वि॒पां ज्योतीं᳚षि॒ बिभ्र᳚ते॒ न वे॒धसे᳚ ॥
पदपाठः (Word-by-word)
वि॒पाम् । ज्योतीं᳚षि । बिभ्र᳚ते । न । वे॒धसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयो विपा विप्राणां मेधाविनामध्वर्व्यादीनां ज्योतींषि सत्कर्मानुष्ठानसंपाद्यानि तेजांसि बिभ्रते निमित्ततया कुर्माणाय वेधसे जगतो विधात्रे होत्रे देवानामाह्वात्रेऽग्नेये बृहन्महत्पूर्व्यं पूर्व्यैः कृतं पुरातनं वचः स्तोत्रशस्त्रादिकं वाक्यं प्रभरत । संपादयत । नेत्ययं पादपूरणोऽन्वयाभात् । यद्वा वेधसे न । यथा वेधा जगद्विधाता परमेश्वर आदित्यादीनि ज्योतींषि करोति तद्वदिति । प्रशब्दस्य छन्दसि व्यवहितश्चेति भरतेत्यनेन सम्बन्धः । पूर्व्यं पूर्व्यैः कृतमित्यर्थः । पूर्व्यैः कृतमिनियौ चेति य प्रत्ययः । भसंज्ञकत्वादवर्णलोपः । प्रत्ययस्वरः । भरत । भृञ् भरणे भौवादिकः । निघातः । बृहत् । वर्तमाने पृषद्बृहदिति निपातनादन्तोदात्तः । बिभ्रते । भृञ् भरणे । जुहोत्यादिभ्यः श्लुः । भृञामिदितीत्वम् । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ५ ॥