श्रवणम्

3.9.7 समानपद
तद्भ॒द्रं तव᳚ दं॒सना॒ पाका᳚य चिच्छदयति ।
त्वां यद᳚ग्ने प॒शवः᳚ स॒मास᳚ते॒ समि᳚द्धमपिशर्व॒रे ॥
▶ पदपाठः (Word-by-word)
तत् । भ॒द्रम् । तव᳚ । दं॒सना᳚ । पाका᳚य । चि॒त् । छ॒द॒य॒ति॒ ।
त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः᳚ । स॒म्॑आस᳚ते । सम्॑इ᳚द्धम् । अ॒पि॒॑श॒र्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तव सम्बन्धि तदिदं भद्रं शोभनं दंसनाग्निहोत्रादिकं कर्म पाकाय चित् । चिच्छब्दोऽप्यर्थे । पाकायेति कर्मणि चतुर्थी । पाकोऽर्भकः । तद्वदज्ञमपि यजमानं छदयति । स्वफलप्रदानेन पूजयति । पशुपुत्रादिभिः परिवृतं करोतीत्यर्थः । छदयतिशब्दोऽर्चतिकर्मा छन्दयति छदयतीति तन्नामसु पाठात् । यद्वा । पाकशब्दः प्रशस्यं वक्ति पाको वाम इति प्रशस्यनामसु पठितत्वात् । तद्भद्रं प्रशस्यं यजमानमभिमतफलप्रदादेन पूजयतीत्यर्थः । यद्यस्मात्कारणादपिशर्वरे शर्वरीमुखेऽग्निविहरणकाल एव समिद्धं दीप्यमानं त्वां पशवो द्विपदाश्चतुष्पदाश्चोभये पशवः समासते । सम्यगासते । पर्युपासत इत्यर्थः । तदिदं पश्चादिलक्षणं फलं यजमानाय प्रयच्छतीत्यर्थः । भद्रम् । भदि कल्याण कित्यस्माद्धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । पाकाय पा रक्षण इत्यस्मादिण्भीकापाशलीत्यादिना कन् । पायते रक्ष्यते राजादिनेति पाकः । नित्त्वादाद्युदात्तः । छदयति । छद आपवरणे । स्वार्थे णिच् । अदन्तत्वाद्वृद्ध्यभावः । निघातः । समासते । आस उपवेशने । अदादित्वाच्छपो लुक् । अनकारान्तत्वाङ् झुस्यादेशः । यद्योगादनिघातः । तिङ् चोदात्तवतीति गतेर्निघातः धातुस्वरः ॥ ७ ॥