्यमानः विभावसुः स्वदीप्त्या सर्वमाच्छादयन्। यद्वा। दीप्तिरेव धनम् यस्य सः॥४॥

10.118.5
जर᳚माण॒ः समि᳚ध्यसे दे॒वेभ्यो᳚ हव्यवाहन ।
तं त्वा᳚ हवन्त॒ मर्त्या᳚ः ॥
▶ पदपाठः (Word-by-word)
जर᳚माणः । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः᳚ । ह॒व्य॒॑वा॒ह॒न॒ ।
तम् । त्वा॒ । ह॒व॒न्त॒ । मर्त्याः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्तोर्यामे होतुरतिरिक्त्योक्थ्ये जरमाणह् समिध्यस इत्यनुरूपस्तृचः। सुत्रितं च। जराबोध तद्विविद्धि जरमानः समिध्यसे। आ. ९-११। इति॥

हे हव्यवाहन हव्यानां प्रापयितः। हव्येऽनन्तः पादम्। पा. ३-२-६६। इति ञ्युट्। जरमाणः स्तोतृभिः स्तूयमानः। जरतिः स्तुतिकर्मा। स त्वं देवेभ्यो देवार्थं समिध्यसे। हविर्भिः सम्यग्दीप्यसे। तं तादृशं त्वा त्वां मर्त्या मनुष्येषु साधवो यजमाना ह्वन्त। आह्वयन्ति। ह्वयतेर्लङि बहुलं छन्दसीति सम्प्रसारणम्। ५॥

10.118.6
तं म᳚र्ता॒ अम᳚र्त्यं घृ॒तेना॒ग्निं स᳚पर्यत ।
अदा᳚भ्यं गृ॒हप᳚तिम् ॥
▶ पदपाठः (Word-by-word)
तम् । म॒र्ताः॒ । अम᳚र्त्यम् । घृ॒तेन᳚ । अ॒ग्निम् । स॒प॒र्य॒त॒ ।
अदा᳚भ्यम् । गृ॒ह॑प᳚तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मर्ता ऋत्विजः अमर्त्यं मनुष्यधर्मरहितमगिं घृतेन हविषा सपर्यत। परिचरत। सपरशब्दः कण्ड्वादिः। कीदृशम् । अदाभ्यं कैश्चिदप्यहिंस्यम्। दभेश्चेति वक्तव्यम्। पा. ३-१-१२४-३। इति ण्यत्। गृहपतिं गृहस्य स्वामिनं यजमानरूपम्। पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः॥६॥

10.118.7
अदा᳚भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द᳚ह ।
गो॒पा ऋ॒तस्य᳚ दीदिहि ॥
▶ पदपाठः (Word-by-word)
अदा᳚भ्येन । शो॒चिषा᳚ । अग्ने᳚ । रक्षः᳚ । त्वम् । द॒ह॒ ।
गो॒पाः । ऋ॒तस्य᳚ । दी॒दि॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमादाभ्येनाहिंस्येन शोचिषा तेजसा रक्षः। जातावेकवचनम्। सर्वान्राक्षसान्दह। विनाशय। किञ्चर्तस्य यज्ञस्य गोपा गोपयिता सन् दीदिहि। दीप्यस्व॥७॥

10.118.8
स त्वम᳚ग्ने॒ प्रती᳚केन॒ प्रत्यो᳚ष यातुधा॒न्य᳚ः ।
उ॒रु॒क्षये᳚षु॒ दीद्य᳚त् ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । अ॒ग्ने॒ । प्रती᳚केन । प्रति᳚ । ओ॒ष॒ । या॒तु॒॑धा॒न्यः᳚ ।
उ॒रु॒॑क्षये᳚षु । दीद्य᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स त्वं प्रतीकेन त्वदवयवभूतेन तेजसा यातुधान्यो यातुधानीराक्षसीः प्रत्योष। प्रतिकूलं दह। उष दाहे भौवादिकः। लोटि हेर्लुक्। जातेरस्त्रीविषयात्। पा. ४-१-६३। इति यातुधानशब्दस्य ङीष्। उदात्तस्वरितयोर्यन इति स्वरितत्वम्। किं कुर्वन्। उरुक्शयेषु विस्तीर्णेषु निवासेष्वाहवनीयादिषु दीद्यद्दीप्यमानः॥८॥

10.118.9
तं त्वा᳚ गी॒र्भिरु᳚रु॒क्षया᳚ हव्य॒वाहं॒ समी᳚धिरे ।
यजि᳚ष्ठं॒ मानु᳚षे॒ जने᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । गीः॒॑भिः । उ॒रु॒॑क्षयाः᳚ । ह॒व्य॒॑वाह᳚म् । सम् । ई॒धि॒रे॒ ।
यजि᳚ष्ठम् । मानु᳚षे । जने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने उरुक्षया बहुनिवासा यजमाना हव्यवाहम् हविषां वोढारम् मानुषे मनुष्यसम्बन्धिनि जने जनमध्ये यजिष्थं यष्टृतमं तं त्वा त्वां गीर्घिः स्तुतिभिस्तत्सहितैर्हविर्भिः समीधिरे। सम्यगदीदिपन्। इन्धेर्लिटीन्धिभवतिभ्यां चेति कित्त्वे नलोपः॥९।