तृतीयं मण्डलम् - सूक्तम् 9

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: बृहती

सूक्तम् 3.9 - सम्पूर्णम्

1 / 9
ऋक्: 3.9.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.9.1 समानपद
सखा᳚यस्त्वा ववृमहे दे॒वं मर्ता᳚स ऊ॒तये᳚ ।
अ॒पां नपा᳚तं सु॒भगं᳚ सु॒दीदि᳚तिं सु॒प्रतू᳚र्तिमने॒हस᳚म् ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । मर्ता᳚सः । ऊ॒तये᳚ ।
अ॒पाम् । नपा᳚तम् । सु॒॑भग᳚म् । सु॒॑दीदि᳚तिम् । सु॒॑प्रतू᳚र्तिम् । अ॒ने॒हस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्र सौति । हे अग्ने सखायः सोमाज्यादिहविष्प्रदानेनोपकारकत्वान्मित्राणि मर्तसो मनुष्युआ ऋत्विजो वयमपां नपातमपां नप्तारं सुभगम् शोभनधनयुक्तं सुदीदितिं शोभनदीप्तिं सुप्रतूर्तिं शोभनप्रतरणं कर्मानुष्ठातृभिः सुखेन गन्तव्यमनेहसमुपद्रवरहितमेतादृशं देवं त्वामूतये रक्षणाय ववृमहे । वृणीमहे । सखाय । ख्या प्रकथने । समाने ख्यश्चोदात्त इति समान उपपदे डिदित्यनुवृत्तौ ख्यातेरिण् । तस्य डित्त्वाट्टिलोपः । तत्सन्नियोगेन यलोपः । ववृमहे । वृङ् सम्भकौ । छन्दसि लुङ्लिट इति वर्तमाने लिट् । क्रादित्वादिडभावः । निघातः । ऊतये । अवरक्षण इत्यस्य उदात्त इत्यनुवृत्तावूतियूतीत्यादिना क्तिनन्तत्वेन निपातनादन्तोदात्तः । अपाम् । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुभगम् । अद्युदात्तं द्व्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वम् । सुप्रतूर्तिम् । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥

3.9.2
काय᳚मानो व॒ना त्वं यन्मा॒तॄरज᳚गन्न॒पः ।
न तत्ते᳚ अग्ने प्र॒मृषे᳚ नि॒वर्त᳚नं॒ यद्दू॒रे सन्नि॒हाभ᳚वः ॥
▶ पदपाठः (Word-by-word)
काय᳚मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज᳚गन् । अ॒पः ।
न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒॑मृषे᳚ । नि॒॑वर्त᳚नम् । यत् । दू॒रे । सन् । इ॒ह । अभ᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वना काननानि कायमानः कामयमानस्त्वं यद्यस्मात्कारणात्तानि विजाय मातॄरपो मातृभूता आपोऽजगन् । आगमः । गतवानसि । अप्सु प्रविष्टत्वाच्छान्तो वर्तसे तत्तस्मात्ते तव निवर्तनम् । नितरां तत्रैव वर्तनम् । तेन च विनाशो लक्ष्यते । न विनाशो न प्रमृषे । स पर्मृश्यते । न सह्यते । कुत इत्यत आह । यद्यस्मात्कारणाद्दूरे सन् अदृश्यतया वरत्मानस्त्वमिहास्मत्सम्बन्धिष्वरणिरूपेषु काष्ठेष्वभवः । मन्थनात् क्षणमात्रेणास्माकं समीपे भवसि । तस्मात्तव दूरतो वर्तनमस्मभ्यं न रोचते । अस्मिन्नर्थे यास्कः । कायमानश्चायमानः कामयमान इति वा । वनानि तव्ं यन्मातॄरपोऽगम उपश्याम्यन् । तत्ते अग्नेः प्रमृश्यते निवर्तनं दूरे यत्सन्निह भवसि जायमानः । नि. ४-१४ । इति । कायमानः । कमु कान्तौ । कमेर्णिङ् लटः शानच् । मकारलोपश्छान्दसः । अजगन् । ग्म्लृ गतावित्यस्य लङ् बहुलं छन्दसीति शपः श्लुः । हल्ङ्यादिना सिलोपः । मोनो धातोरिति नकारः । यच्छब्दयोगादनिघातः । अडागमस्वरः प्रमृषे । मृष तितिक्षायाम् । व्यत्ययेन कर्मणि तप्रत्ययः । लोपस्त आत्मनेपदेष्विति तलोपः । धातुस्वरः । अभवः । छन्दसि लुङ्ल ङ्लिट इति लडर्थे लङ् । यद्योगादनिघातः । ॥ २ ॥

3.9.3
अति᳚ तृ॒ष्टं व᳚वक्षि॒थाथै॒व सु॒मना᳚ असि ।
प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ᳚सते॒ येषां᳚ स॒ख्ये असि᳚ श्रि॒तः ॥
▶ पदपाठः (Word-by-word)
अति᳚ । तृ॒ष्टम् । व॒व॒क्षि॒थ॒ । अथ᳚ । ए॒व । सु॒॑मनाः᳚ । अ॒सि॒ ।
प्र॑प्र᳚ । अ॒न्ये । यन्ति᳚ । परि᳚ । अ॒न्ये । आ॒स॒ते॒ । येषा᳚म् । स॒ख्ये । असि᳚ । श्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तृष्टं स्तोतुस्तृष्णाभिलाषं तदुचितफलप्रदानेन सफलं कर्तुमतिववक्षिथ । अतिशयेन वोढुमिच्छसि । अथैव अथापि त्वं सुमना असि । सन्तुष्ट मनस्को वर्तसे । किञ्च । त्वं येषां षोडशानामृत्विजां सख्ये मैत्रे श्रितोऽसि वर्तसे तेषां मध्येऽन्येऽध्वर्युप्रभृतयो द्वादशर्त्विजः प्रयन्ति । प्रकर्षेण होतुं गच्छन्ति । अन्य उद्गातृ प्रभृतयश्चत्वारः पर्यासते । परित आसीना वर्तन्ते । ववक्षिथ । वह प्रापण इत्यस्य सनि रूपम् । अध्यासस्य सन्यत इतीत्वाभावश्छान्दसः । तसन्ताद्वर्तमाने लिट् । थल आर्थधातुकस्येड्वलादेरितीट् । कास्प्रत्ययादामित्याम् न भवति मन्त्रत्वात् । निघातः । प्रप्र । प्रसमुपोद इति द्विर्वचनम् । यन्ति । इण् गतावित्यस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्यामित्यन्यशब्दयोगात्पूर्वस्य निघाताभावः । आसते । आस उपवेशने । उत्तरत्वान्निघातः । असि । आस भुवि । तासस्त्योर्लोप इति सकारलोपः । यद्वृत्तयोगान्न निहन्यते ॥ ३ ॥

3.9.4
ई॒यि॒वांस॒मति॒ स्रिध॒ः शश्व᳚ती॒रति᳚ स॒श्चतः᳚ ।
अन्वी᳚मविन्दन्निचि॒रासो᳚ अ॒द्रुहो॒॑प्सु सिं॒हमि᳚व श्रि॒तम् ॥
▶ पदपाठः (Word-by-word)
ई॒यि॒॑वांस᳚म् । अति᳚ । स्रिधः᳚ । शश्व᳚तीः । अति᳚ । स॒श्चतः᳚ ।
अनु᳚ । ई॒म् । अ॒वि॒न्द॒न् । नि॒॑चि॒रासः᳚ । अ॒द्रुहः᳚ । अ॒प्॑सु । सिं॒हम्॑इ᳚व । श्रि॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अदुहोऽद्रोग्धारो निचिरासो नितरां चिरासश्चिरन्तना विश्वेदेवाः स्रिधः शोषकाञ्छत्रून्बलेनातिक्रम्येयिवांसं गच्छन्तं शश्वतीर्बह्वीः सश्चतः सङ्गतिकारणीः सेनाश्चात्यतिक्रम्य गच्छन्तमप्सु श्रितं तिरोहितमत एव सिंहमिव हुहाप्रविष्टं सिंहमिव भीममीमेनं त्वामन्वविन्दन् । अनुगम्या लभन्त । रयिवांसम् । इण् गतावित्यस्य क्वसावुपेयिवाननाश्वाननूचानश्च । पा.३-२-१०९ । इति निपातितः । प्रत्ययस्वरः । स्रिधः । स्रिधेः क्षयार्थस्य शोषणार्थस्य वा क्विप् चेति क्विप् । धातु स्वरः । सश्चतः । षस्ज गतौ । जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । प्रत्ययस्वरः । अविन्दन् । विद्लृ लाभ इत्यस्य लङ् रूपम् । निचिरासः । नितरां चिराः । आज्जसेरसुगित्यसुक् । समासस्वरः । आद्रुहः । द्रुह जिघांसायाम् । सम्पादादित्वाद्भावे क्विप् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । श्रितम् । श्रिञ् सेवायामित्यस्य त्र्युकः कितीतीट् प्रतिषेधः । प्रत्ययस्वरः ॥ ४ ॥

3.9.5
स॒सृ॒वांस᳚मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि᳚तम् ।
ऐनं᳚ नयन्मात॒रिश्वा᳚ परा॒वतो᳚ दे॒वेभ्यो᳚ मथि॒तं परि᳚ ॥
▶ पदपाठः (Word-by-word)
स॒सृ॒वांस᳚म्॑इव । त्मना᳚ । अ॒ग्निम् । इ॒त्था । ति॒रः॑हि᳚तम् ।
आ । ए॒न॒म् । न॒य॒त् । मा॒त॒रिश्वा᳚ । प॒रा॒॑वतः᳚ । दे॒वेभ्यः᳚ । म॒थि॒तम् । परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातरिश्वा वारुरित्थेत्थं त्मना स्वेच्छयाप्सु प्रवेशेन तिरोहितं निलीनं परि परितो मथितं मन्थनेन निष्पादितमेनमग्निं देवेभ्यः । तादर्थ्ये चतुर्थी । देवार्थं परावतो दूरदेशादानयत् । आनीतवान् । तत्र दृष्टान्तः । ससृवांसमिव । यथा स्वाच्छन्द्येन ससृवांसं सरन्तं गच्छन्तं पुत्रं पिता बलादानयति तद्वत् । ससृवांसमिव । सृ गतावित्यस्माल्लिट् । तस्य क्वसुः । इवेन विभक्त्यलोप इत्युक्तत्वात्प्रत्ययस्वरः । त्मना । आत्मन् शब्दस्य मन्त्रेष्वाङ्यादेरात्मन इत्याकार लोपः । इत्था । था हेतौ च छन्दसीति व्यत्ययेन थाप्रत्ययः । प्रत्ययस्वरः । एनम् । अन्वादेशे द्वितीयाटौःष्वेन इत्येनादेशः । अनुदात्तश्च । नयत् । णीञ् प्रापण इत्यस्य लङ् रूपम् । अडभावश्छान्दसः । मातरिश्वा । मातर्यन्तरिक्षेश्वसितीति श्वन्नुक्षन्नित्यादिना निपातितः ॥ ५ ॥

3.9.6
तं त्वा॒ मर्ता᳚ अगृभ्णत दे॒वेभ्यो᳚ हव्यवाहन ।
विश्वा॒न्यद्य॒ज्ञा{4} अ᳚भि॒पासि᳚ मानुष॒ तव॒ क्रत्वा᳚ यविष्ठ्य ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । मर्ताः᳚ । अ॒गृ॒भ्ण॒त॒ । दे॒वेभ्यः᳚ । ह॒व्य॒॑वा॒ह॒न॒ ।
विश्वा᳚न् । यत् । य॒ज्ञान् । अ॒भि॒॑पासि᳚ । मा॒नु॒ष॒ । तव᳚ । क्रत्वा᳚ । य॒वि॒ष्ठ्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हव्यवाहन हव्यानां वोढर्हे अग्ने मर्ता मनुष्या अध्वर्युप्रभृतयस्तं तादृशमप्सु तिरोहितं त्वा त्वां देवेभ्यो यश्टव्यदेवतार्थमगृभ्णते । अगृह्णत । मनुष मनुष्याणां हितकारन्यविष्ठ्य युवतम हे अग्ने तव क्रत्वा तव कर्मणा महात्म्येन विश्वन्सर्वानस्माभिः क्रियमाणान्यज्ञान्यद्यस्मात्कारणादभिपासि । सर्वतः पालयसि तस्मात्त्वामगृभ्जतेति पुर्वत्रान्वयः । अगृभ्जत । ग्रह उपादाने क्र्यादित्वाच्छ्ना । ग्रहिज्यावयीति सम्प्रसारणम् । हृग्रहोर्भश्चन्दसीति हकारस्य भकारः । तिङ्ज तिङ् इति निघातः । हव्यवाहन । वह पापण इति धातोर्ञ्युडित्यनुवृत्तौ । हव्यहव्येऽनन्तः पादमिति त्र्युट् । उपधावृद्धिः । योरनादेशः । अपादादित्वादाष्टमिकमनुदात्तत्वम् । विश्वान् । विश प्रवेशन इत्यस्मादशिप्रुषिलटिकरणिकणिखटिविशिभ्यः क्वन्निति क्वन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् । अभिपासि । पारक्ष्णे । अस्य धातो रक्षणार्थत्वान्न षिबादेशः । यच्छब्दयोगान्न निघातह् । धातुस्वरः । क्रत्वा । टा । जसादयश्चन्दसि विकल्प्यन्त इत्यत्र नादेशाभावह् । यणादेशः । प्रत्ययस्वरः । यविष्ठ्य । युवशब्दादतिशायने तमबिष्ठनावितीष्ठन् । स्थूलदूरयुवेति यणादि परं लुप्यते पुर्वस्य च गुणः । वस्वादित्वात्स्वार्थिको यप्रस्ययः ॥ ६ ॥

3.9.7 समानपद
तद्भ॒द्रं तव᳚ दं॒सना॒ पाका᳚य चिच्छदयति ।
त्वां यद᳚ग्ने प॒शवः᳚ स॒मास᳚ते॒ समि᳚द्धमपिशर्व॒रे ॥
▶ पदपाठः (Word-by-word)
तत् । भ॒द्रम् । तव᳚ । दं॒सना᳚ । पाका᳚य । चि॒त् । छ॒द॒य॒ति॒ ।
त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः᳚ । स॒म्॑आस᳚ते । सम्॑इ᳚द्धम् । अ॒पि॒॑श॒र्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तव सम्बन्धि तदिदं भद्रं शोभनं दंसनाग्निहोत्रादिकं कर्म पाकाय चित् । चिच्छब्दोऽप्यर्थे । पाकायेति कर्मणि चतुर्थी । पाकोऽर्भकः । तद्वदज्ञमपि यजमानं छदयति । स्वफलप्रदानेन पूजयति । पशुपुत्रादिभिः परिवृतं करोतीत्यर्थः । छदयतिशब्दोऽर्चतिकर्मा छन्दयति छदयतीति तन्नामसु पाठात् । यद्वा । पाकशब्दः प्रशस्यं वक्ति पाको वाम इति प्रशस्यनामसु पठितत्वात् । तद्भद्रं प्रशस्यं यजमानमभिमतफलप्रदादेन पूजयतीत्यर्थः । यद्यस्मात्कारणादपिशर्वरे शर्वरीमुखेऽग्निविहरणकाल एव समिद्धं दीप्यमानं त्वां पशवो द्विपदाश्चतुष्पदाश्चोभये पशवः समासते । सम्यगासते । पर्युपासत इत्यर्थः । तदिदं पश्चादिलक्षणं फलं यजमानाय प्रयच्छतीत्यर्थः । भद्रम् । भदि कल्याण कित्यस्माद्धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । पाकाय पा रक्षण इत्यस्मादिण्भीकापाशलीत्यादिना कन् । पायते रक्ष्यते राजादिनेति पाकः । नित्त्वादाद्युदात्तः । छदयति । छद आपवरणे । स्वार्थे णिच् । अदन्तत्वाद्वृद्ध्यभावः । निघातः । समासते । आस उपवेशने । अदादित्वाच्छपो लुक् । अनकारान्तत्वाङ् झुस्यादेशः । यद्योगादनिघातः । तिङ् चोदात्तवतीति गतेर्निघातः धातुस्वरः ॥ ७ ॥

3.9.8
आ जु᳚होता स्वध्व॒रं शी॒रं पा᳚व॒कशो᳚चिषम् ।
आ॒शुं दू॒तम᳚जि॒रं प्र॒त्नमीड्यं᳚ श्रु॒ष्टी दे॒वं स᳚पर्यत ॥
▶ पदपाठः (Word-by-word)
आ । जु॒हो॒त॒ । सु॒॑अ॒ध्व॒रम् । शी॒रम् । पा॒व॒क॑शो᳚चिषम् ।
आ॒शुम् । दू॒तम् । अ॒जि॒रम् । प्र॒त्नम् । ईड्य᳚म् । श्रु॒ष्टी । दे॒वम् । स॒प॒र्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋत्विजो यजमानः प्रेरयति । हे ऋत्विजः पावकशोचिषं शोधकदीप्तिं शीरं काष्ठेष्वोधीषु जानुशायिनं स्वध्वरं शोभनयज्ञोपेतमिममग्निमाजुहोत । आहुतिभिरा समन्तात्तर्पयत । अपि च । आशुं कर्मणि व्याप्तं दूतमाह्वानकारित्वेन देवानां दूतमजितं क्षिप्रं गन्तारं प्रत्नं पुरातनमीड्यं स्तोतव्यं देवं द्योतमानमिममग्निं श्रुष्वी सपर्यत । श्रुष्टीति क्षिप्रनामेति यास्कः । क्षिप्रं पूजयत । जुहोत । हु दानादनयोः । अस्माद्धातोर्लोट् । जुहोत्यादिभ्यः । श्लुरिति शपः श्लुः । श्लाविति द्विर्वचनम् । लोटो लङ्वदिति लङ्वद्भावे तस्थस्थमिपामितिथस्य तादेशः । छन्दसीत्यनुवृत्तौ तस्य तत्प्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । स्वध्वरम् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्वत्वम् । शीरम् । शीङ् स्वप्ने । अस्माद्धातोः स्फायितञ्चीत्यादिना रक्प्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । पावकशोचिषमित्यत्र पवनं पावः शुद्धिः । तं कायतीति पावकः । आतोऽनुपसर्गे कः । प्रत्ययस्वरः । बहुव्रीहौ प्रकृत्या पूर्वपदमिति पूर्वपद प्रकृतिस्वरत्वम् । आशुम् । आशूव्याप्तौ । अस्माद्धातोः कृवासाजिमित्यादिना उण् । उपधावृद्धिः । प्रत्ययस्वरः । अजिरं आज गतिक्षेपणयोरित्यस्माद्धातोरजिरशिशिरशिथिलेति किञ्च् प्रत्ययान्तत्वेन निपातनादन्तोदात्तत्वम् । प्रत्नम् । प्रगस्यछन्दसि गलोपश्च । पा. ४-३-२३-२ । इति गलोपः । चकारात् त्न प्रत्ययः । प्रत्ययस्वरः । ईड्यम् । ईड स्तुतौ अस्माण्ण्यक् । ईडावन्देत्यादिनाद्युदात्तत्वम् । सपर्यत । सपरशब्दात्कण्ड्वादिभ्यो यक् पूजायां वत्रते । लोण्मध्यमपुरुषबहुवचनम् । शप् । अतो गुण इति पूर्वरूपत्वम् । निघातः ॥ ८ ॥

3.9.9
त्रीणि᳚ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च᳚ दे॒वा नव᳚ चासपर्यन् ।
औक्ष᳚न्घृ॒तैरस्तृ᳚णन्ब॒र्हिर᳚स्मा॒ आदिद्धोता᳚रं॒ न्य᳚सादयन्त ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । श॒ता । त्री । स॒हस्रा᳚णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव᳚ । च॒ । अ॒स॒प॒र्य॒न् ।
औक्ष᳚न् । घृ॒तैः । अस्तृ᳚णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता᳚रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रीणि शता त्रीणि शतानि त्री सहस्राणि त्रीणि सहस्राणि त्रिंशच्च नव चैकोनचत्वारिंशदधिकशतत्रयोपेतत्रिसहस्र संख्याका देवा इममग्निमसपर्यन् । अपूजयन् । किंच ते देवा घृतेरिममग्निमेक्षन् । आसिञ्चन् । तथास्मा अग्नये तदर्थं बर्हिरस्तृणन् । बर्हिषास्तरणं वेद्याच्छादनमकुर्वन् । आदिदनन्तरमेव ते देवास्तस्मिन्बर्हिष्येनमग्निं होतारं कृत्वा न्यसादयन्त उपावेशयन् । देव्यैः पूज्यमिमग्निं सपर्यतेति पूर्वेणात्वयः देवसंख्या च बृहदारण्यकेऽभिहिता । महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंसह्दष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशौ । बृ. आ. ३-९ । इति शता । दशानां दशतां शभावस्तश्च प्रत्ययः । दश दशतः परिमाणमेषां शतानि । सुपां सुलुगित्यादिना सुपो डादेशः । प्रत्ययस्वरः । त्री । सुपां सुलुगिति पूर्वसवर्णदीर्घः । फिट् स्वरः । सहस्राणि । कर्दमादित्वान्मध्योदात्तः । त्रिंशत् । प्रत्ययस्वरः । नव । कनिन्नित्यनुवृत्तौ णु स्तुतावित्यस्माद्धातोर्णुदंशोर्नुदश्चेति कनिन् । गुणश्च । नित्त्वादाद्युदात्तः । असपर्यन् । लङ् रूपम् । निघातः । औक्षन् । उक्ष सेचने । आडजादीनामित्याडागमः । वृद्धिः । पादादित्वान्न निहन्यते । आगमस्वरः । अस्तृणन् । स्तृञ् आच्छादने । लङ् बहुवचने क्र्यादित्वाच्छ्ना । झेरन्तादेशह् । नित्यं ङुत इतीकारलोपः । संयोगान्तलोपः । श्नाभ्यस्तयोरात इत्याकारलोपः । लुङ्लिङ् लृङ्क्वडित्यडागमः । स चोदात्तः । आगमस्वरः । वक्येत्यनुवृत्तौ जादित्वान्निघाताभावः । बर्हिः । इसिरित्यनुवृत्तौ वृंहेर्नलोपश्चेतीसिः । तत्सन्नियोगेन नलोपः । प्रत्ययस्वरः । असादयन्त । षद्लृ विशरणगत्यवसादनेषु । अस्माद्धेतुमति चेति णिच् । उपधावृद्धिः । णिचश्चेत्यात्मनेपदम् । लङ् बहुवचने रूपम् । निघातः ॥ ९ ॥