तृतीयं मण्डलम् - सूक्तम् 10

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: उष्णिक्

सूक्तम् 3.10 - सम्पूर्णम्

1 / 9
ऋक्: 3.10.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.10.1 समानपद
त्वाम᳚ग्ने मनी॒षिणः᳚ स॒म्राजं᳚ चर्षणी॒नाम् ।
दे॒वं मर्ता᳚स इन्धते॒ सम᳚ध्व॒रे ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः᳚ । स॒म्॑राज᳚म् । च॒र्ष॒णी॒नाम् ।
दे॒वम् । मर्ता᳚सः । इ॒न्ध॒ते॒ । सम् । अ॒ध्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मनीषिणो धीमन्तोऽध्वर्युप्रभृतयो मर्तासो मनुष्याश्चर्षणीनां प्रजानां सम्राजमधिपतिं देवं द्योतमानं तामध्वरे यज्ञे समिन्धते । सोमाज्यपयःप्रभृतिभिराहुतिभिः समग्दीपयन्ति । मनीषिणः । मनीषैषामस्तीति व्रीह्यादिभ्यश्चेति इनिः । यस्येति चेत्यवर्णलोपः । प्रत्ययस्वरः । सम्राजम् । राजृदीप्तौ । संपूर्वादस्माद्धातोः सत्सूद्विषेति क्विप् । क्विलोपः । समो मकारस्य मोऽनुस्वार इत्यनुस्वारे प्राप्ते मो राजि समः क्वाविति समो मकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । चर्षणीनाम् । नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । इन्धते । ञ इन्धी दीप्तौ । अस्माद्धातोर्हेतुमति चेति णिच् । लटि झस्यात्मपेपदेष्वनत इत्यदादेशः । छन्दस्युभयथेति झस्यार्धधातुकत्वाण्णेरनिटीति णिलोपः । निघातः । ॥ १ ॥

3.10.2
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता᳚रमीळते ।
गो॒पा ऋ॒तस्य᳚ दीदिहि॒ स्वे दमे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वाम् । य॒ज्ञेषु᳚ । ऋ॒त्विज᳚म् । अग्ने᳚ । होता᳚रम् । ई॒ळ॒ते॒ ।
गो॒पाः । ऋ॒तस्य᳚ । दी॒दि॒हि॒ । स्वे । दमे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्नेऽध्वर्व्यादयो यज्ञेष्टग्निष्टोमादिषु त्वां होतारमृत्विजं होतृनामकमृत्विजमीळते । स्तुवन्ति । तादृशस्त्वमृतस्य सत्यस्य यज्ञस्य गोपा गोपायिता सन् स्वे दमे स्वकीये गृहे यज्ञशालायां दीदिहि । दीप्यस्य । दीदिहि । दिवु क्रीडादौ । यङ् लुक् । लोट् । तुजादित्वादभ्यासदीर्घत्वम् । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावे ल्पोप् व्योर्वलीति वलोपः ॥ २ ॥

3.10.3
स घा॒ यस्ते॒ ददा᳚शति स॒मिधा᳚ जा॒तवे᳚दसे ।
सो अ᳚ग्ने धत्ते सु॒वीर्यं॒ स पु᳚ष्यति ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । यः । ते॒ । ददा᳚शति । स॒मिधा᳚ । जा॒त॑वे᳚दसे ।
सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒॑वीर्य᳚म् । सः । पु॒ष्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यो यजमानो जातवेदसे जातप्रज्ञाय ते त्य्भ्यं समिधा समिन्धनकारीण्याज्यपुरोडाशादि हवींषि ददाशति ददाति स घ स खलु सुवीर्यं शोभनसामर्थ्योपेतं पुत्रं धत्ते । धारयति । अपि च सः स एव पुष्यति । पशुपुत्रादिभिः समृद्धो भवति ॥ घ । चादयोऽनुदात्ता इत्यनुदातः । ददाशति । दातृ दान इत्यस्माद्धातोः कर्तरि तप् । तिष् । द्विर्वचनं छान्दसम् । यद्वृत्तयोगादनिघातः । अभ्यस्तानामादिरित्युदात्तः समिधा । ञि इन्धी दीप्तौ । अस्मात् क्विप् चेति क्विप् । उपधालोपः । सुपां सुलिगिति शसो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जातवेदसे । बहुव्रीहौ प्रकृत्या पूर्वपदमिति प्रकृतिस्वरत्वम् । सुवीर्यम् । वीरवीरौ चेत्युत्तरपदाद्युदात्तत्वम् । पुष्यति । पुश पुष्टौ । अस्मात् श्यन् । ङत्त्वाद्गुणाभावः । निघातः ॥ ३ ॥

3.10.4
स के॒तुर᳚ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒रा ग᳚मत् ।
अ॒ञ्जा॒नः स॒प्त होतृ᳚भिर्ह॒विष्म᳚ते ॥
▶ पदपाठः (Word-by-word)
सः । के॒तुः । अ॒ध्व॒राणा᳚म् । अ॒ग्निः । दे॒वेभिः᳚ । आ । ग॒म॒त् ।
अ॒ञ्जा॒नः । स॒प्त । होतृ᳚॑भिः । ह॒विष्म᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्वराणां यज्ञानां केतुः प्रज्ञापकः सोऽग्निः सप्त सप्तभिर्होतृभिर्वषट्कर्तृभिरञ्जानः सोमाज्याहुतिभिरज्यमानः सन् हविष्मते यजमानार्थं देवेभिर्यष्टव्यदेवैः सुहागमत् । आगच्छतु । गमत् । लोडर्थे छन्दसि लुङ्लङ्लिट इति लुङ् । लृदित्त्वादङ् । बहुलं छन्दस्यमाङ्योग इत्यडभावः । निघातः । अन्जानः । अञ्जू व्यक्तिम्रक्षणगतिषु । व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तत्वम् । हविष्मते । जुहोतेरर्चिशुचीत्यादिना इसिप्रत्ययान्तो हविःशब्दोऽन्तोदात्तः । स्वरविधौ व्यन्जनमविद्यमानवदिति परिभाषानाश्रयणान्मतुप उदात्तत्वाभावः । इसिप्रत्ययस्वरः ॥ ४ ॥

3.10.5
प्र होत्रे᳚ पू॒र्व्यं वचो॒॑ग्नये᳚ भरता बृ॒हत् ।
वि॒पां ज्योतीं᳚षि॒ बिभ्र᳚ते॒ न वे॒धसे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । होत्रे᳚ । पू॒र्व्यम् । वचः᳚ । अ॒ग्नये᳚ । भ॒र॒त॒ । बृ॒हत् ।
वि॒पाम् । ज्योतीं᳚षि । बिभ्र᳚ते । न । वे॒धसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयो विपा विप्राणां मेधाविनामध्वर्व्यादीनां ज्योतींषि सत्कर्मानुष्ठानसंपाद्यानि तेजांसि बिभ्रते निमित्ततया कुर्माणाय वेधसे जगतो विधात्रे होत्रे देवानामाह्वात्रेऽग्नेये बृहन्महत्पूर्व्यं पूर्व्यैः कृतं पुरातनं वचः स्तोत्रशस्त्रादिकं वाक्यं प्रभरत । संपादयत । नेत्ययं पादपूरणोऽन्वयाभात् । यद्वा वेधसे न । यथा वेधा जगद्विधाता परमेश्वर आदित्यादीनि ज्योतींषि करोति तद्वदिति । प्रशब्दस्य छन्दसि व्यवहितश्चेति भरतेत्यनेन सम्बन्धः । पूर्व्यं पूर्व्यैः कृतमित्यर्थः । पूर्व्यैः कृतमिनियौ चेति य प्रत्ययः । भसंज्ञकत्वादवर्णलोपः । प्रत्ययस्वरः । भरत । भृञ् भरणे भौवादिकः । निघातः । बृहत् । वर्तमाने पृषद्बृहदिति निपातनादन्तोदात्तः । बिभ्रते । भृञ् भरणे । जुहोत्यादिभ्यः श्लुः । भृञामिदितीत्वम् । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ५ ॥

3.10.6
अ॒ग्निं व᳚र्धन्तु नो॒ गिरो॒ यतो॒ जाय᳚त उ॒क्थ्य᳚ः ।
म॒हे वाजा᳚य॒ द्रवि᳚णाय दर्श॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ । यतः᳚ । जाय᳚ते । उ॒क्थ्यः᳚ ।
म॒हे । वाजा᳚य । द्रवि᳚णाय । द॒र्श॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयमग्निर्यतोयाभिः स्तुतिरूपाभिर्गीर्भिरुक्थ्यो जायते । उक्थ्ये शब्दः प्रतस्यवाची । अनभितस्त्य उक्थ्य इति तन्नामसु पाठात् । अतिशयेन स्तुत्यो भवतीत्यर्थः । यश्चायमग्निर्महे महते वाजायान्नाय द्रविनाय धनाय च दर्शतो दर्शनीयो भवति शमिममग्निं नो गिरोऽस्माकं स्तुतिरूपास्ता चाचो वर्धन्तु । वर्धयन्तु । पूजयन्त्वित्यर्थः । वर्धन्तु । वृधु वर्धने । अस्माण्णिच् । सघूपधगुणः । छन्दस्युभथेत्यार्धधातुकत्वाण्णिलोपः । झेरन्तादेशः । एरुः । पा. २-४-८६ । इत्युकारः । निघातः । उक्थ्यः । वच परिभाषणे । अस्मात्पातॄतुदिवचिरचीत्यादिना थक् । कित्त्वाद्वचिस्वपीत्यादिना सम्प्रसारणम् । उक्थं शस्त्रम् । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । भवे छन्दसीति यत् । यस्येति लोपः । तित्स्वरितमिति स्वरितः । दर्शतः । भृमृदृशियजीत्यतङ् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ६ ॥

3.10.7
अग्ने॒ यजि᳚ष्ठो अध्व॒रे दे॒वान्दे᳚वय॒ते य᳚ज ।
होता᳚ म॒न्द्रो वि रा᳚ज॒स्यति॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । यजि᳚ष्ठः । अ॒ध्व॒रे । दे॒वान् । दे॒व॒॑य॒ते । य॒ज॒ ।
होता᳚ । म॒न्द्रः । वि । रा॒ज॒सि॒ । अति᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यजिष्ठो यष्टृतमस्त्वमध्वरे यज्ञे देवयते देवानात्मन इच्छते यजमानाय देवान्यज । तदर्थं यष्ठव्याग्न्यादीन्देवान्पूजय । किञ्च । होता देवानामाह्वाता मन्द्रो यजमानस्य मदयिता सत्वं स्रिधः । क्षपयितॄञ्छत्रूनति अतिक्रम्य वि राजसि । विशेषेण शोभसे । यजिष्ठः । तुश्चन्दसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृचो लोपः । नित्त्वादाद्युदात्तः । देवयते । क्यचश्चित्त्वादन्तोदात्तत्वम् । शपः प्त्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यजा सहैकादेश एकादेश उदात्तेनोदात्त इत्यन्तोदात्तो देवयच्छब्धः । ततः शतुरनुम इति विभक्तेरुदात्तत्वम् । यज । यजदेवपूजासङ्गतिकरणदानेषु । अस्माल्लोट् । सिप् । सिपो हिरादेशः । अतो हेरिति हेर्लुक् । निघातः । राजसि राजृदेप्तौ । निघातः ॥ ७ ॥

3.10.8
स नः᳚ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य᳚म् ।
भवा᳚ स्तो॒तृभ्यो॒ अन्त᳚मः स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒॑मत् । अ॒स्मे इति᳚ । सु॒॑वीर्य᳚म् ।
भव᳚ । स्तो॒तृ॑भ्यः᳚ । अन्त᳚मः । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नः पावकास्मत्संबन्धिनः पापस्य शोधक हे अग्ने स पूर्वमन्त्रे प्रतिपादितस्त्वं द्युमत्कान्तियुक्तं सुवीर्यं शोभनसामर्थ्योपेतं दानभोगार्हं धनमस्मे अस्मभ्यं दीदिहि । यद्वा द्युमत्तेजोयुक्तं सुवीर्यं शोभनवीर्योपेतं च यथा भवति तथास्मे अस्मदर्थं त्व दीदिहि । दीप्यस्व । किञ्च स्तोतृभ्यः । षष्ठ्यर्थे चतुर्थी । त्वद्विषयस्तुतिकारिणां होत्रादीनां स्वस्तयेऽविनाशनाय क्षेमायान्तमोऽन्तिकतमस्तेषामतिशयेन समीपवर्ती भव । पावक पूञ् पवने । अस्माद्धातोर्ण्वुच् । णित्त्वाद्वृद्धिः । वोरकादेशः । आमन्त्रितत्वादाष्टमिकमनुदात्तत्वम् । दीदिहि । दिवु क्रीडादौ । अस्माद्यङ् । तुजादीनामित्यभ्यासस्य दीर्घत्वम् । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । बहुलं छन्दसीति यजो लुक् । लोटि सिप् । चर्करीतं परस्मै पदमदादिवच्चेति वचनाच्छवो लुक् । सिपो हिरादेशः । लोपो व्योर्वलीति वलोपः । हेरपित्त्वादगुणः । निघातः । द्युमत् । दिव उदित्युकारः । ह्रस्वनुड्भ्यामिति मतुप उदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । अन्तमः । अन्तोऽस्यास्तीत्यन्तिकः । अत इनिठनाविति ठन् । अतिशयेनान्तिक इत्यतिशायने तमबिति तमप् । तमे तादेश्चेति तादिलोपः । नित्त्वादाद्युदात्तः । स्वस्तये । प्रातिपदिकस्वरः ॥ ८ ॥

3.10.9
तं त्वा॒ विप्रा᳚ विप॒न्यवो᳚ जागृ॒वांस॒ः समि᳚न्धते ।
ह॒व्य॒वाह॒मम᳚र्त्यं सहो॒वृध᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । विप्राः᳚ । वि॒प॒न्यवः᳚ । जा॒गृ॒॑वांसः᳚ । सम् । इ॒न्ध॒ते॒ ।
ह॒व्य॒॑वाह᳚म् । अम᳚र्त्यम् । स॒हः॒॑वृध᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विप्राः स्तुइतीनां प्रेरका जागृवांसोऽग्निहोत्रादिकर्मण्यप्रमत्ततया प्र्बुद्धा विपन्यवः । विपन्युतब्धो मेधाविनमाचष्टे । विपश्चिद्विपन्युरिति तन्नामसु पाठात् । विपन्यवो मेधाविनः स्तोतारो हव्यवाहं हव्यानां वोढारममर्त्यं मरणधर्मरहितं सहोवृधं सहसा मथनरूपेण बलेन वर्धमानम् तादृशं त्वा त्वा समिन्धते । सोमाद्याहुतिभिः सम्यग्दीपयन्ति । विप्राः । टुवप बीजसन्ताने । अस्माद्धातोरृज्रेन्द्राग्रवज्रविप्रेति रन्प्रत्ययेत्वयोर्निपातनादाद्युदात्तत्वम् । विपन्यवः । विविधं पनं पननं स्तुतिं यातीति विपन्युः । मृगय्वादयश्चेति कुः । अकारलोपश्छान्दसः । प्रत्ययस्वरः । जागृवांसः । जागृ निद्राक्षये । अस्माल्लिट् । तस्य क्वसुः । उगिदजामिति नुम् । द्विर्वचनाभावश्छान्दसः । वस्वेकाअजाद्घसामिति नियमादिडभावः । जाग्रोऽविचिण्णल् ङित्सु । पा. २-३-८५ । इति गुणो न भवति तत्र विरित्यत्र क्वसोरपि गृहीतत्वात् । प्रत्ययस्वरः । इन्धते । ङि इन्धी दीप्तौ । अन्तर्भावितण्यर्थोऽयम् । निघातम् । हव्यवाहम् । वह प्रापणे । वहश्चेति ण्विः । उपधावृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सहोवृधम् । वृधु वर्धने । क्विप् चेति क्विप् ॥ ९ ॥