श्रवणम्

3.10.7
अग्ने॒ यजि᳚ष्ठो अध्व॒रे दे॒वान्दे᳚वय॒ते य᳚ज ।
होता᳚ म॒न्द्रो वि रा᳚ज॒स्यति॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । यजि᳚ष्ठः । अ॒ध्व॒रे । दे॒वान् । दे॒व॒॑य॒ते । य॒ज॒ ।
होता᳚ । म॒न्द्रः । वि । रा॒ज॒सि॒ । अति᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यजिष्ठो यष्टृतमस्त्वमध्वरे यज्ञे देवयते देवानात्मन इच्छते यजमानाय देवान्यज । तदर्थं यष्ठव्याग्न्यादीन्देवान्पूजय । किञ्च । होता देवानामाह्वाता मन्द्रो यजमानस्य मदयिता सत्वं स्रिधः । क्षपयितॄञ्छत्रूनति अतिक्रम्य वि राजसि । विशेषेण शोभसे । यजिष्ठः । तुश्चन्दसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृचो लोपः । नित्त्वादाद्युदात्तः । देवयते । क्यचश्चित्त्वादन्तोदात्तत्वम् । शपः प्त्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यजा सहैकादेश एकादेश उदात्तेनोदात्त इत्यन्तोदात्तो देवयच्छब्धः । ततः शतुरनुम इति विभक्तेरुदात्तत्वम् । यज । यजदेवपूजासङ्गतिकरणदानेषु । अस्माल्लोट् । सिप् । सिपो हिरादेशः । अतो हेरिति हेर्लुक् । निघातः । राजसि राजृदेप्तौ । निघातः ॥ ७ ॥