तृतीयं मण्डलम् - सूक्तम् 18

5 ऋचः

ऋषिः: कतो वैश्वामित्रः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.18 - सम्पूर्णम्

1 / 5
ऋक्: 3.18.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.18.1
भवा᳚ नो अग्ने सु॒मना॒ उपे᳚तौ॒ सखे᳚व॒ सख्ये᳚ पि॒तरे᳚व सा॒धुः ।
पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना᳚नां॒ प्रति᳚ प्रती॒चीर्द᳚हता॒दरा᳚तीः ॥
▶ पदपाठः (Word-by-word)
भव᳚ । नः॒ । अ॒ग्ने॒ । सु॒॑मनाः᳚ । उप᳚॑इतौ । सखा᳚॑इव । सख्ये᳚ । पि॒तरा᳚॑इव । सा॒धुः ।
पु॒रु॒॑द्रुहः᳚ । हि । क्षि॒तयः᳚ । जना᳚नाम् । प्रति᳚ । प्र॒ती॒चीः । द॒ह॒ता॒त् । अरा᳚तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वमुपेतावस्माभिः क्रियमाणस्य प्रवर्त्याख्य कर्मण अभिमुख्येनागमने सुमनास्तत्कर्मसिद्ध्यर्थमनुकूलमनस्को भुत्वा नः साधुर्भव । अस्मत्सम्भन्धिकर्मसाधको भव । तत्र कृष्टान्तद्वयम् । सखेव सख्ये पितरेवेति । यथा सखा सुहृत् सख्ये मित्राय हितोपदेशेन साधुर्भवति यथा च पितरा मातपितरौ पुत्राय सन्मार्गोपदेशेन साधकौ भवतः । तद्वत् । किञ्च । जनानां मनुष्याणां क्षितयो मनुष्याः पुरुद्रोहो हि नानाविधद्रोहयुक्ताः । हि शब्दः कारणपरः । यस्माल्लोके परस्परमात्सर्यादिनान्योन्यमनसमाना जना वर्तन्ते तस्मात्त्वं प्रतीचीः प्रतीचः प्रतिकूलतयास्मदाभिमुख्येनागच्छतोऽरातीररातीन् शत्रून्प्रति दहत्वात् । त्वं प्रतिकूलः सन् भस्मसात्कुरु । भवानः । द्य्वचोऽतस्तिङ् इति संहितायां दीर्घः । उपेतौ ॥ इण् गतौ । अयनमिति भावे क्तिन् । प्रादिसमासः । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । सख्ये । समाने ख्यश्चोदात्त इति इण् । डित्त्वाट्टिलोपः । तत्सन्नियोगेन यलोपः । समानस्य छन्दसीत्यादिना सभावः । उदात्त इत्युक्तत्वादुपपदस्योदात्तता । साधुः । राध साध संसिद्धौ । कृवापाजीत्यादिना उण्प्रत्ययः । प्रत्ययस्वरः । प्रतीचीः । अञ्चु गति पूजनयोः । ऋत्विग्धधृगित्यादिना क्विन् । स्त्रियामुगितश्चेति ञीपि प्राप्ते पुनर्धातोरुगितः प्रतिषेध इति प्रतिषिद्धेञ्चतेश्चोपसंख्यानमिति प्रतिप्रसवात् ञीष् । तस्मिन्भसंज्ञायामच इत्यकारलोपः । चाविति दीर्घः । दहतात् । दह भस्मीकरण इत्यस्य लोण्मध्यमैकवचने हेस्तुह्योस्तातङ्गाशिषीतितातङादेशः । निघातः । अरातीः प्रतीचीः । उभयत्र लिङ्गव्यत्यय्ः ॥ १ ॥

3.18.2 समानपद
तपो॒ ष्व᳚ग्ने॒ अन्त᳚रा{4} अ॒मित्रा॒न्तपा॒ शंस॒मर᳚रुष॒ः पर᳚स्य ।
तपो᳚ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते᳚ तिष्ठन्ताम॒जरा᳚ अ॒यासः᳚ ॥
▶ पदपाठः (Word-by-word)
तपो॒ इति᳚ । सु । अ॒ग्ने॒ । अन्त᳚रान् । अ॒मित्रा᳚न् । तप᳚ । शंस᳚म् । अर᳚रुषः । पर᳚स्य ।
तपो॒ इति᳚ । व॒सो॒ इति᳚ । चि॒कि॒ता॒नः । अ॒चित्ता᳚न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः᳚ । अ॒यासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अन्तरान् अभिभावकानमित्राञ्छत्रून सु सुष्ठु यथा भवति तथा तपो । तपैव । भावस्व । किञ्च । अररुषस्तुभ्यं हविरप्रयच्छतोऽत एव परस्य शत्रुभूतस्य स्वं शंसमभिलाषं तप । क्षपय । वसो सर्वस्य वासयितर्हे अग्ने चिकितानः कर्माभिज्ञस्त्वमचित्तान् सत्कर्मण्यनासक्तमनस्कान्पुरुषान् तपो । सन्तप । यस्मादेवं तस्मात्ते तव रश्मयोऽजरा जरारहिता प्रतिबन्धारहिता अत एव अयासः सर्वत्र गमनस्वभावाः सन्तो वि तिष्ठन्ताम् । विशेषेण तिष्ठन्तु ॥ तपो । तप उ । गुणः । उ- ञमवलम्ब्य उ ञ इति प्रगृह्यसंज्ञा । पादादित्वादनिघातः । तपा । तप सन्ताप इत्यस । लोटि रूपम् । द्व्यचोऽतस्तिङ इति सम्हितायां दीर्घः । आररुषः रा दान इत्यस्य क्वसौ वस्वेकाजिति प्राप्तस्येटः सम्प्रसारणं सम्प्रसारणाश्रयं च बलीय इति सम्प्रसारणबलीयस्त्वान्निवृत्तिः । वसोः सम्प्रसारणमिति सम्प्रसारणम् । समासे न ञ्स्वर्यः । चिकितानः । कित ज्ञान इत्यस्य छन्दसि लिट् । तस्य लिटः कानज्वेति कानजादेशः । द्विर्वचनम् । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः ॥ तिष्ठान्ताम् । ष्ठा गतिनिवृत्तौ । विपूर्वात्तिष्ठतेः । समवप्रविभ्यः स्थ इत्यात्मनेपदम् । निघातः । आयसः । अय गतौ । पचाद्यच् चित्स्वरः ॥ २ ॥

3.18.3 समानपद
इ॒ध्मेना᳚ग्न इ॒च्छमा᳚नो घृ॒तेन᳚ जु॒होमि᳚ ह॒व्यं तर᳚से॒ बला᳚य ।
याव॒दीशे॒ ब्रह्म᳚णा॒ वन्द᳚मान इ॒मां धियं᳚ शत॒सेया᳚य दे॒वीम् ॥
▶ पदपाठः (Word-by-word)
इ॒ध्मेन᳚ । अ॒ग्ने॒ । इ॒च्छमा᳚नः । घृ॒तेन᳚ । जु॒होमि᳚ । ह॒व्यम् । तर᳚से । बला᳚य ।
याव᳚त् । ईशे᳚ । ब्रह्म᳚णा । वन्द᳚मानः । इ॒माम् । धिय᳚म् । श॒त॒॑सेया᳚य । दे॒वीम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने इच्छनानो धनं कामयमानोऽहम् यजमान इध्मेन समिन्धनकारि समित्समूहेन घृतेनाज्येन सह हव्यं हवनयोग्यं हविः पुरोडाशादिकं जुहोमि । किमर्थम् । तरसे वेगाय तव सततगमनसिद्ध्यर्थं बलाय सामर्थ्याय । पुरोडाशादिहविर्भारवहनसिद्ध्यर्थं त्वयि हविः प्रक्षिपामि । किञ्च ब्रह्मणा स्तोत्रेण वन्दमानस्त्वां स्तुवन्नहं यावदीशे यावद्वन्दनं वोढुं शक्नोमि तावद्देहि । त्वं चेमामस्माभिः क्रियमाणां धियं त्वद्विषयां स्तुतिं शतसेयायापरिमितधनपर्यवसानाय देवीं दीप्तामतिप्रभूतां कुरु ॥ इध्मेन । ञि इन्धी दीप्तौ । इध्यतेऽनेनाग्निरितीध्मः काष्ठविशेषः । इषियुधीन्धिदसिश्याधूसूभ्यो मगिति करणे मक् । कित्त्वादनुनासिक लोपः । प्रत्यय स्वरः । इच्छमानः । इषु इच्छायाम् । व्यत्ययेन शानच् । इषुगमियमां छ इति छकारः । जुहोमि । हु दानादनयोरित्यस्य लिटि रूपम् । पादादित्वादनिघातह् । हव्यम् । हवमर्हतीति छन्दसि चेति यप्रत्ययः । भ संज्ञायां यस्येति लोपः । प्रत्यय स्वरः । यावत् । यच्छब्दात् यत्तदेतेभ्यः । परिमाणे वतुबिति वतुप् । आसर्वनाम्न इत्याकारः । आद्युदात्तः । ईशे । ईश ऐश्वर्य इत्यस्य लडुत्तमैकवचन इटष्टेरेत्वम् । अदादित्वाच्छपो लुक् । शतसेयाय । षो अन्तकर्मणि । आदेच उपदेशेऽशितीत्यात्वम् । कृदुत्तरपदप्रकृतिस्वरः ॥ ३ ॥

3.18.4
उच्छो॒चिषा᳚ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः᳚ शशमा॒नेषु᳚ धेहि ।
रे॒वद᳚ग्ने वि॒श्वामि᳚त्रेषु॒ शं योर्म᳚र्मृ॒ज्मा ते᳚ त॒न्वं१॒᳚ भूरि॒ कृत्व᳚ः ॥
▶ पदपाठः (Word-by-word)
उत् । शो॒चिषा᳚ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः᳚ । श॒श॒मा॒नेषु᳚ । धे॒हि॒ ।
रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि᳚त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व᳚म् । भूरि᳚ । कृत्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसस्पुत्र हे अग्ने शोचिषा स्वकीयया दीप्त्या उत् । उद्दीप्यस्व । स्तुतः स्तोत्रशस्त्रसाधनभूतैर्मन्त्रैः स्तुतस्त्वं शशमानेषु । शशमानः शंसमानः । नि. ६-८ । इति यास्कः । त्वद्विषयसंसनं कुर्वाणेषु विश्वामित्रेषु विश्वामित्रगोत्रोत्पन्नेषु । विश्वं मित्रमस्येति विश्वामित्र एकः । एकस्मिन्बहुवचनं पूजार्थम् । तथाविधेष्वस्मासुरेवद्धनयुक्तं बृहत्प्रभूतं वयः । वयःशब्दोऽन्नवाची । अर्को वयः क्षद्मेत्यन्नानामसु पठितत्वात् । तादृशं प्रभूतमन्नं धेहि । विधेहि । किञ्च शं रोगाणां शमनञ्चास्मासु धेहि । योर्भयानां यावनममिश्रणं च धेहि । शमनं च रोगाणां यावनं च भायानाममिति यास्कः । कृत्वोऽस्माभिः क्रियमाणस्य कर्मणः प्रयोजकत्वेन कर्तर्हे अग्ने ते तव तन्वं तनुं भूरि बहुवारं मर्मृज्म । पुनः पुनः सोमाज्य पयः प्रभृतिभिर्वयं सिञ्चामः । शशमानेषु । शशप्लुतगतावित्ययं धातुरत्र स्तुत्यर्थः । ताच्छील्यवयोवचनशक्तिष्विति चानश् । चित इत्यन्तोदात्तत्वम् । धेहि । डु धाञ् धारणपोषणयोरित्यस्य लोटि रूपम् । रेवत् । रयिरस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । छन्दसीर इति तस्य वत्वम् । रयेर्मतौ बहुलं छन्दसीति सम्प्रसारणम् । परपूर्वत्वम् । गुणः । विश्वामित्रेषु । मित्रे चर्षौ । पा- ६-३-१३० । इति पूरपदस्य दीर्घत्वम् । बहुव्रीहौ विश्वं सज्ञायामिति पूर्वपदान्तोदात्तत्वम् । मर्मृजन्म । मृजू शुद्धावित्यस्य वर्तमाने लिट्युत्तमबहुवचने मसो मादेशः । अनित्यमागमशासनमितीडाभावः । रेफश्छान्दसः । पादादित्वादनिघातः । प्रत्ययस्वरः । भूरि । भू सत्तायाम् । अदिशदिभूशुभिभ्यः क्रिन्निति क्रिन् । कित्त्वाद्गुणाभावः । नित्स्वरः । कृत्वः । डुकृञ् करणे । सम्पदादित्वाद्भावे क्विप् । तदस्यास्तीति मतुप् । झय इति तस्य वत्वम् । तसौ मत्वर्थ इति भसंज्ञायां तकारस्य जस्त्वाभावः मतुवसो रुतिति तकारस्य रुत्वम् ॥ ४ ॥

3.18.5
कृ॒धि रत्नं᳚ सुसनित॒र्धना᳚नां॒ स घेद᳚ग्ने भवसि॒ यत्समि᳚द्धः ।
स्तो॒तुर्दु᳚रो॒णे सु॒भग᳚स्य रे॒वत्सृ॒प्रा क॒रस्ना᳚ दधिषे॒ वपूं᳚षि ॥
▶ पदपाठः (Word-by-word)
कृ॒धि । रत्न᳚म् । सु॒॑स॒नि॒तः॒ । धना᳚नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । सम्॑इ᳚द्धः ।
स्तो॒तुः । दु॒रो॒णे । सु॒॑भग᳚स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना᳚ । द॒धि॒षे॒ । वपूं᳚षि ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुसनितरभिलषितधनानां सुष्ठु दातर्हे अग्ने धनानां कनकपश्वादीनां मध्ये रत्नमुत्तमं धनं कृधि । विधेहि । मयं दत्स्व । यद्यदात्वं समिद्धः । सोमाज्यादिभिः सम्यगिद्धो दीप्तो वर्तसे तदा स घेत् स तादैश एव त्वं धनस्य दाता खलु भवसि । किञ्च सुभगस्य तद्विषयस्तुत्या शोभनधनयुक्तस्य स्तोतुर्यजमानस्य दुरोणे गृहे सृप्रा प्रसर्पणशीलौ कर्मकरणार्घं प्रसृतौ करस्ना कर्मणां प्रस्नातारौ बाहू । करस्नौ बाहू कर्मणां प्रस्नातारौ । नि. ६-१७ । इति यास्कः । वपूंषि रूपाणि । वर्पो वपुरिति रूपानामसु पठितत्वात् । तादृशौ बाहू भास्वराणि ज्योतींषि च रेवत् धनयुक्तं यथा भवति तथा दधिषे । धारयसि ॥ सुसनितः । षणु दान इत्यस्य तृचि रूपम् । आमन्त्रितनिघातः । सृप्रा । सृप् लृ गतौ अस्मात्स्फायितञ्चिवञ्चीत्यादिना रक् । कित्त्वादगुणः । प्रत्ययस्वरः । करस्ना करोति फलमिति करः कर्म । पङाद्यजन्तः । कर्मणि स्ना शोधनं ययोस्तौ । यद्वा कर्मणां शोधनं याभ्यामिति बहुव्रीहौ पूर्वपदस्वरः । दधिषे । डुधाञ् धारण पोषणयोरित्यस्य लटि छन्दस्युभयथेति धास आर्धधातुकत्वादिट् । आतो लोपः । निघातः ॥ ५ ॥