तृतीयं मण्डलम् - सूक्तम् 49

5 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.49 - सम्पूर्णम्

1 / 5
ऋक्: 3.49.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.49.1
शंसा᳚ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः᳚ सोम॒पाः काम॒मव्य᳚न् ।
यं सु॒क्रतुं᳚ धि॒षणे᳚ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां᳚ ज॒नय᳚न्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
शंस᳚ । म॒हाम् । इन्द्र᳚म् । यस्मि᳚न् । विश्वाः᳚ । आ । कृ॒ष्टयः᳚ । सो॒म॒॑पाः । काम᳚म् । अव्य᳚न् ।
यम् । सु॒॑क्रतु᳚म् । धि॒षणे᳚ इति᳚ । वि॒भ्व॒॑त॒ष्टम् । घ॒नम् । वृ॒त्राणा᳚म् । ज॒नय᳚न्त । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे होत महां महान्तमिन्द्र शंस । शस्त्रैः स्तुहि । यस्मिन्निन्द्रे रक्षितरि सति विश्वाः कृष्तयः सर्व मनुष्याः सोमपा यज्ञमनुष्ठाय सोमपाः सन्तः कामम् । क्म्यत इति कामः स्वर्गादिः । तमाव्यन् सर्वतः प्राप्नुवन्ति । धिषणे देव मनुष्यादीनां धारयित्रौ । यद्वा । प्रगल्भे समर्थे स्वाश्रितान् रक्षितुमिति धिशणे द्यावापृथिवौ । देवाश्च सुक्रतुं क्रतुः कर्म जगत्पालनादि । शोभनः क्रतुर्यस्यासौ सुक्रतुः । ताद्रुशं विभ्वतष्टं विभुना ब्रह्मणा जगदाधिपत्ये स्थापितं महान्तं व्रुत्राणां पापरूपाणां घनं हन्तारं यमिन्द्रं जनयन्त । अजनयन् । शंस । शन्सु स्तुतावित्यस्य लोटि रूपम् । पादादित्वादनिघातः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । अव्यन् । वी कान्तिगत्यादिषु । अल्ङि रूपम् । यद्वृत्तयोगादनिघातः । अट् स्वरः । सुक्रतुम् । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तः । धिषणे । ञि धृषा प्रागल्भ्य इत्यस्माद्धृषेर्धिश च संज्ञायामिति क्युप्रत्ययः । ढिश इत्यादेशः । प्रत्ययस्वरः । घनम् । हन्तेः पुंसि संज्ञायामिति घः । हो हन्तेरिति कुत्वम् । प्रत्ययस्वरः । जनयन्त । जनेर्ण्यन्तस्य लङि रुपम् । यद्वृत्तयोगादनिघातः ॥ १ ॥

3.49.2 समानपद
यं नु नकि॒ः पृत᳚नासु स्व॒राजं᳚ द्वि॒ता तर᳚ति॒ नृत᳚मं हरि॒ष्ठाम् ।
इ॒नत᳚म॒ः सत्व᳚भि॒र्यो ह᳚ शू॒षैः पृ᳚थु॒ज्रया᳚ अमिना॒दायु॒र्दस्यो᳚ः ॥
▶ पदपाठः (Word-by-word)
यम् । नु । नकिः᳚ । पृत᳚नासु । स्व॒॑राज᳚म् । द्वि॒ता । तर᳚ति । नृ॑त᳚मम् । ह॒रि॒॑स्थाम् ।
इ॒न॑त᳚मः । सत्व᳚॑भिः । यः । ह॒ । शू॒षैः । पृ॒थु॒॑ज्रयाः᳚ । अ॒मि॒ना॒त् । आयुः᳚ । दस्योः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृतासु । व्याप्रियन्तेऽत्र योद्धार इति पृतनाः सङ्ग्रामाः । तेशु स्वराजं हरिष्ठां हरिस्थां हरियुक्ते रथे वर्तमानं नृतमं बलस्य युद्धे नेतृतमं द्विता युद्धमानाद्य सेनां द्विधा कृत्वा वर्तमानं यमिन्द्र नकिर्न कश्चिदपि तरति उत्तीर्य गच्छति । न कोऽप्यभ्यस्तीत्यर्थः । नु प्रसिद्धौ । स इन्द्र इनतमोऽतिशयेन सेनास्वामी सत्वभिः परितः सीदद्भिर्मरुद्भिः सह यो यान् गच्छन् शूषैः । शोशयन्ति परबलानीति शूषाणि बलानि । तैः पृथुज्रया युद्धं प्रति तीव्रवेगः सन् दस्योः शत्रोरायुरन्नं प्राणं वामिनात् । हिनस्ति । ह प्रसिद्धौ । अत्र निरुक्तम् । पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः । प्रामापयुदायुर्दस्योः । ५-९ । इति तरति । तॄ प्लवनतरणयोरित्यस्य लिटि रूपम् । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यः । या प्रापणी । औणादिकः कप्रत्ययः । आतो लोपः । प्रत्ययस्वरः ॥ २ ॥

3.49.3
स॒हावा᳚ पृ॒त्सु त॒रणि॒र्नार्वा᳚ व्यान॒शी रोद᳚सी मे॒हना᳚वान् ।
भगो॒ न का॒रे हव्यो᳚ मती॒नां पि॒तेव॒ चारु᳚ः सु॒हवो᳚ वयो॒धाः ॥
▶ पदपाठः (Word-by-word)
स॒ह॑वा᳚ । पृ॒त्॑सु । त॒रणिः᳚ । न । अर्वा᳚ । वि॒॑आ॒न॒शिः । रोद᳚सी॒ इति᳚ । मे॒हना᳚॑वान् ।
भगः᳚ । न । का॒रे । हव्यः᳚ । म॒ती॒नाम् । पि॒ता॑इ᳚व । चारुः᳚ । सु॒॑हवः᳚ । व॒यः॒॑धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्र सहसा बलवान्पृत्सु सङ्ग्रामेशु तरणिः । शत्रूनुत्तीर्य वर्तत इति तरणिः । तत्र दृष्टान्तः । अर्वान । यथार्वा बलवानश्वः शत्रुबलं तरति तथा रोदसी द्यावापृथिवौ व्यानशिर्व्याप्नुवन्मेहनावान् । मिह्यते सिच्यते दीयतेऽर्थेभ्य इति मेहनं चनम् । तद्वान्भवति । तादृश इन्द्रः कारे । क्रियत इति कारो यज्ञादिः । तस्मिन्यज्ञे भगो न पूषा देव इव हव्यो हवनीयोमतीनां स्तोतॄणां स्तुतीनां वा पितेव पालयिता चारुआः कमनीयः सुहवः सुष्ठ्वा ह्वानोपेतो वयोधा अन्नस्य दाता भवति । सहावा । सहोऽस्यास्तीति मतुबर्थे छन्दसीवनिपाविति वनिप् । अन्येषामपि दृश्यत इति सम्हितायां दीर्घः । पृत्सु । पृतनाशब्दस्य सौ परतः मांस्पृत्स्नूनामुपसंख्यानमिति पृददेशः । सावेकाच इति विभक्तेरुदात्तत्वम् । व्यानशिः । अशू व्याप्तावित्यस्माच्छन्दसि सदादित्वात्किप्रत्ययः । तस्य लिड्वद्भावः । अत आदेरित्यभ्यासस्य दीर्घे कृतेऽश्नोतेश्चेति नुदागमः । प्रादिसमासः । कारे । करोतेः कर्मणि घञ । कर्षात्वतो घञोऽन्त उदात्त इत्यन्तोदात्तत्वम् । हव्यः । जुहोतेरचोयत् । यतोऽनाव इत्याद्युदात्तत्वम् । सुहवः । ह्वयतेर्भावेऽनुपसर्गस्य । पा. ३-३-७५ । इत्यप्प्रत्ययः । सम्प्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । आद्युदात्तं द्व्यच्छन्दसीति बहुव्रीहावुत्तरपदाद्युदात्तत्वं ॥ ३ ॥

3.49.4
ध॒र्ता दि॒वो रज᳚सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु᳚भिर्नि॒युत्वा᳚न् ।
क्ष॒पां व॒स्ता ज᳚नि॒ता सूर्य᳚स्य॒ विभ᳚क्ता भा॒गं धि॒षणे᳚व॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
ध॒र्ता । दि॒वः । रज᳚सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः᳚ । न । वा॒युः । वसु᳚॑भिः । नि॒युत्वा᳚न् ।
क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य᳚स्य । वि॑भ᳚क्ता । भा॒गम् । धि॒षणा᳚॑इव । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो दिवो द्युलोकस्य रजसोऽन्तरिक्षस्य च धर्ता धारकः पृष्टः सर्वत्र वर्तमानो रथो न तदियो रथ इवोर्ध्वो वायुरूर्ध्वं गन्ता वसुभिः सहायतया निवसद्भिर्मरुद्भिर्नियुत्पान्सहायवान् । यद्वा नेत्ययमुत्तरेणापि सम्बध्यते । यथा वायुर्नियुत्वान्नियुन्नामकवडवाभिस्तद्वानेवमिन्द्रो वसुभिर्मद्र्द्भिः सहायवान् । तथा क्षपां वस्ता रात्रिमाच्छादयन्सूर्यस्य जगत्प्रकाशकस्यादित्यस्य जनिता जनयिता भागं भजनीयं वाजं कर्मफलरूपमन्नं विभक्ता साधुविभागकर्ता भवति । तत्र दृष्ठान्तः । धिषणेव । यथाढ्यानां वागस्येदमिति विभागं करोति तद्वत् । रजसः । रन्ज राग इत्यस्माद्भूरञ्जिभ्यां कित् । उ. ४-२१६ । इत्यसुन् । कित्त्वान्नलोपः । रज्यते प्रकाशेनेति रजोऽन्तरिक्षम् । नित्त्वादाद्युदात्तः । वस्ता । वस आच्छादन इत्यस्य तृचि रूपम् । जनिता । जनयतेस्तृचि जनिता मन्त्र इति निपातनाण्णिलोपः । चित्त्वादन्तोदात्तः विभक्ता । भज सेवायामित्यस्य साधुकारिण्यर्थे तृन् । एकाच उपदेश इतीट् प्रतिषेधः । तादौ च निति कृत्यताविति गतेः प्रक्रुतिस्वरत्वं ॥ ४ ॥

3.49.5
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेशु व्रुत्राणि व्रुत्रोपलक्शितानि सर्वाणि रक्शांसि घ्नन्तं हिंसन्तं शनानां शत्रुसम्बन्धिनां सञ्जितं सम्यग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । घृञ् भरणे । घः । व्रुषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्शने । सम्पूर्वात् क्विप् । सम्भक्शयन्ति योद्धॄनामायूंशीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ५ ॥