स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं᳚ सस॒वान्त्सन्त्स्तू᳚यसे जातवेदः ॥
पदपाठः (Word-by-word)
स॒ह॒स्रिण᳚म् । वाज᳚म् । अत्य᳚म् । न । सप्ति᳚म् । स॒स॒वान् । सन् । स्तू॒य॒से॒ । जा॒त॒॑वे॒दः॒ ॥
सायणभाष्यम् (Sayana Commentary)
गाथी ब्रूते । अयमुत्तरवेद्यामाधुर्यधिकरणभूतावहनीयरूपतया दृश्यमानोऽग्निः स तथाविधः खलु वावशानः सोमं कामयमान इन्द्रो यस्मिन्नग्नौ सुतमभिषवादिसम्स्कारोपेतं सोमं जठरे स्वोदरे दधे दधार । तस्मात्तादृशमहिमोपेतः सोऽग्निरिति पुर्वेणान्वयः । किञ्च । हे जातवेदः सहस्रिणम् । सहस्रं नाना रूपतां युद्धे यो भजति स सहस्री । तमत्यं वेगवशादतनशीलं सप्तिं न अश्वमिव वाजं अज्यौषधिसोमाद्यनेकप्रकारं हविर्लक्षणमन्नं ससवान् भेजिवान् सन् त्वं स्तूयसे । स्तोतृभिरस्माभिः स्तूयमानो वर्तसे ॥ दधे । दधातेर्लिटि लिटस्तझयोरेशिरेजिति तप्रत्ययस्य एशित्यादेशः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । वावशानः । वश कान्तावित्यस्य यञ्लुकि दीर्घोऽकित इत्यभ्यासस्य दीर्घः । व्यत्ययेन शानच् । चित्स्वरः । ससवान् । षण सम्भक्तौ । क्वसाविडभावः । नलोपः । प्रत्ययस्वरः । स्तूयसे । ष्टुञ् स्तुतौ । क्रमणि यक् । अकृत्सार्वधातुकयोरिति दीर्घः । निघातः ॥ १ ॥