तृतीयं मण्डलम् - सूक्तम् 41

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 3.41 - सम्पूर्णम्

1 / 9
ऋक्: 3.41.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.41.1
आ तू न᳚ इन्द्र म॒द्र्य᳚ग्घुवा॒नः सोम᳚पीतये ।
हरि᳚भ्यां याह्यद्रिवः ॥
▶ पदपाठः (Word-by-word)
आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य᳚क् । हु॒वा॒नः । सोम᳚॑पीतये ।
हरि᳚॑भ्याम् । या॒हि॒ । अ॒द्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवो हे वज्रिन् हे इन्द्र हुवानो होतृभिराहूयमानस्त्वं मद्र्यक् मदभिमुखः सन् नोऽस्मदीये यज्ञे सोमपीतये सोमपानार्थं हरिभ्यामश्विभ्यां सहतु क्षिप्रिमा याहि । तु । ऋचि तनुघेत्यादिना सम्हितायां दीर्घः । मुद्र्यक् । मामञ्चतीति ऋत्विग्दधृगित्यादिना क्विन् । प्रत्ययोत्तरपदयोश्चेत्यस्मच्छब्दस्यैकवचने मपर्यन्तस्य मादेशः । विश्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यय इतिटेरद्रित्यादेशः । अद्रिसध्योरन्तोदात्तत्वनिपातनं क्रुत्स्वरनिवृत्त्यर्थमिति वचनादद्र्यादेशोऽन्तोदात्तः । यणादेशे क्रुत उदात्तस्वरितयोर्यन इतियणः स्वरितत्वम् । क्विन्प्रत्य्त्यस्य कुरिति कुत्वम् । सोमपीतये । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । अद्रिवः । मतुवसोरिति रुत्वम् । आमन्त्रितत्वान्निघातः ॥ १ ॥

3.41.2
स॒त्तो होता᳚ न ऋ॒त्विय᳚स्तिस्ति॒रे ब॒र्हिरा᳚नु॒षक् ।
अयु᳚ज्रन्प्रा॒तरद्र᳚यः ॥
▶ पदपाठः (Word-by-word)
स॒त्तः । होता᳚ । नः॒ । ऋ॒त्वियः᳚ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् ।
अयु᳚ज्रन् । प्रा॒तः । अद्र᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सोऽस्मदीये यज्ञे होता ऋत्विक् तवाह्वानार्थमृत्वियः प्राप्तकालः सन् सत्तो निशण्णो वर्तते । तथा बर्हिरानुषक् अनिषक्तं परस्परसम्बद्धं यथा भवति तथा तिस्तिरे । हविष्वासन्नेषु स्तीर्णमभूत् । तथा प्रातः प्रातः सवने सोमाभिषवार्थमद्रयो ग्रावाणो७युज्रन् । परस्परं सण्गता अभूवन् । तस्मात्सोमपानार्थं त्वमागचेति भावः । सत्तः । षद्लृ विशरणादिष्वित्यस्माद्गत्यर्था कर्मकश्लिषेत्यादिना । पा. ३-४-७२ । कर्तरि क्तः । सर्वविधीनां छन्दसि विकल्पितत्वादत्र निष्ठातकारस्य नत्वाभावः । ऋत्वियः । ऋतुशब्दाच्छन्दसि घसिति घस्प्रत्ययः । घस्येयादेशः । सितीति पदसंज्ञायामोर्गुण इति भसंज्ञाधीनो गुणो न भवति । यणादेशः । प्रत्ययस्वरः । तिस्तिरे । स्तॄञ् अच्छादन इत्यस्य कर्मणि लट्यॄत इद्धातोरितीत्वम् । द्विर्वचने शर्पूर्वाः खय इति तकारस्य शेषः । लिटस्तझयोरेशिरेजिति तप्रत्ययस्यैशित्यादेशः । पादादित्वादनिघातः । प्रत्ययस्वरः । आनुषक् । षन्जसङ्गे । क्विप् । अनिदितामिति नलोपः । आङन्वोरुपसर्गयोः प्राक्प्रयोगः । गतिसमासः । कृदुत्तरपदस्वरः । अयुज्रन् । युजिर् योग इत्यस्य लुङि च्लीरिरितो वेत्यङादेशः । बहुलं छन्दसीति रुडागमः । आदादित्वादनिघातः । अडागमस्वरः ॥ २ ॥

3.41.3
इ॒मा ब्रह्म᳚ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी᳚द ।
वी॒हि शू᳚र पुरो॒ळाश᳚म् ॥
▶ पदपाठः (Word-by-word)
इ॒मा । ब्रह्म᳚ । ब्र॒ह्म॒॑वा॒हः॒ । क्रि॒यन्ते᳚ । आ । ब॒र्हिः । सी॒द॒ ।
वी॒हि । शू॒र॒ । पु॒रो॒ळाश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्माणि स्तोत्राणि स्तुत्यतया वहतीति ब्रह्मवाहा ब्रह्मणा स्तोत्रेण प्राप्यत इति वा । हे ब्रह्मवाह इन्द्र तुभ्यमिमेमानि ब्रह्म ब्रह्माणि स्तोत्राण्यस्माभिः क्रियन्ते । अतो बर्हिरा सीद । स्तुत्यतया बर्हिषि यज्ञ् उपविश । हे शूर समर्धेन्द्रास्माभिर्दीयमानमिमं पुरोडाशं पुरोडाशाख्यं हविर्वीहि । भक्षय । ब्रह्मवाहः । वह प्रापण इत्यस्माद्वहिहाधाञ्भ्यश्छन्दसीत्यस्य्न् । णीदित्यनुवृत्तेरुपधावृद्धिः । आमन्त्रितत्वान्निघातः । क्रियन्ते । करोतेः कर्मणि यक् । रिङ् शयग्लिंक्ष्विति रिङादेशः । प्रत्ययस्वरः । पादादित्वादनिघातः । बर्हिः । कालाध्वनोरत्यन्त संयोगे द्वितीया । वीहि । वी कान्त्यादिषु । लोटि रूपम् । हेर्ङुत्त्वादुदात्तः पुरोळाशम् । दाशृ दान इत्यस्मातुरस्पूर्वान्मन्त्रे श्वेतवहोक्थशस्पुरोडाशोण्विन् । पुरोदाशन्त एनमिति । निपातनाद्दकारस्य ळकारः । कृदुत्तरपदस्वरः ॥ ३ ॥

3.41.4
रा॒र॒न्धि सव᳚नेषु ण ए॒षु स्तोमे᳚षु वृत्रहन् ।
उ॒क्थेष्वि᳚न्द्र गिर्वणः ॥
▶ पदपाठः (Word-by-word)
र॒र॒न्धि । सव᳚नेषु । नः॒ । ए॒षु । स्तोमे᳚षु । वृ॒त्र॒॑ह॒न् ।
उ॒क्थेषु᳚ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणो गीर्भिः स्तुतिभिर्वननीय वृत्रहन् वृत्रस्य हन्तर्हे इन्द्रनोऽस्माकं सम्बन्धिषु त्रिषु सवनेषेषु क्रियमाणेषु स्तोमेषु स्तोत्रेषूक्थेषु शस्त्रेषु च रारन्धि । रमस्व । रारन्धि । रमतेर्लोटि बहुलं छन्दसीति शपः श्लुः । छन्दस्युभयथेति हेरार्धधातुकत्वेनाङुत्त्वादङितश्चेति हेर्धिः । सवनेशु । सूयते सोमो येष्वित्यधिकरणे सुनोतेर्ल्युट् । लित्स्वरः । णः । सनो नकारस्य नश्च धातुस्थोरुषभ्य इति संहितायां णत्वं ॥ ४ ॥

3.41.5
म॒तयः᳚ सोम॒पामु॒रुं रि॒हन्ति॒ शव᳚स॒स्पति᳚म् ।
इन्द्रं᳚ व॒त्सं न मा॒तरः᳚ ॥
▶ पदपाठः (Word-by-word)
म॒तयः᳚ । सो॒म॒॑पाम् । उ॒रुम् । रि॒हन्ति᳚ । शव᳚सः । पति᳚म् ।
इन्द्र᳚म् । व॒त्सम् । न । मा॒तरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मतयोऽस्माभिः क्रियमाणाः स्त्तुतय उरुं महान्तं सोमपां सोमस्य पातारं शवसो बलस्य पतिमिन्द्र त्वां रिहन्ति । लिहन्ति । तत्र दृष्टान्तः । वत्स्ं न । यथा वत्सं मातरो धेनवो लिहन्ति तद्वत् । मतयः । मन ज्ञान इत्यस्मात्कर्मणि मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । उरुम् । ऊर्णुञ् आच्छादन इत्यस्मान्महत्यर्थे गम्यमाने महति ह्रस्वश्च । उ. १.३२ । इति कुप्रत्ययो धातोर्ह्रस्वश्च । प्रत्ययस्वरः । रिहन्ति लिह अस्वादन इत्यस्य लटि रूपम् । रलयोरभेदः । प्रत्ययस्वरः । शवसस्पतिमिति संहितायां षष्ठ्याः प्रतिपुत्रपृष्ठेत्यादिना विसर्जनीयस्य सत्वम् । वत्सम् । वद व्यक्तायां चाचि । अस्माद्वृतॄवदिहनीत्यादिना सप्रत्ययः । वदत्यभीक्ष्णं मातरमिति वत्सो गोबालः । प्रत्ययस्वरः ॥ ५ ॥

3.41.6
स म᳚न्दस्वा॒ ह्यन्ध᳚सो॒ राध᳚से त॒न्वा᳚ म॒हे ।
न स्तो॒तारं᳚ नि॒दे क᳚रः ॥
▶ पदपाठः (Word-by-word)
सः । म॒न्द॒स्व॒ । हि । अन्ध᳚सः । राध᳚से । त॒न्वा᳚ । म॒हे ।
न । स्तो॒तार᳚म् । नि॒दे । क॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स तथाविधस्त्वं महे महते राधसे धनायान्धसोऽस्माभिर्दीयमानस्य सोमस्य पानेन तन्वा शरीरेण सह मन्दस्व । हृष्टो भव । हिरत्र समुच्चयार्थः । किञ्च त्वं स्तोतारं मां निदे निन्दायै विषयभूतं न्स्करः । माकार्षीः । मन्दस्व । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । हे चेति निघातप्रतिषेधेन भवितव्यमिति चेन्न । तत्राप्रातिलोम्य इति वर्तते । अत्र हेः समुच्चयार्थत्वान्निघातः । तन्वा उदात्तस्वरितयोरिति स्वरितत्वम् । महे । तकारलोपश्छान्दसः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । निदे । णिदि कुत्सायामित्यस्मात्संपदादि लक्षणो भावे क्विप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । सावेकाच इति विभक्तेरुदात्तत्वम् । करः । करोतेर्लुङि च्लेः कृमृदृ रुहिभ्यश्छन्दसीत्यङादेशः । निघातः ॥ ६ ॥

3.41.7
व॒यमि᳚न्द्र त्वा॒यवो᳚ ह॒विष्म᳚न्तो जरामहे ।
उ॒त त्वम᳚स्म॒युर्व᳚सो ॥
▶ पदपाठः (Word-by-word)
व॒यम् । इ॒न्द्र॒ । त्वा॒॑यवः᳚ । ह॒विष्म᳚न्तः । ज॒रा॒म॒हे॒ ।
उ॒त । त्वम् । अ॒स्म॒॑युः । व॒सो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वायवो यज्ञार्थं त्वामात्मन इच्छन्तस्त्वत्कामाः सन्तो हविष्मन्तः संभृत हविष्का वयं जरामहे । त्वां स्तुमः । हे वसो सर्वस्य वासक इन्द्र उत त्वमप्यस्मयुरस्मदीयहविः स्वीकरणार्थमस्मानात्मन इच्छन् भव । त्वायवः । त्वामिच्छन्तीत्यर्थे सुपः आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मतर्यन्तस्य त्वादेशः । क्याच्छन्दसीत्युप्रत्ययः । त्वद्यव इति प्राप्तौ युष्मदस्मदोरनादेश इत्यविभक्तावपि हलादौ व्यत्ययेनात्वम् । प्रत्ययस्वरः । हविष्मन्तः । तसौ मत्वर्थ इति भसंज्ञायां सकारस्य रुत्याभावः । स्वरविधौ व्यञ्जनमविद्यमानवदिति परिभाषानाश्रयनान्मतुप उदात्तताभवः । इसि प्रत्ययस्वरः । जरामहे । जरतिः स्तुतिकर्मेति यास्कः । अस्मयुः अस्मानिच्छतीत्यर्थे सुपः क्यच् । तस्मादुप्रत्ययः । पूर्वपदान्तलोपश्छान्दसः । प्रत्ययस्वरः ॥ ७ ॥

3.41.8
मारे अ॒स्मद्वि मु᳚मुचो॒ हरि᳚प्रिया॒र्वाङ्या᳚हि ।
इन्द्र᳚ स्वधावो॒ मत्स्वे॒ह ॥
▶ पदपाठः (Word-by-word)
मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि᳚॑प्रिय । अ॒र्वाङ् । या॒हि॒ ।
इन्द्र᳚ । स्व॒धा॒॑वः॒ । मत्स्व᳚ । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरिप्रिय हरी अशौ प्रियौ यस्य तादृश हे इन्द्र अस्मदस्मत्त आरे दूरे रथे योजतावशौ मा वि मुमुचः । मा विमोचय । ताभ्यामुपेत एवार्वाङ् अस्मादाभिमुख्येन याहि । आगच्छ । हे स्वधावः सोमलक्षणान्नवन्निन्द्र इहास्मिन्देवयजने मत्स्व । सोमं पीत्वा हृष्टो भव । अस्मत् । अस्मच्छब्दस्य पञ्चमीबहुवचनस्य पञ्चम्या अत् । पा. ७-१-३१ । इत्यदादेशः । मुमुचः । मुच्लृ मोक्शण इत्यस्य ण्यन्तस्य छान्दसे लुङि चङि रूपम् । अभ्यासस्य दीर्घाभावश्छान्दसः । न माङ्योग इथडभावः । निघातः । । हरिप्रिय । आमन्त्रितस्य पादादित्वात्क्षाष्ठिकमाद्युदात्तत्वम् । मत्स्व । मदि स्तुत्यादिष्वित्यस्य लोटि बहुलं छन्दसीति विकरणस्य लुक् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ॥ ८ ॥

3.41.9
अ॒र्वाञ्चं᳚ त्वा सु॒खे रथे॒ वह᳚तामिन्द्र के॒शिना᳚ ।
घृ॒तस्नू᳚ ब॒र्हिरा॒सदे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाञ्च᳚म् । त्वा॒ । सु॒॑खे । रथे᳚ । वह᳚ताम् । इ॒न्द्र॒ । के॒शिना᳚ ।
घृ॒तस्नू॒ इति᳚ घृ॒त॑स्नू᳚ । ब॒र्हिः । आ॒॑सदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र घृतस्नू श्रमजनितजलप्रस्रवणयुक्तौ केशिना केशिनौ स्कन्धप्रदेशे लम्बमानकेशयुक्तौ हरी आसद आसदनीयं बर्हिरभिलक्ष्य सुखे सुखकरे रथेऽर्वाञ्च मस्मदभिमुखं त्वां त्वां वहताम् । अर्वाञ्चम् । अञ्चतेः क्विनुगिदचामिति नुम् । वहताम् । वहेर्लोटि रूपम् । तसो लसार्वधातुकस्वरे कृते धातुस्वरः । आसदे । सदेः कृत्यार्थे केन्प्रत्ययः । नित्स्वरः । कृदुत्तरपदप्रकृतिस्वरः ॥ ९ ॥