तृतीयं मण्डलम् - सूक्तम् 40

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 3.40 - सम्पूर्णम्

1 / 9
ऋक्: 3.40.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.40.1
इन्द्र᳚ त्वा वृष॒भं व॒यं सु॒ते सोमे᳚ हवामहे ।
स पा᳚हि॒ मध्वो॒ अन्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे᳚ । ह॒वा॒म॒हे॒ ।
सः । पा॒हि॒ । मध्वः᳚ । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दौ स्रवति सोमरसे रमते क्रीडतीतीन्द्रः । यद्वा इदं सर्वं जगत्साक्शाद्दर्शयतीतीन्रस्ः । तस्य सम्बुद्धिः । हे इन्द्र वृषभं कामानां वर्षकं त्वा त्वां सुते ग्रावभिरभिशुते सोमे वयं हवामहे । सोमपानार्थमाह्वयामः । स त्वं मध्वो मदकरमन्धसोऽन्नलक्शणं सोमं पाहि । पिब । इन्द्रशब्दं यास्को बहुधा निर्विवेच । इन्द्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयतीति देनं प्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वमिति । यत्र यत्र योऽर्धोऽनुगुणस्तत्रसोऽर्थः स्वीकार्यः । इन्दन्दर्शनादितौपमन्यवः । इदं ब्रह्म साक्शात्पश्यतीतीन्द्रः । तथा चारण्यके श्रूयते । स एतमेव पुरुषं ब्रह्मततमम पश्यदिदमदर्शमिती । तस्मादिन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्शते परोक्षेण परोक्शप्रिया इव हि देवाः । ऐ. आ. २-४-३ । इति इदि परमैश्वर्य इति धातुः । स्वमायया जगद्रूपत्वं परमैश्वर्यम् । अनेनाभिप्रायेण श्रूयते । इन्द्रो मायाभिः पुरुरूप ईयत इति । इन्दुशब्द उपपदे रमतेरन्येभ्योऽपि दृश्यत इति डः । पूर्वपदस्योकारलोपः । इदि परमैश्वर्य इत्यस्मादृज्रेन्द्राग्रेत्यादिना रन्प्रत्ययान्तत्वेन निपातितः । एवमेतानि निर्वचनानि द्रष्टव्यानि । आमन्त्रिताद्युदात्तत्वम् । हुवामहे । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे लिटि रूपम् । मध्वः । मधुशब्दः फलिपाटीत्यादिनोन्प्रत्ययान्तः । आगमानुशासनस्यानित्यत्वान्नुमभावः । संज्ञापुर्वकस्य विधेरनित्यत्वाद्गुणाभावः । यणादेशः । अन्धसः । अदेर्नुम्धश्चेत्यसुन् । नित्स्वरः ॥ १ ॥

3.40.2
इन्द्र᳚ क्रतु॒विदं᳚ सु॒तं सोमं᳚ हर्य पुरुष्टुत ।
पिबा वृ᳚षस्व॒ तातृ᳚पिम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । क्र॒तु॒॑विद᳚म् । सु॒तम् । सोम᳚म् । ह॒र्य॒ । पु॒रु॒॑स्तु॒त॒ ।
पिब᳚ । आ । वृ॒ष॒स्व॒ । ततृ᳚पिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्राह्मणाच्छंसिनः प्रातःसवन इन्द्र क्रतुविदमिति शस्त्रयाज्या । सूत्रितं च । इन्द्र क्रतुविदं सुतमिति याज्या । आ. ५-१० । हे इन्द्र क्रतुविदं क्रतोः प्रज्ञाया लम्भकं सुतमभिशुतमिमं सोमं हर्य । पातुं कामयस्व । हे पुरुष्टुत पुरुभिर्बहुभिः स्तुतेन्द्र ताशृपिं तर्पकामाप्यायनकारिणमिमं सोमं पिब । पीतमिमं सोममा वृषस्व । जठरे सिञ्च । यथा नाभेरधो न पतति तथा धारयेति भावः । हर्य । यर्य गतिकान्त्योरित्यस्य लोटि रूपम् । निघातः पुरुष्टुत । स्तुतस्तोमयोश्छन्दसीति सम्हितायां षत्वम् । वृषस्व । वृश सेचने इत्यस्य लोटि रूपम् । आङ उत्तरत्वान्निघातः । तातृपिम् । तृप प्रीण इत्यस्माच्छन्दसि सदादिभ्यो दर्शनादिति किन् । तस्य लिड्वद्भावाद्द्विर्वचनादि । संहितायामन्येषामपीत्यभ्यासस्य दीर्घः । नित्त्वादाद्युदात्तः ॥ २ ॥

3.40.3
इन्द्र॒ प्र णो᳚ धि॒तावा᳚नं य॒ज्ञं विश्वे᳚भिर्दे॒वेभि᳚ः ।
ति॒र स्त᳚वान विश्पते ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । प्र । नः॒ । धि॒त॑वा᳚नम् । य॒ज्ञम् । विश्वे᳚भिः । दे॒वेभिः᳚ ।
ति॒रः । स्त॒वा॒न॒ । वि॒श्प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तवान स्तोतृभिः सूयमान विश्वते विशां मरुतां पते हे इन्द्र विश्वेभिर्देवेभिः सर्वैर्यजनीयैर्देवैः सहितस्त्वं धितावानम् । वन्यते सम्भज्यत इति वानं हविः । धितं निहितं हविर्यस्य तम् । संभृतहविश्कमित्यर्थः । अस्मदीयमिमं यज्ञं प्रतिरः । प्रकर्षेण वर्धय । हविः स्वीकरणेन सम्पूर्णं कुर्विति भावः ॥ णः । उपसर्गाद्बहुलमिति संहितायां णत्वम् । धितावानम् । डुधाञ् धारनपोशणयोरित्यस्मान्निष्ठा । बहुव्रीहौ पूर्वपदस्वरः । तिरः । तरतेर्व्यत्ययेन शः । प्रत्ययस्वरः । स्तवान । ष्टुञ् स्तुतौ । सम्यानच् स्तुव इत्युपपदाभावेऽपि कर्मण्यानच् प्रत्ययः । आमन्त्रितत्वान्निघातः ॥ ३ ॥

3.40.4
इन्द्र॒ सोमा᳚ः सु॒ता इ॒मे तव॒ प्र य᳚न्ति सत्पते ।
क्षयं᳚ च॒न्द्रास॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । सोमाः᳚ । सु॒ताः । इ॒मे । तव᳚ । प्र । य॒न्ति॒ । स॒त्॑प॒ते॒ ।
क्षय᳚म् । च॒न्द्रासः᳚ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सस्पते इन्द्र चन्द्रास आह्लादयितार इन्दवो दीप्ताः सुता अभिशुता इमेऽस्माभिर्दत्ताः सोमाः क्षयम् । क्शयन्ति निवसन्त्यन्नादीन्यत्रेति क्षयो जठरम् । प्रयन्ति । प्रकर्षेण गच्छन्ति । तान् धारयेति भावः ॥ क्षयम् । क्शि निवासगत्योरित्यस्मादधिकरणे घप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तत्वे प्राप्ते क्शयो निवास इत्याद्युदात्तत्वम् । चन्द्रासः । चदि आह्लादने दीप्त्तौ च । अस्मात्स्फायितञ्चीत्यादिना रक्प्रत्ययः । आज्जसेरसुगित्यसुक् । प्रत्ययस्वरः । इन्दवः । उन्देरिच्चादेरित्युप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः ॥ ४ ॥

3.40.5
द॒धि॒ष्वा ज॒ठरे᳚ सु॒तं सोम᳚मिन्द्र॒ वरे᳚ण्यम् ।
तव᳚ द्यु॒क्षास॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
द॒धि॒ष्व । ज॒ठरे᳚ । सु॒तम् । सोम᳚म् । इ॒न्द्र॒ । वरे᳚ण्यम् ।
तव᳚ । द्यु॒क्षासः᳚ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वरेण्यं सर्वैर्वरणीयं सुतमभिषुतं सोमं जठरे दधिष्व्कधारय । इन्दवो दीप्ता इमे सोमास्तव द्युक्षासः । दिवि क्शियन्ति निवसन्तीति द्युक्षासः । अतस्त्वं तान् धारयेति भावः ॥ दधिष्व । दधातेर्लोटि रूपम् । आगमा अनुदात्ता इतीटोऽनुदात्तत्वात्प्रत्ययस्वरः वरेण्यण् । वृङ् सम्भक्तौ । वृङ् एण्य । इत्येण्प्रत्ययः । वृषादित्वादाद्युदात्तः । क्युक्षासः । क्शियतेरन्येभ्योऽपि दृश्यत इति डप्रत्ययः । कृदुत्तरपदस्वरः ॥ ५ ॥

3.40.6
गिर्व᳚णः पा॒हि नः᳚ सु॒तं मधो॒र्धारा᳚भिरज्यसे ।
इन्द्र॒ त्वादा᳚त॒मिद्यशः᳚ ॥
▶ पदपाठः (Word-by-word)
गिर्व᳚णः । पा॒हि । नः॒ । सु॒तम् । मधोः᳚ । धारा᳚भिः । अ॒ज्य॒से॒ ।
इन्द्र᳚ । त्वा॑दा᳚तम् । इत् । यशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गिर्मणो गीर्भिर्वननीय । तथा च यास्कः । गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति । नि. ६-१४ । इति तादृशेन्द्र नोऽस्मदीयं सुतमभिषुतमिमं सोमं पाहि । पिब । यतो मधोर्मदकरस्य सोमस्य धाराभिरज्यसे सिच्यसे हे इन्द्र त्वादातमित्त्वया शोधितं विशदीकृतमेव यशोऽन्नमस्मासु भवति । गिर्वणः । वन सम्भक्तावित्यस्मादसुन् । गिर उपधया दीर्घाभावश्छान्दसः । आमन्त्रितस्येति षाष्तिक माद्युदात्तत्वम् । पाहि । पा पान इत्यस्माल्लोटि रूपं आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । प्रत्ययस्वरः । त्वादातम् । दैप् शोधने । सत्यपि पकारे नानुबन्धकृतमनेजन्तत्वमित्येजन्त एवायम् । तत आदेच इत्यात्वम् । अस्मात्कर्मणि क्तः । दधा घ्वदाबित्यत्रादाबिति प्रतिषेधेन घु संज्ञाया अभावाद्दो दद्घोरिति ददादेतो न भवति तृति युश्मच्छब्दस्य तृतीया कर्तृकरणे कृता बहुलमिति समासः तृतीया कर्मणेति पूर्वपदप्रकृतिस्वरः । यशः अशूव्याप्तौ । अशेर्युट्चेत्यसुन् । तत्सन्नियोगेन धातोर्युडागमः । नित्त्वादाद्युदात ॥ ६ ॥

3.40.7
अ॒भि द्यु॒म्नानि᳚ व॒निन॒ इन्द्रं᳚ सचन्ते॒ अक्षि᳚ता ।
पी॒त्वी सोम᳚स्य वावृधे ॥
▶ पदपाठः (Word-by-word)
अ॒भि । द्यु॒म्नानि᳚ । व॒निनः᳚ । इन्द्र᳚म् । स॒च॒न्ते॒ । अक्षि᳚ता ।
पी॒त्वी । सोम᳚स्य । व॒वृ॒धे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनिनः । वनं देवताविषयं सम्भजनमस्यास्तीति वनी । तस्य देवान् सम्भजमानस्य यजमानस्य द्युम्नानि द्योतमानान्यक्शिता क्षयरहितानि सम्पूर्णानि सोमादीनि हवींषीन्द्रमभि अभितः सचन्ते । समवयन्ति । तेषु मध्ये सोमस्य पीत्वी सोमं पीत्वा वावृधे । स इन्द्रो वर्धते ॥ वनिनः । आत इनिठनावितीनिप्रत्ययः । तस्य स्वरः । सचन्ते । षच समवाय इत्यस्य लटि रूपम् । अक्शिता । क्शि क्शय इत्यस्य निष्ठा । अत्र ण्यदर्थ इति दीर्घाभावः । तस्मादेव क्षियो दीर्घादिति निष्ठानत्माभावः । नञा समासे तस्य स्वरः । पीत्वी । पा पान इत्यस्मात् क्त्वाप्रत्ययस्य स्नात्व्यादयश्चेति निपातनात् त्वी इत्यादेशः । प्रत्ययस्वरः । घुमास्थागापेत्यादिना ईत्वं ॥ ७ ॥

3.40.8
अ॒र्वा॒वतो᳚ न॒ आ ग᳚हि परा॒वत᳚श्च वृत्रहन् ।
इ॒मा जु᳚षस्व नो॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒र्वा॒॑वतः᳚ । नः॒ । आ । ग॒हि॒ । प॒रा॒॑वतः᳚ । च॒ । वृ॒त्र॒॑ह॒न् ।
इ॒माः । जु॒ष॒स्व॒ । नः॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्निन्द्र अर्वावतोऽर्वाचीनात्समीपाद्धेशात्परावतोऽतिदूराद्देशाद्वा नोऽस्मानभिलक्ष्या गहि । आगच्छ । आगत्य च नोऽस्मदीया इमाः स्तुतिलक्शणा गिरो वाचो जुषस्व । सेवस्य । पारवतः । उपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः ॥ ८ ॥

3.40.9
यद᳚न्त॒रा प᳚रा॒वत᳚मर्वा॒वतं᳚ च हू॒यसे᳚ ।
इन्द्रे॒ह तत॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒न्त॒रा । प॒रा॒॑वत᳚म् । अ॒र्वा॒॑वत᳚म् । च॒ । हू॒यसे᳚ ।
इन्द्र᳚ । इ॒ह । ततः᳚ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यद्यस्मिन्परावतमतिविप्रकृष्टस्य देशस्यार्वावतं सन्निकृष्टस्य देशस्य चान्तरा तयोर्मध्यदेशे हूयसे सम्यगिज्यसे ततस्तस्माद्देशादिहास्मिन्यज्ञ आ गहि । सोमपानार्थमागच्छ । परावतं अर्वावतम् । अन्तरान्तरेण युक्ते । पा. २-३-४ । इति द्वितीया । ततः । पञ्चम्यास्तसिल् । लित्स्वरः ॥ ९ ॥