यद᳚न्त॒रा प᳚रा॒वत᳚मर्वा॒वतं᳚ च हू॒यसे᳚ ।
इन्द्रे॒ह तत॒ आ ग᳚हि ॥
इन्द्रे॒ह तत॒ आ ग᳚हि ॥
पदपाठः (Word-by-word)
यत् । अ॒न्त॒रा । प॒रा॒॑वत᳚म् । अ॒र्वा॒॑वत᳚म् । च॒ । हू॒यसे᳚ ।
इन्द्र᳚ । इ॒ह । ततः᳚ । आ । ग॒हि॒ ॥
इन्द्र᳚ । इ॒ह । ततः᳚ । आ । ग॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र यद्यस्मिन्परावतमतिविप्रकृष्टस्य देशस्यार्वावतं सन्निकृष्टस्य देशस्य चान्तरा तयोर्मध्यदेशे हूयसे सम्यगिज्यसे ततस्तस्माद्देशादिहास्मिन्यज्ञ आ गहि । सोमपानार्थमागच्छ । परावतं अर्वावतम् । अन्तरान्तरेण युक्ते । पा. २-३-४ । इति द्वितीया । ततः । पञ्चम्यास्तसिल् । लित्स्वरः ॥ ९ ॥