तृतीयं मण्डलम् - सूक्तम् 44

5 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 3.44 - सम्पूर्णम्

1 / 5
ऋक्: 3.44.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.44.1
अ॒यं ते᳚ अस्तु हर्य॒तः सोम॒ आ हरि᳚भिः सु॒तः ।
जु॒षा॒ण इ᳚न्द्र॒ हरि᳚भिर्न॒ आ ग॒ह्या ति᳚ष्ठ॒ हरि᳚तं॒ रथ᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः᳚ । आ । हरि᳚॑भिः । सु॒तः ।
जु॒षा॒णः । इ॒न्द्र॒ । हरि᳚॑भिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि᳚तम् । रथ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र हरिभिः । हरन्ति सोमरसानेभिरिति हरयो ग्रावाणः । तैरा सुतः सर्वतोऽभिषुतो हर्यतः कमनीयो जषाणः प्रीतिविषयोऽयं सोमस्ते तुभ्यमस्तु । त्वं हरिभिरश्वैर्युक्तं हरितं हरिद्वर्णं रथमा तिष्ठ । अधितिष्ठ । ततोनोऽस्मानभिलक्ष्या गहि । आगच्छ । हर्यतः । हर्य गतिकान्त्योरित्यस्माद्भृमृदृशीत्यादिनातच् प्रत्ययः । चित्त्वादन्तोदात्तः । यरितं हृञ् हरणे । हृश्याभ्यामितन् । उ. ३-९३ । इतितन्प्रत्ययः । नित्त्वादाद्युदात्तः । रथम् । रमु क्रीडायाम् । हनि कुषिनीत्यादिना क्थन्प्रत्ययः । कित्त्वादनुनासिकलोपः । नित्स्वरः ॥ १ ॥

3.44.2
ह॒र्यन्नु॒षस᳚मर्चय॒ः सूर्यं᳚ ह॒र्यन्न᳚रोचयः ।
वि॒द्वा{4}श्चि᳚कि॒त्वान्ह᳚र्यश्व वर्धस॒ इन्द्र॒ विश्वा᳚ अ॒भि श्रियः᳚ ॥
▶ पदपाठः (Word-by-word)
ह॒र्यन् । उ॒षस᳚म् । अ॒र्च॒यः॒ । सूर्य᳚म् । ह॒र्यन् । अ॒रो॒च॒यः॒ ।
वि॒द्वान् । चि॒कि॒त्वान् । ह॒रि॒॑अ॒श्व॒ । व॒र्ध॒से॒ । इन्द्र᳚ । विश्वा᳚ । अ॒भि । श्रियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र हर्यन् सोमं कामयमानस्त्वमुशसमुषःकालमर्चयः । पूजयसि । तथा यर्यन्नुदिते सूर्ये सोमं कामयमानस्त्वं सूर्यमरोचयः । दीपयसि । हे हर्यश्वेन्द्र विद्वानेतत्सर्वं जानानश्चिकित्वानस्मदभिलषितफलविषयज्ञानवांस्त्वं विश्वाः सर्वाः श्रियो नः सम्पदोऽभि वर्धसे । अभिमतफलप्रदानेनाभितो वर्धयसि । चिकित्वान् । कित ज्ञान इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । वर्धसे । वृध वर्धन इत्यस्यान्तर्भावितण्यर्थस्य लटि रूपम् । निघातः ॥ २ ॥

3.44.3
द्यामिन्द्रो॒ हरि᳚धायसं पृथि॒वीं हरि᳚वर्पसम् ।
अधा᳚रयद्ध॒रितो॒र्भूरि॒ भोज᳚नं॒ ययो᳚र॒न्तर्हरि॒श्चर᳚त् ॥
▶ पदपाठः (Word-by-word)
द्याम् । इन्द्रः᳚ । हरि᳚॑धायसम् । पृ॒थि॒वीम् । हरि᳚॑वर्पसम् ।
अधा᳚रयत् । ह॒रितोः᳚ । भूरि᳚ । भोज᳚नम् । ययोः᳚ । अ॒न्तः । हरिः॒ । चर᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोयमिन्द्रो हरिधायसम् । हरितो हरितवर्णा धायसो धारकारत्मयो यस्याः सा । तां द्यामधारयत् । तथा हरिवर्पसमोषधीभिर्हरितवर्णां पृथिवीमधारयत् । हरितोर्हरिद्वर्णयोर्ययोर्द्यावापृथिव्योर्मध्ये स्वकीययोरश्वयोर्भूरि प्रभूतं भोजनम् । भुज्यत इति भोजनं यवसादि । लभ्यते । ययोश्च द्यावापृथिव्योरन्तर्मध्ये हरिरिन्द्रश्चरत् । चरति । ते द्यावापृथिव्यानिन्द्रोऽधारयदित्यर्थः । हरिधायसम् । डुधाञ् धारन पोषणयोरित्यस्माद्वहिहाधाञ्भ्यश्छन्दसीत्यसुन् । णुदित्यनुवृत्तेरातो युक् । बहुव्रीहौ पूर्वपदस्वरः । पृथिवीम् । प्रथेः षिवन् सम्प्रसारणं चेति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्चेद्ति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । हरिवर्पसम् । वृङ् सम्भक्तौ । वृङ्शीङ्भ्यां रूपस्वाङ्गयोरित्यसुन्प्रत्ययः । पुगागमश्च । सम्भज्यते तदिति वर्पो रूपम् । बहुव्रीहौ पूर्व पदस्वरः । हरितोः । हृञ् हरण इत्यस्मात् हृसृरुहि युशिभ्य इतिः । उ. १-९९ । इतीतिप्रत्ययः । प्रत्ययस्वरः । भोजनम् । भुज पालनाभ्यवहारयोरित्यस्मात्कृत्यल्युटोबहुलमिति कर्मणि ल्युट् । लित्स्वरः । अन्तः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । चरत् । तरतिर्गथर्त्यः । लेटि रूपम् । यद्वृत्तयोगादनिघातः ॥ ३ ॥

3.44.4
ज॒ज्ञा॒नो हरि᳚तो॒ वृषा॒ विश्व॒मा भा᳚ति रोच॒नम् ।
हर्य᳚श्वो॒ हरि᳚तं धत्त॒ आयु᳚ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ॥
▶ पदपाठः (Word-by-word)
ज॒ज्ञा॒नः । हरि᳚तः । वृषा᳚ । विश्व᳚म् । आ । भा॒ति॒ । रो॒च॒नम् ।
हरि᳚॑अश्वः । हरि᳚तम् । ध॒त्ते॒ । आयु᳚धम् । आ । वज्र᳚म् । बा॒ह्वोः । हरि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा कामानां वर्षको हरितो हरिद्वर्णोपेतो जज्ञानो जात इन्द्रो विश्वं सर्वं रोचनं दीप्यमानं लोकमा भाति । सर्वतः प्रकाशयति । तत्या हर्यश्व इन्द्रो हरितं हरिद्वर्णोपेतमायुधं धत्ते । बाह्वोर्धत्ते । तथा हरिं शत्रूणां प्रणहारकं वज्रं बाह्वोराधत्ते ॥ जज्ञानः । जनी प्रादुर्भाव इत्यस्य लिटः कानच् । गमहनेत्यादिनोपधालोपः । चित्त्वादन्तोदात्तः । भाति । भा दीप्तावित्यस्यान्तर्भावितण्यर्थस्य लटि रूपम् । रोचनम् । रुच दीप्तावित्यस्मादनुदात्तेतश्च हलादेरिति युच् । चित्त्वादन्तोदात्तः । बाह्वोः । उदात्तयणोहल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ४ ॥

3.44.5
इन्द्रो᳚ ह॒र्यन्त॒मर्जु᳚नं॒ वज्रं᳚ शु॒क्रैर॒भीवृ᳚तम् ।
अपा᳚वृणो॒द्धरि᳚भि॒रद्रि᳚भिः सु॒तमुद्गा हरि᳚भिराजत ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । ह॒र्यन्त᳚म् । अर्जु᳚नम् । वज्र᳚म् । शु॒क्रैः । अ॒भि॑वृ᳚तम् ।
अप᳚ । अ॒वृ॒णो॒त् । हरि᳚॑भिः । अद्रि᳚॑भिः । सु॒तम् । उत् । गाः । हरि᳚॑भिः । आ॒ज॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽयमिन्द्रो हर्यन्त कमनीयमर्जुनं शुभ्रम् । शुभ्रत्वमुपपादयति । शुक्रैः शुभ्रैः क्षीरादिभिरभिवृतं ब्याप्तं वज्रं वेगवन्तं हरिभिः । हर्नत्येभिः सोमरसानिति हरयः । तैरद्रिभिर्ग्रावभिः सुतमभिषुतं सोममपावृणोत् । आवरणरहितमकरोत् । तथा च मन्त्रवर्णः । पूषा राजानमाघृणिरपगूळ्हं गुहा हितं अविन्दत् । ऋग्वे. १-२३-१४ । इति तथा गाः पणिभिरपहृता गा हरिभिरश्वैरुपेतः स इन्द्र उदाजत । विलान्निरगमयत् । अज्रुनम् । अर्ज षर्ज अर्जन इत्यस्मादर्जेर्णिलुक्चेत्युनन् । नित्स्वरः । अभिवृतम् । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । आजत । अज गति क्षेपणयोः । लङि व्यत्ययेनात्मनेपदम् । निघातः ॥ ५ ॥