तृतीयं मण्डलम् - सूक्तम् 1

23 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.1 - सम्पूर्णम्

1 / 23
ऋक्: 3.1.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (23)
3.1.1 समानपद
सोम᳚स्य मा त॒वसं॒ वक्ष्य᳚ग्ने॒ वह्निं᳚ चकर्थ वि॒दथे॒ यज᳚ध्यै ।
दे॒वा{4} अच्छा॒ दीद्य᳚द्यु॒ञ्जे अद्रिं᳚ शमा॒ये अ᳚ग्ने त॒न्वं᳚ जुषस्व ॥
▶ पदपाठः (Word-by-word)
सोम᳚स्य । मा॒ । त॒वस᳚म् । वक्षि᳚ । अ॒ग्ने॒ । वह्नि᳚म् । च॒क॒र्थ॒ । वि॒दथे᳚ । यज᳚ध्यै ।
दे॒वान् । अच्छ᳚ । दीद्य᳚त् । यु॒ञ्जे । अद्रि᳚म् । श॒म्॑आ॒ये । अ॒ग्ने॒ । त॒न्व᳚म् । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंविदथे यज्ञे यजध्यै यष्टुं सोमस्यवह्निंवोढारं यं मा मां चकर्थकृतवानसि तं मा तवसंतपस्विनं बलिनं वक्षि कामयस्व किञ्च हेअग्ने देवानच्छअभिलक्ष्यदीद्यत् दीप्यमानोहं अद्रिं ग्रावाणं युञ्चे अभिषवणाययुनज्मिशमाये शाम्यामिच तथामन्त्रान्तरं—ऋतेनदेवःसविताशमायते ति । यद्वा शमायेस्तौमि शशमानः रञ्चयतीति स्तुतिकर्मसुपाठात् तथाचमन्त्रान्तरं—सोअग्नईजे शशमेचमर्तइति । किञ्च हेअग्ने तन्वंशरीरं जुषस्वरक्षायैसेवस्व यद्वा कर्माणितन्वन्तं मां सेवस्वे त्यर्थः ॥ १ ॥

3.1.2 समानपद
प्राञ्चं᳚ य॒ज्ञं च᳚कृम॒ वर्ध᳚तां॒ गीः स॒मिद्भि᳚र॒ग्निं नम᳚सा दुवस्यन् ।
दि॒वः श᳚शासुर्वि॒दथा᳚ कवी॒नां गृत्सा᳚य चित्त॒वसे᳚ गा॒तुमी᳚षुः ॥
▶ पदपाठः (Word-by-word)
प्राञ्च᳚म् । य॒ज्ञम् । च॒कृ॒म॒ । वर्ध᳚ताम् । गीः । स॒मित्॑भिः᳚ । अ॒ग्निम् । नम᳚सा । दु॒व॒स्य॒न् ।
दि॒वः । श॒शा॒सुः॒ । वि॒दथा᳚ । क॒वी॒नाम् । गृत्सा᳚य । चि॒त् । त॒वसे᳚ । गा॒तुम् । ई॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने वयं यज्ञं प्राञ्चं प्रकर्षेणग्च्छन्तं चकृम अकार्ष्म गीः मदीयास्तुतिः वर्धतां एधतां अग्निंसमिद्धिर्नम्स्वाहविषाचदुवस्यन् अस्म्दीयाः परिचरेयुः किञ्च दिवोद्युलोकादागत्य देवाः कवीनां स्तोतॄणां विदथा ज्ञानानि स्तोत्राणिवाशशासुः अन्वशिषन् अपिच गृत्साय गृणातेरिदं रूपं स्तोतव्यायाग्नये तवसेवृद्धाय गातुंस्तोतुं ईषुश्रित् स्तोतारइच्छन्तिच चिदितिचार्थे ॥ २ ॥

3.1.3
मयो᳚ दधे॒ मेधि᳚रः पू॒तद᳚क्षो दि॒वः सु॒बन्धु᳚र्ज॒नुषा᳚ पृथि॒व्याः ।
अवि᳚न्दन्नु दर्श॒तम॒प्स्व१॒᳚न्तर्दे॒वासो᳚ अ॒ग्निम॒पसि॒ स्वसॄ᳚णाम् ॥
▶ पदपाठः (Word-by-word)
मयः᳚ । द॒धे॒ । मेधि᳚रः । पू॒त॑द᳚क्षः । दि॒वः । सु॒॑बन्धुः᳚ । ज॒नुषा᳚ । पृ॒थि॒व्याः ।
अवि᳚न्दन् । ऊं॒ इति᳚ । द॒र्श॒तम् । अ॒प्॑सु । अ॒न्तः । दे॒वासः᳚ । अ॒ग्निम् । अ॒पसि᳚ । स्वसॄ᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मेधिरः मेधावान् प्राज्ञः पूतदक्षः शुद्धबलः जनुषा जन्ममात्रेणसुबन्धुः शोभनबन्धुः स्वत एवबन्धुरितियावत् योग्निर्दिवोद्युलोकस्य पृथिव्याः भूमेश्चमयः सुखंदधेविदधाति देवानांमनुष्या णांचसुखंकरोतीतियावत् तंदर्शतं दर्शनीयमग्निं देवासोदेवाः स्वसॄणां सरणशीलानांनदीनामप्स्व न्तर्गूढं स्थितं अपसि यज्ञवहनरूपेकर्मणिनिमित्ते उइतिपूरणः अविन्दन् लब्धवन्तः ॥ ३ ॥

3.1.4
अव᳚र्धयन्त्सु॒भगं᳚ स॒प्त य॒ह्वीः श्वे॒तं ज᳚ज्ञा॒नम᳚रु॒षं म᳚हि॒त्वा ।
शिशुं॒ न जा॒तम॒भ्या᳚रु॒रश्वा᳚ दे॒वासो᳚ अ॒ग्निं जनि᳚मन्वपुष्यन् ॥
▶ पदपाठः (Word-by-word)
अव᳚र्धयन् । सु॒॑भग᳚म् । स॒प्त । य॒ह्वीः । श्वे॒तम् । ज॒ज्ञा॒नम् । अ॒रु॒षम् । म॒हि॒॑त्वा ।
शिशु᳚म् । न । जा॒तम् । अ॒भि । आ॒रुः॒ । अश्वाः᳚ । दे॒वासः᳚ । अ॒ग्निम् । जनि᳚मन् । व॒पु॒ष्य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्त सर्पणशीलाः यह्वीर्यह्व्यः महत्योनद्यः सुभगं शोभनधनं श्वेतंशुभ्रं जज्ञानं जातं महित्वामहत्त्वेन अरुषमारोचमानं अप्सुस्थितमग्निंअवर्धयन् स्वकार्यभूताभिरोषधीभिर्वृद्धिं प्रापितवत्यः यद्वा दिव्यमग्निं अपोवर्धयन्ति अबिन्धनत्वात्तस्य किञ्च शिशुंनजातं यथाजातं शिशुंअश्वाः वडवाः अभ्यारुः अभिगच्छन्ति तथानद्यः उत्पन्नमग्निं अभ्यारुः अभिजग्मुः अपि चदेवासः देवाः अग्निंजनिमन् जन्मन्युदकेवा वपुष्यन् वपुर्दीप्तिमकुर्वन् ॥ ४ ॥

3.1.5
शु॒क्रेभि॒रङ्गै॒ रज᳚ आतत॒न्वान्क्रतुं᳚ पुना॒नः क॒विभि᳚ः प॒वित्रै᳚ः ।
शो॒चिर्वसा᳚न॒ः पर्यायु᳚र॒पां श्रियो᳚ मिमीते बृह॒तीरनू᳚नाः ॥
▶ पदपाठः (Word-by-word)
शु॒क्रेभिः᳚ । अङ्गैः᳚ । रजः᳚ । आ॒॑त॒त॒न्वान् । क्रतु᳚म् । पु॒ना॒नः । क॒वि॑भिः᳚ । प॒वित्रैः᳚ ।
शो॒चिः । वसा᳚नः । परि᳚ । आयुः᳚ । अ॒पाम् । श्रियः᳚ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निः शुक्रेभिः शुक्रैरङ्गैस्तेजोभिरजोन्तरिक्षमाततन्वान् आततन्वन् व्याप्नुवन् क्रतुं कर्मणां कर्तारं यजमानं कविभिः क्रान्तप्रज्ञैः स्तोतव्यैर्वापवित्रैः शोधकैस्तेजोभिः पुनानः शोधयन् शोचि र्दीप्तिंवस्त्रस्थानीयंपरिपरितोवसानः आच्छादयन् अपांअपस्यातां कर्मवतां आयुरन्नं बृहतीः प्रभू ताः अनूनाः संपूर्णाः श्रियः संपदश्च मिमीतेकरोति ॥ ५ ॥

3.1.6
व॒व्राजा᳚ सी॒मन᳚दती॒रद᳚ब्धा दि॒वो य॒ह्वीरव᳚साना॒ अन᳚ग्नाः ।
सना॒ अत्र᳚ युव॒तय॒ः सयो᳚नी॒रेकं॒ गर्भं᳚ दधिरे स॒प्त वाणी᳚ः ॥
▶ पदपाठः (Word-by-word)
व॒व्राज᳚ । सी॒म् । अन᳚दतीः । अद᳚ब्धाः । दि॒वः । य॒ह्वीः । अव᳚सानाः । अन᳚ग्नाः ।
सनाः᳚ । अत्र᳚ । यु॒व॒तयः᳚ । स॑यो᳚नीः । एक᳚म् । गर्भ᳚म् । द॒धि॒रे॒ । स॒प्त । वाणीः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनदतीः अभक्षयन्तीः अदब्धाः अहिंसिताः मातृभूताः अपोग्निः सींसर्वतोवव्राज व्रजति अग्निरपांशोषकः तंचापः शमयन्तितदुभयमिहनास्तीत्युक्तंभवति कीदृश्यस्ताः दियोयह्वीः अन्तरिक्षस्यापत्यभूताः अवसानाः वस्त्रमनाच्छादयन्त्यः वस्त्रस्थानीयस्यजलस्य विद्यमानत्वात् अतएवनग्नाः किञ्च ताअपिसनाः सनातन्यः युवतयः नित्यतरुण्यः नित्यव्रुद्धाइत्यर्थः सयोनीः समानमन्तरिक्षंयोनिस्थानंयासांताः सप्तवाणीः नद्यः एकं अग्निंगर्भंगर्भस्थं दधिरेदधते ‌ ॥ ६ ॥

3.1.7 समानपद
स्ती॒र्णा अ᳚स्य सं॒हतो᳚ वि॒श्वरू᳚पा घृ॒तस्य॒ योनौ᳚ स्र॒वथे॒ मधू᳚नाम् ।
अस्थु॒रत्र᳚ धे॒नव॒ः पिन्व᳚माना म॒ही द॒स्मस्य᳚ मा॒तरा᳚ समी॒ची ॥
▶ पदपाठः (Word-by-word)
स्ती॒र्णाः । अ॒स्य॒ । स॒म्॑हतः᳚ । वि॒श्व॑रू᳚पाः । घृ॒तस्य᳚ । योनौ᳚ । स्र॒वथे᳚ । मधू᳚नाम् ।
अस्थुः᳚ । अत्र᳚ । धे॒नवः᳚ । पिन्व᳚मानाः । म॒ही इति᳚ । द॒स्मस्य᳚ । मा॒तरा᳚ । स॒मी॒ची इति᳚ स॒म्॑ई॒ची ॥
▶ सायणभाष्यम् (Sayana Commentary)

घृतस्योदकस्य योनौस्थाने अन्तरिक्षे संहतः पुञ्चीभूताः हन्तेःक्विप् विश्वरूपाः नानारूपाः स्तीर्णाः सर्वत्रप्रसृताः अस्याग्नेःरश्मयः मधूनामुदकानां स्रवथेस्रवणे निमित्ते अस्थुस्तिष्ठन्ति पिन्व मानाः पूर्यमाणाः अत्रअग्नौआपः धेनवः सर्वेषां प्रीणयित्र्यः अभवन् समीची समञ्चत्यौ शोभमाने मही महत्यौद्यावापृथिव्यौ दस्मस्यदर्शनीयस्याग्नेर्मातरा मातरौ भवतः ॥ ७ ॥

3.1.8
ब॒भ्रा॒णः सू᳚नो सहसो॒ व्य᳚द्यौ॒द्दधा᳚नः शु॒क्रा र᳚भ॒सा वपूं᳚षि ।
श्चोत᳚न्ति॒ धारा॒ मधु᳚नो घृ॒तस्य॒ वृषा॒ यत्र᳚ वावृ॒धे काव्ये᳚न ॥
▶ पदपाठः (Word-by-word)
ब॒भ्रा॒णः । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । वि । अ॒द्यौ॒त् । दधा᳚नः । शु॒क्रा । र॒भ॒सा । वपूं᳚षि ।
श्चोत᳚न्ति । धाराः᳚ । मधु᳚नः । घृ॒तस्य᳚ । वृषा᳚ । यत्र᳚ । व॒वृ॒धे । काव्ये᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसहसःसूनो सहसस्पूत्रअग्ने बभ्राणः सर्वैर्धार्यमाणःत्वं शुक्राशुक्राणिभास्वराणिरभसा वेग वन्ति वपूंषि अर्चींषिदधानः धारयंस्त्वं व्यद्यौत् विद्योतसे वृषाग्निः यत्रयस्मिन्यजमानेकाव्ये नस्तोत्रेणववृधेवृद्धिंप्राप्नोतितदानींमधुनः अत्यन्तं मधुरस्यघृत्स्यौदकस्यधाराः श्चोतन्ति स्रवन्ते यदायजमानस्तोत्रेणअग्निस्तुष्टोभवति तदानींवृष्टिर्भ्वतीत्यर्थः ॥ ८ ॥

3.1.9
पि॒तुश्चि॒दूध᳚र्ज॒नुषा᳚ विवेद॒ व्य᳚स्य॒ धारा᳚ असृज॒द्वि धेना᳚ः ।
गुहा॒ चर᳚न्तं॒ सखि᳚भिः शि॒वेभि᳚र्दि॒वो य॒ह्वीभि॒र्न गुहा᳚ बभूव ॥
▶ पदपाठः (Word-by-word)
पि॒तुः । चि॒त् । ऊधः᳚ । ज॒नुषा᳚ । वि॒वे॒द॒ । वि । अ॒स्य॒ । धाराः᳚ । अ॒सृ॒ज॒त् । वि । धेनाः᳚ ।
गुहा᳚ । चर᳚न्तम् । सखि᳚॑भिः । शि॒वेभिः᳚ । दि॒वः । य॒ह्वीभिः᳚ । न । गुहा᳚ । ब॒भू॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितुः अन्तरिक्षस्यऊधः ऊधःस्थानोयजलप्रदेशंअयमग्निर्जनुषास्वयमेवविवेद जानाति किं चायमग्निः अस्योधसः संबन्धिन्योधाराः पयोधाराः व्यसृजत् विसृष्टवान् धेनामाध्यमिकावाचः विसृजति शिवेभिः शिवंकरैः सखिभिः आत्मनःसखिभूतैर्वायुभिः दिवोयह्वीभिः अन्तरिक्षस्या पत्यभूताभिरद्भिश्चसह गुहागुहायांचरन्तं वर्तमानमेनमग्निंगुहाचित् गुहायांस्थितः कोपिनबभूव प्राप्तुंसमर्थोनाभवत् ॥ ९ ॥

3.1.10
पि॒तुश्च॒ गर्भं᳚ जनि॒तुश्च᳚ बभ्रे पू॒र्वीरेको᳚ अधय॒त्पीप्या᳚नाः ।
वृष्णे᳚ स॒पत्नी॒ शुच᳚ये॒ सब᳚न्धू उ॒भे अ᳚स्मै मनु॒ष्ये॒३॒᳚ नि पा᳚हि ॥
▶ पदपाठः (Word-by-word)
पि॒तुः । च॒ । गर्भ᳚म् । ज॒नि॒तुः । च॒ । ब॒भ्रे॒ । पू॒र्वीः । एकः᳚ । अ॒ध॒य॒त् । पीप्या᳚नाः ।
वृष्णे᳚ । स॒पत्नी॒ इति᳚ स॒॑पत्नी᳚ । शुच᳚ये । सब᳚न्धू॒ इति᳚ स॑ब᳚न्धू । उ॒भे इति᳚ । अ॒स्मै॒ । म॒नु॒ष्ये॒३॒᳚ इति᳚ । नि । पा॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः पितुश्च अन्तरिक्षस्यगर्भं वृष्टिद्वारागर्भभूतं जनितुः सर्वस्यलोकस्यजनयितुश्च ब्रह्म णश्च लोकं बभ्रेबिभर्ति एकएवाग्निः पूर्वीर्बह्वोः पीप्यानाः प्यायमानाः वृद्धिंप्राप्ताः ओषधीः अधयत धयतिभक्षयति सपत्नी समानएकः सूर्यःपतिर्ययोःते मनुष्ये मनुष्येभ्योहिते उभेद्या- वापृथिव्यौ वृष्णेवर्षित्रे अस्मैशुच्येअग्नये सबन्धूभवतः अनयोः अग्निरेवबन्धुरित्यर्थः हे अग्ने त्वं- तेद्यावापृथिव्यौ निपाहि नितरांरक्ष ॥ १० ॥

3.1.11
उ॒रौ म॒हा{4} अ᳚निबा॒धे व᳚व॒र्धापो᳚ अ॒ग्निं य॒शस॒ः सं हि पू॒र्वीः ।
ऋ॒तस्य॒ योना᳚वशय॒द्दमू᳚ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ᳚णाम् ॥
▶ पदपाठः (Word-by-word)
उ॒रौ । म॒हान् । अ॒नि॒॑बा॒धे । व॒व॒र्ध॒ । आपः᳚ । अ॒ग्निम् । य॒शसः᳚ । सम् । हि । पू॒र्वीः ।
ऋ॒तस्य᳚ । योनौ᳚ । अ॒श॒य॒त् । दमू᳚नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि᳚ । स्वसॄ᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महानयमग्निः अनिबाधे असंबाधे उरौविस्तीर्णेन्तरिक्षे ववर्ध अस्यवर्धनेकारणमाह—हिय स्मात्कारणात् पूवीर्बह्व्यः यशसः यशोन्नं तद्वत्य आपः अग्निं संवर्धयन्ति एवं अद्भिर्वृद्धिंप्राप्तो ग्निः ऋतस्यउदकस्ययोनौ स्थानेन्तरिक्षेस्थितः स्वसॄणांस्वतःस्सरन्तीनां जामीनां भगिनीस्थानी यानां नदीनांहेतुभूतेअपसिपयसि दमूनाः दान्तमनाःसन् अशयत् शेते ॥ ११ ॥

3.1.12
अ॒क्रो न ब॒भ्रिः स᳚मि॒थे म॒हीनां᳚ दिदृ॒क्षेयः᳚ सू॒नवे॒ भाऋ᳚जीकः ।
उदु॒स्रिया॒ जनि᳚ता॒ यो ज॒जाना॒पां गर्भो॒ नृत᳚मो य॒ह्वो अ॒ग्निः ॥
▶ पदपाठः (Word-by-word)
अ॒क्रः । न । ब॒भ्रिः । स॒म्॑इ॒थे । म॒हीना᳚म् । दि॒दृ॒क्षेयः᳚ । सू॒नवे᳚ । भाः॑ऋ᳚जीकः ।
उत् । उ॒स्रियाः᳚ । जनि᳚ता । यः । ज॒जान᳚ । अ॒पाम् । गर्भः᳚ । नृ॑त᳚मः । य॒ह्वः । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जनिता सर्वस्यलोकस्यजनयिता अपांउदकानांगर्भः गर्भरूपः नृतमः नेतृतमः अतिशयेन मनुष्याणांरक्षिता यह्वः महान् योग्निः अक्रः परेषामाक्रमितापरैरनाक्रमणीयोवा नेतिपाद पूरणः समिथेसङ्ग्रामे महीनांमहतीनांस्वसेनानां बभ्रिःभर्ता दिदृक्षेयः सर्वैर्दर्शनीयः भाऋजीकः स्वदीप्त्याप्रकाशमानः सोग्निः सूनवेहविषांप्रदात्रे यजमानाय तदर्थं उस्रियाः अपः उज्जजानौद जनयत् सूनवे षूप्रेरणे इत्यस्माद्धातोरौणादिकोनुप्रत्ययः ॥ १२ ॥

3.1.13
अ॒पां गर्भं᳚ दर्श॒तमोष᳚धीनां॒ वना᳚ जजान सु॒भगा॒ विरू᳚पम् ।
दे॒वास᳚श्चि॒न्मन᳚सा॒ सं हि ज॒ग्मुः पनि᳚ष्ठं जा॒तं त॒वसं᳚ दुवस्यन् ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । गर्भ᳚म् । द॒र्श॒तम् । ओष᳚धीनाम् । वना᳚ । ज॒जा॒न॒ । सु॒॑भगा᳚ । वि॑रू᳚पम् ।
दे॒वासः᳚ । चि॒त् । मन᳚सा । सम् । हि । ज॒ग्मुः । पनि᳚ष्ठम् । जा॒तम् । त॒वस᳚म् । दु॒व॒स्य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुभगा सुभाग्या वना सर्वेर्वननीया अरणिः दर्शतं दर्शनीयं विरूपं नानाविधरूपं अपां ओषधी नांचगर्भंआग्नजजान अजनयत् देवासश्चित् सर्वेदेवाअपि पनिष्ठं स्तुत्यं तवसं वृद्धं जातं जात मात्रं तमग्निं मनसास्तुत्यासंजग्मुः उपागच्छन् हीतिपूरणः तएवदुवस्यन् पर्यचरन् ॥ १३ ॥

3.1.14 समानपद
बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ᳚जीकम॒ग्निं स᳚चन्त वि॒द्युतो॒ न शु॒क्राः ।
गुहे᳚व वृ॒द्धं सद᳚सि॒ स्वे अ॒न्तर᳚पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा᳚नाः ॥
▶ पदपाठः (Word-by-word)
बृ॒हन्तः᳚ । इत् । भा॒नवः᳚ । भाः॑ऋ᳚जीकम् । अ॒ग्निम् । स॒च॒न्त॒ । वि॒॑द्युतः᳚ । न । शु॒क्राः ।
गुहा᳚॑इव । वृ॒द्धम् । सद᳚सि । स्वे । अ॒न्तः । अ॒पा॒रे । ऊ॒र्वे । अ॒मृत᳚म् । दुहा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपारेअगाधेऊर्वेसमुद्रे अन्तर्मध्ये अमृतं उदकंदुहानाः क्षरन्तः बृहन्तइत् महान्तएव भानवः रश्मयः शुक्राः दीफ्यमानाः विद्युतोन विद्युतइवस्वेस्वकीयेसद्ंसिसदनेअन्तरिक्षे गुहेवगुहायामि ववृद्धंप्रवृद्धं भाऋजीकं प्रभयादीप्यमानं अग्निंसचन्तआश्रयन्ति ॥ १४ ॥

3.1.15
ईळे᳚ च त्वा॒ यज᳚मानो ह॒विर्भि॒रीळे᳚ सखि॒त्वं सु᳚म॒तिं निका᳚मः ।
दे॒वैरवो᳚ मिमीहि॒ सं ज᳚रि॒त्रे रक्षा᳚ च नो॒ दम्ये᳚भि॒रनी᳚कैः ॥
▶ पदपाठः (Word-by-word)
ईळे᳚ । च॒ । त्वा॒ । यज᳚मानः । ह॒विः॑भिः᳚ । ईळे᳚ । स॒खि॒॑त्वम् । सु॒॑म॒तिम् । नि॑का᳚मः ।
दे॒वैः । अवः᳚ । मि॒मी॒हि॒ । सम् । ज॒रि॒त्रे । रक्ष᳚ । च॒ । नः॒ । दम्ये᳚भिः । अनी᳚कैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानोऽहं हविर्भिःसाधनैः त्वात्वां ईळे पूजयामि च पश्वादिलक्षणंधनंचयाचे सुमतिंशोभ नांमतिं धर्मविषयांबुद्धिं निकामः नितरांकामयमानः त्वयासहसस्वित्वं ईळेयाचे त्वंदेवैःसहज रित्रेस्तोत्रेस्तोत्रंकुर्वते मह्यं अस्मदर्थं अवः पश्वादिविषयांरक्षांसंमिमीहिकुरु दम्येभिर्दमनीयैर्नि यन्तव्यैः प्रयत्ननियन्तव्यतया उच्छृंखलतोक्ता अनीकिस्तेजोभिः नः अस्मान् रक्षच ॥ १५ ॥

3.1.16 समानपद
उ॒प॒क्षे॒तार॒स्तव᳚ सुप्रणी॒ते॑ग्ने॒ विश्वा᳚नि॒ धन्या॒ दधा᳚नाः ।
सु॒रेत᳚सा॒ श्रव᳚सा॒ तुञ्ज᳚माना अ॒भि ष्या᳚म पृतना॒यू{4}रदे᳚वान् ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑क्षे॒तारः᳚ । तव᳚ । सु॒॑प्र॒नी॒ते॒ । अ॒ग्ने॒ । विश्वा᳚नि । धन्या᳚ । दधा᳚नाः ।
सु॒॑रेत᳚सा । श्रव᳚सा । तुञ्ज᳚मानाः । अ॒भि । स्या॒म॒ । पृ॒त॒ना॒॑यून् । अदे᳚वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुप्रणीते शोभनप्रणयन हेअग्ने तवउपक्षेतारः उपगन्तारः अत्रक्षितिर्गत्यर्थेवर्तते विश्वानि सर्वाणिधन्याधन्यानिपश्वादिधनप्राप्तिहेतुभूतानिकर्माणि दधानाः विदधानाः कुर्वन्तः तुञ्चमानाः हवींषिप्रयच्छन्तोवयं सुरेतसाशोभनवीर्येण श्रवसात्वत्कृतेनान्नेनअदेवान् देवेभ्योन्यान् नञिवयु क्तन्यायेन राक्षसाएवगृह्यन्ते यज्ञविघ्नकारिणस्तान् पृतनायूंश्चशरीराद्युपद्रवकारिणः शत्रूंश्चअभि ष्यामअभिभवेम यद्वा देवान् अपूजयतः शत्रूनितिवायोज्यम् ॥ १६ ॥

3.1.17 समानपद
आ दे॒वाना᳚मभवः के॒तुर᳚ग्ने म॒न्द्रो विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् ।
प्रति॒ मर्ता{4}᳚ अवासयो॒ दमू᳚ना॒ अनु᳚ दे॒वान्र᳚थि॒रो या᳚सि॒ साध᳚न् ॥
▶ पदपाठः (Word-by-word)
आ । दे॒वाना᳚म् । अ॒भ॒वः॒ । के॒तुः । अ॒ग्ने॒ । म॒न्द्रः । विश्वा᳚नि । काव्या᳚नि । वि॒द्वान् ।
प्रति᳚ । मर्ता᳚न् । अ॒वा॒स॒यः॒ । दमू᳚नाः । अनु᳚ । दे॒वान् । र॒थि॒रः । या॒सि॒ । साध᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने मन्द्रः स्तुत्यः केतुर्यज्ञेषुदेवानां प्रज्ञापकस्त्वं आभवः आसमन्ताद्भवसि सर्वव्यापको- भवसीत्यर्थः किंच विश्वानि सर्वाणिकाव्यानिय्जमानादिभिःकृतानि स्तोत्राणिविद्वान् जानन् दमूनादान्तमनाः त्वंमर्तान् मर्त्यान् स्तोतॄन् स्वाभिलषितवस्तुसंपादनेनप्रीतान् विधाय गृहेषु प्रत्यवासयः प्रतिवासयसि रथिरः रथी त्वं साधन् देवानांहितानिकर्माणिसाधयन् देवान् अनु यासिच अनुगच्चसिच ॥ १७ ॥

3.1.18 समानपद
नि दु᳚रो॒णे अ॒मृतो॒ मर्त्या᳚नां॒ राजा᳚ ससाद वि॒दथा᳚नि॒ साध᳚न् ।
घृ॒तप्र᳚तीक उर्वि॒या व्य᳚द्यौद॒ग्निर्विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् ॥
▶ पदपाठः (Word-by-word)
नि । दु॒रो॒णे । अ॒मृतः᳚ । मर्त्या᳚नाम् । राजा᳚ । स॒सा॒द॒ । वि॒दथा᳚नि । साध᳚न् ।
घृ॒त॑प्र᳚तीकः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । अ॒ग्निः । विश्वा᳚नि । काव्या᳚नि । वि॒द्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमृतः नित्यः राजा राजमानोयोग्निः विदथानियज्ञान् साधन् साधयन् मर्त्यानां अग्नि होत्रिणां दुरोणेगृहे निषसाद निषीदति विश्वानिकाव्यानिविद्वान् जानन् घृतप्रतीकः घृते- नसंधुक्षितावयवः उर्वियाविस्तीर्णः सोग्निः व्यद्यौत् विद्योतते ॥ १८ ॥

3.1.19 समानपद
आ नो᳚ गहि स॒ख्येभि᳚ः शि॒वेभि᳚र्म॒हान्म॒हीभि᳚रू॒तिभि᳚ः सर॒ण्यन् ।
अ॒स्मे र॒यिं ब᳚हु॒लं संत᳚रुत्रं सु॒वाचं᳚ भा॒गं य॒शसं᳚ कृधी नः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ग॒हि॒ । स॒ख्येभिः᳚ । शि॒वेभिः᳚ । म॒हान् । म॒हीभिः᳚ । ऊ॒ति॑भिः᳚ । स॒र॒ण्यन् ।
अ॒स्मे इति᳚ । र॒यिम् । ब॒हु॒लम् । सम्॑त᳚रुत्रम् । सु॒॑वाच᳚म् । भा॒गम् । य॒शस᳚म् । कृ॒धि॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सरण्यन् सर्वत्रसरणंगमनमिच्छन् महांस्त्वं शिवेभिः शिवंकरैः सख्येभिः सख्यैः सखिकर्म भिः महीभिः महतीभिरूतिभीरक्षाभिश्चनोस्मान् प्रतिआगहि आगच्छ अस्मे अस्मभ्यं बहुलं विस्तीर्णं संतरुत्रं सर्वेषामुपद्रवाणां संतारकं सुवाचं शोभनवाचं भागंसर्वैर्भजनीयंयशसं यश साकीर्त्यासंयुक्तंरयिंधनं नोस्मभ्यं कृधिदेहि अस्मभ्यमितिपुनर्वचनमादरातिशयार्थम् ॥ १९ ॥

3.1.20
ए॒ता ते᳚ अग्ने॒ जनि᳚मा॒ सना᳚नि॒ प्र पू॒र्व्याय॒ नूत᳚नानि वोचम् ।
म॒हान्ति॒ वृष्णे॒ सव᳚ना कृ॒तेमा जन्म᳚ञ्जन्म॒न्निहि᳚तो जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
ए॒ता । ते॒ । अ॒ग्ने॒ । जनि᳚म । सना᳚नि । प्र । पू॒र्व्याय᳚ । नूत᳚नानि । वो॒च॒म् ।
म॒हान्ति᳚ । वृष्णे᳚ । सव᳚ना । कृ॒ता । इ॒मा । जन्म᳚न्॑जन्मन् । नि॑हि᳚तः । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने पूर्व्यायपुरतनायतेतुभ्यं सनानिसनातनानिमहद्भिः संभजनीयानिवानूतनानि अन्ये ष्वविद्यमानानि अद्यतनानिवा एताएतानिजनिम जन्मानिकर्माणिस्तोत्राणिवाप्रवोचं प्रोक्तवा नस्मि जातवेदाः जातप्रज्ञोजातधनोवा जन्मन् जन्मन् जायन्तइतिजन्मानः तेषुसर्वेषु मनुष्ये षुनिहितोयागार्थं तस्मैवृष्णे संपदांवर्षित्रे अग्नये इमाइमानि महान्तिबृहन्ति सवना सवनानि कृता कृतानि ॥ २० ॥

3.1.21
जन्म᳚ञ्जन्म॒न्निहि᳚तो जा॒तवे᳚दा वि॒श्वामि᳚त्रेभिरिध्यते॒ अज᳚स्रः ।
तस्य᳚ व॒यं सु᳚म॒तौ य॒ज्ञिय॒स्यापि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥
▶ पदपाठः (Word-by-word)
जन्म᳚न्॑जन्मन् । नि॑हि᳚तः । जा॒त॑वे᳚दाः । वि॒श्वामि᳚त्रेभिः । इ॒ध्य॒ते॒ । अज᳚स्रः ।
तस्य᳚ । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिय᳚स्य । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जन्मन् जन्मन् सर्वेषुमनुष्येषुनिहितोजातवेदाः विश्वामित्रेभिः विश्वामित्रैः पूजायांबहुवचनं महर्षिणा विश्वामित्रेण योजातवेदाः अजस्रः अजस्रं अनवरतं इध्यते दीप्यते सुमतौ कल्याण्यां मतौ वर्तमानावयं तस्ययज्ञियस्ययज्ञार्हस्याग्नेर्भद्रे भजनीये सौमनसे सुमनोभावे अनुग्रहबुद्धौ अपिस्याम अपिभवेम प्रार्थनायांलिङ् ॥ २१ ॥

3.1.22
इ॒मं य॒ज्ञं स᳚हसाव॒न्त्वं नो᳚ देव॒त्रा धे᳚हि सुक्रतो॒ ररा᳚णः ।
प्र यं᳚सि होतर्बृह॒तीरिषो॒ नो॑ग्ने॒ महि॒ द्रवि᳚ण॒मा य᳚जस्व ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । य॒ज्ञम् । स॒ह॒सा॒॑व॒न् । त्वम् । नः॒ । दे॒व॒॑त्रा । धे॒हि॒ । सु॒॑क्र॒तो॒ इति᳚ सु॑क्रतो । ररा᳚णः ।
प्र । यं॒सि॒ । हो॒तः॒ । बृ॒ह॒तीः । इषः᳚ । नः॒ । अ॒ग्ने॒ । महि᳚ । द्रवि᳚णम् । आ । य॒ज॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसहसावन् सहस्वन् बलवन् सुक्रतोशोभनकर्मन् हेअग्ने रराणः सर्वदारममाणः शब्दं कुर्वा णोवात्वं नोस्मदीयमिमंयज्ञं देवत्रादेवेषुधेहिनिधेहि हेहोतः देवानामाह्वातः बृहतीः इषः अन्ना निनोस्मभ्यं प्रयंसिप्रयच्छ हेअग्नेमहिमहत् द्रविणंपश्वादिलक्षणं धनं आयजस्व प्रयच्छ अत्रयजि र्दानकर्मा ॥ २२ ॥

3.1.23
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श᳚श्वत्त॒मं हव᳚मानाय साध ।
स्यान्न᳚ः सू॒नुस्तन᳚यो वि॒जावाग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
इळा᳚म् । अ॒ग्ने॒ । पु॒रु॒॑दंस᳚म् । स॒निम् । गोः । श॒श्व॒त्॑त॒मम् । हव᳚मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन᳚यः । वि॒जा॑वा᳚ । अ॒ग्ने॒ । सा । ते॒ । सु॒॑म॒तिः । भू॒तु॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंसर्वेषांपशूनांपशुपुरोडाशस्यस्विष्टकृतः पुरोनुवाक्या सूत्र्यतेहि—इळामग्नेपुरुदंसंसनिंगो र्होतायक्षदग्निंपुरोळाशस्यस्वदस्वहव्यासमिषोदिदीहीतिपुरोळाशस्विष्टकृतइति । हेअग्नेपुरुदंसंबहु कर्माणं गोः गवांसनिंप्रदात्रीं इळांभूमिंहवमानायस्तुवते मह्यंशश्वत्तमं चिरकालं यथा भवतित था साध साधय नोस्माकंसूनुःपुत्रः तनयः सन्तानस्यविस्तारयिता विजावापुत्रपौत्रादिरूपेणस्व यंविजायतइतिविजावास्यात् हेअग्ने साप्रसिद्धातेसुमतिः त्वदीयाअनुग्रहबुद्धिः अस्मेअस्मासु भूतु भवतु ॥ २३ ॥

वैश्वानरायेतिपञ्चदशर्चंद्वितीयंसूक्तं तथाचानुक्रान्तं—वैश्वानरायपञ्चोनावैश्वानरीयंतुजागतं त्विति विश्वामित्रऋषिः जगतीछन्दः वैश्वानरोग्निर्देवता पृष्ठ्याभिप्लविकयोस्तृतीयेहन्याग्निमा रुतेवैश्वानरायधिषणामितिवैशानरनिविद्धानीयंसूक्तं तृतीयस्येतिखण्डेसूत्रितम्—वैश्वानरायधिष णांधारावरामरुतइति ।