तृतीयं मण्डलम् - सूक्तम् 21

5 ऋचः

ऋषिः: गाथी कौशिकः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.21 - सम्पूर्णम्

1 / 5
ऋक्: 3.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.21.1 समानपद
इ॒मं नो᳚ य॒ज्ञम॒मृते᳚षु धेही॒मा ह॒व्या जा᳚तवेदो जुषस्व ।
स्तो॒काना᳚मग्ने॒ मेद᳚सो घृ॒तस्य॒ होत॒ः प्राशा᳚न प्रथ॒मो नि॒षद्य᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । नः॒ । य॒ज्ञम् । अ॒मृते᳚षु । धे॒हि॒ । इ॒मा । ह॒व्या । जा॒त॒॑वे॒दः॒ । जु॒ष॒स्व॒ ।
स्तो॒काना᳚म् । अ॒ग्ने॒ । मेद᳚सः । घृ॒तस्य᳚ । होत॒रिति᳚ । प्र । अ॒शा॒न॒ । प्र॒थ॒मः । नि॒॑सद्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गाधी प्रार्थयते । हे जातवेदो जातप्रज्ञाग्ने नोऽस्माकं सम्बन्धिनमिमं यज्ञं पशुयागममृतेषु मरणधर्मरहितेषु यष्टव्यदेवेषु धेहि । तदधीनतया समर्पय । त्वं चेमा इमान्यस्माभिर्दीयमानानि हव्या हव्यानि हवींषि जुषस्व । सेवस्व । किञ्च होतर्देवानामाह्वातः । अग्निर्वैदेवानां होतेत्याम्नानात् । तादृश हे अग्नेः निषद्य वेद्यामुपविश्य प्रथमः सर्वेषामृत्विजामादिमः सन् मेदसो वपाख्यस्य हविषो घृतस्याज्यस्य च स्तोकानाम् । द्वितीयार्थे षष्ठी । मेदोघ्हृतयोर्येस्तोका विन्दवो विद्यन्ते तान्प्रकर्षेणाशान । भक्षय । पिबेत्यर्थः ॥ धेहि । दधातेर्लोटि रूपम् । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोट्यात्मनेपदिनो रूपम् । अशान । अश भोजन इत्यस्य लोटि हलः श्नः शानज्झौ । पा.३-१-८३ ॥ इति शानजादेशः । पश्चादतो हेरिति हेर्लुक् । निघातः । प्रथमः । प्रथप्रख्याने । प्रथम प्रथन्तेऽस्माद्द्वितीयादय इति । प्रथेरमच् । उ. ५-६८ । इत्यमच् । चित्वादन्तोदात्तः । निषद्य । षदलृ विशरणगत्यवसादनेष्वित्यस्य ल्यपि रूपम् । सदेरप्रतेरिति षत्वम् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १ ॥

3.21.2 समानपद
घृ॒तव᳚न्तः पावक ते स्तो॒काः श्चो᳚तन्ति॒ मेद᳚सः ।
स्वध᳚र्मन्दे॒ववी᳚तये॒ श्रेष्ठं᳚ नो धेहि॒ वार्य᳚म् ॥
▶ पदपाठः (Word-by-word)
घृ॒त॑व᳚न्तः । पा॒व॒क॒ । ते॒ । स्तो॒काः । श्चो॒त॒न्ति॒ । मेद᳚सः ।
स्व॑ध᳚र्मन् । दे॒व॑वी᳚तये । श्रेष्ठ᳚म् । नः॒ । धे॒हि॒ । वार्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पावक पापशोधक हे अग्ने स्वधर्मन स्वायत्तधर्मके साङ्गेऽस्मिन्यज्ञे ते तव भक्षाणार्थं देववीतये यजनीयदेवानां भक्षणार्थं च घृतवन्तो घृतोपेता मेदसो मेदोरूपस्य हविषः स्तोका बिन्दवः श्चोतन्ति । क्षरन्ति । अथवा देववीतये देवस्य त वीतय इति योजनीयं तस्माद्वार्यं वरणीयं सम्भजनीयं श्रेष्ठमुत्तमं धनं नोऽस्मभ्यं धेहि प्रयच्छ ॥ श्चोतन्ति । श्चुतिर् क्षरण इत्यस्य लटि रूपं स्वधर्मन् । स्वेङ्गभूता धर्माणो यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सुपां सुलुगिति सप्तम्या लुक् देववीतये देवानां वीतिः प्रीत्य्र्यस्यां भक्षण क्रियायां सा देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । श्रेष्ठं प्रशस्यशब्दादतिशायन इष्ठन् प्रशस्यस्य श्र इति श्रादेशः । गुणः । एकादेश स्व्वरः । धेहि । दधातेर्लोट् । वार्यम् । वृङ् सम्भक्तौ । ऋहलोर्ण्यदितिण्यत् । ईडवन्देत्यादिनाद्युदात्तत्वं एतिस्तुरासित्यादिना क्यप् वृणोतेरेव न वृङः ॥ २ ॥

3.21.3
तुभ्यं᳚ स्तो॒का घृ᳚त॒श्चुतो॑ग्ने॒ विप्रा᳚य सन्त्य ।
ऋषि॒ः श्रेष्ठ॒ः समि᳚ध्यसे य॒ज्ञस्य᳚ प्रावि॒ता भ᳚व ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । स्तो॒काः । घृ॒त॒॑श्चुतः᳚ । अग्ने᳚ । विप्रा᳚य । स॒न्त्य॒ ।
ऋषिः᳚ । श्रेष्ठः᳚ । सम् । इ॒ध्य॒से॒ । य॒ज्ञस्य᳚ । प्र॒॑अ॒वि॒ता । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सन्त्य यष्टृभिः सम्भजनीय यद्वा यष्टृभ्यः फलप्रद हे अग्ने विप्राय मेधाविने तुभ्यं त्वदर्थं घृतश्चुतः घृतक्षरणयुक्ताः स्तोकाः सन्ति । ऋषिरतीन्द्रियार्थदर्शी अत एव श्रेष्ठः सर्वातिशायी त्वं समिध्यसे । घृतयुक्तमेदोबिन्दुभिः सम्यक् प्रज्याल्यसे । स त्वं यज्ञस्यास्माभिः क्रियमाणस्य पशुयागस्य प्राविता प्रकर्षेणपालको भव ॥ तुभ्यम् । युष्मत्च्छब्दस्य ङयि तुभ्यमह्यौ ङ्यि । पा. ७-२-९५ ॥ इति तुभ्यादेशः । ङी प्रथमयोरमिति ङीरमादेशः । ङयि चेत्याद्युदात्तत्वम् । सन्त्य । षण सम्भक्तौ षणु दाने वा । क्तिच् क्तौ च संज्ञायामिति क्तिच् । न क्तिचि दीर्घश्चेति दीर्घनलोपाभावः । सन्तौ भवो भवे छन्दसीति तत्र साधुरिति वा यत्प्रत्ययः । यस्येति लोपः । आमन्त्रितत्वान्निघातः । इध्यसे । ञि इन्धी दीप्तौ । कर्मणि यक् । कित्त्वादनुनासिकलोपः । निघातः । प्रविता अव रक्षणादिषु । तृचि रूपम् । समासस्वरः । भवनिघातः ॥ ३ ॥

3.21.4 समानपद
तुभ्यं᳚ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो᳚ अग्ने॒ मेद᳚सो घृ॒तस्य᳚ ।
क॒वि॒श॒स्तो बृ᳚ह॒ता भा॒नुनागा᳚ ह॒व्या जु᳚षस्व मेधिर ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । श्चो॒त॒न्ति॒ । अ॒ध्रि॒गो॒ इत्य᳚ध्रि॑गो । श॒ची॒॑वः॒ । स्तो॒कासः᳚ । अ॒ग्ने॒ । मेद᳚सः । घृ॒तस्य᳚ ।
क॒वि॒॑श॒स्तः । बृ॒ह॒ता । भा॒नुना᳚ । आ । अ॒गाः॒ । ह॒व्या । जु॒ष॒स्व॒ । मे॒धि॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्रिगो अधृतगमन सततगमनस्वभाव । अत एव शचीवः शक्तिमन् हे अग्ने तुभ्यं त्वदर्थं मेदसो मेदोरूपस्य हविषो घृतस्य स्तोकासो बिन्दवः श्चोतन्ति । स्रवन्ति । तस्मात्कविशस्तः कविभिः कर्माभिज्ञैर्होत्रादिभिः स्तुतस्त्वत्वं बृहता प्रभुतेन भानुना तेजसा सहितः सन् आगाः । अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च मेधिर प्रज्ञावन्नग्ने हव्या अस्माभिर्दीयमानानि वपादीनि हवींषि जुषस्व सेवस्य ॥ अध्रिगो । गमनं गौरिति गम् लृ सृप् लृ गतावित्यस्य भावे गमेर्डोरिति डोः । अधृता गौर्येनेत्यत्र गोस्त्रियोरुपसर्जनस्येति गोशब्दस्य ह्रस्वत्वं धृतशब्दस्य पृषोदरादित्वात् ध्रिभावः । सम्बोधने सम्बुद्धौ च । पा. ७-३-१०६ । इति गुणः । अपादादित्वान्निघातः । शचीवः । मतुपो मतुवसो रुरिति रुत्वम् । कविशस्तः । शन्सु स्तुतावित्यस्य निष्हायामनुनासिकलोपः । यस्य विभाषेतीट् प्रतिषेधः । थाथघञ् क्ताजबित्रकाणामित्यन्तोदात्तत्वम् । भानुना । भा दीप्तौ । दाभाभ्यां नुरिति कर्तरि नुः । प्रत्ययस्वरः । अगाः । इण् गतावित्यस्य छान्दसे लुङ् इणो गेति गादेशः । गातिस्थेति सिचो लोपः । निघातः । मेधिर । मेधारथाभ्यामिरनिरचौ व्यक्तव्यावितीरन् । आमन्त्रितत्वान्निघातः ॥ ४ ॥

3.21.5
ओजि᳚ष्ठं ते मध्य॒तो मेद॒ उद्भृ᳚तं॒ प्र ते᳚ व॒यं द᳚दामहे ।
श्चोत᳚न्ति ते वसो स्तो॒का अधि᳚ त्व॒चि प्रति॒ तान्दे᳚व॒शो वि᳚हि ॥
▶ पदपाठः (Word-by-word)
ओजि᳚ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः᳚ । उत्॑भृ᳚तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ ।
श्चोत᳚न्ति । ते॒ । व॒सो॒॑इति᳚ । स्तो॒काः । अधि᳚ । त्व॒चि । प्रति᳚ । तान् । दे॒व॒॑शः । वि॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ओजिष्ठं अतिशयेन सारयुक्तं मेदो वपाख्यं हविर्मध्यतः पशोर्मध्यभागात्ते त्वदर्थमुद्भृतमुद्धृतमध्वर्य्वादयो वयमस्मिन्पशौ ते तुभ्यं प्रददामहे । उद्धृतं तद्वपाख्यं हविः प्रयच्छामः । वसो सर्वस्य जगतो वासयितर्हे अग्ने त्वच्यधि वपायामुपरि ये स्तोका घृतमिश्रा बिन्दवस्ते ते त्वदर्धं श्चोतन्ति । स्रवन्ति । यद्वा ते तव त्वच्यधि ज्वालाख्यशरीरस्योपरि श्चोतन्ति । तान् सोकान्देवशो देवेषु प्रति विहि । प्रत्येकं विभजस्व ॥ मध्यतः । मध्यशब्दात् पञ्चम्यास्तसिः । पा.५-४-४४-१ । इति तसिः । प्रत्ययस्वरः । उद्भृतम् । ह्रु ञ् हरणे । कर्मणि क्तः । हैग्रहोर्भश्छन्दसीति हकारस्य भकारः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । ददामहे । दद दान इत्यस्य लिट ङुत्त्वादात्मनेपदम् । अतो दीर्घोयञीति दीर्घः । निघातः । श्चोतन्ति । श्चुतिर् क्षरणे । पादादित्वादनिघातः । अन्तेर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः । त्वचि । तनु विस्तारे । तनोतेरनश्चवः । उ. २-६३ । इतिकर्तरि कर्मणि वा चिक् । अकारनकारयोर्वकारादेशः । तनोति तायते वा त्वक् । सावेकाच इति विभक्तेरुदात्तत्वम् । विहि । वी कान्तिगत्यादिष्वित्यस्य लोट्यदादित्वाच्छपो लुक् । ह्रस्वश्छान्दसः । निघातः । खिलम् ॥ ५ ॥