तृतीयं मण्डलम् - सूक्तम् 33

13 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: नद्यः छन्दः: त्रिष्टुप्

सूक्तम् 3.33 - सम्पूर्णम्

1 / 13
ऋक्: 3.33.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
3.33.1
प्र पर्व᳚तानामुश॒ती उ॒पस्था॒दश्वे᳚ इव॒ विषि᳚ते॒ हास᳚माने ।
गावे᳚व शु॒भ्रे मा॒तरा᳚ रिहा॒णे विपा᳚ट् छुतु॒द्री पय᳚सा जवेते ॥
▶ पदपाठः (Word-by-word)
प्र । पर्व᳚तानाम् । उ॒श॒ती इति᳚ । उ॒प॑स्था᳚त् । अश्वे᳚ इ॒वेत्यश्वे᳚॑इव । विसि᳚ते॒ इति॒ वि॑सि᳚ते । हास᳚माने॒ इति᳚ ।
गावा᳚॑इव । शु॒भ्रे इति᳚ । मा॒तरा᳚ । रि॒हा॒णे इति᳚ । वि॑पा᳚ट् । शु॒तु॒द्री । पय᳚सा । ज॒वे॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वतानां गिरीणां शैलानामुपस्थादुत्सङ्गान्निर्गत्योशती समुद्रगमनं कामयमाने । गमने दृश्टान्तः । अश्वे इव । यथा विषिते मन्दुरातो विमुक्ते हासमाने अन्योन्यजवेन स्पर्धमाने । यद्वा हृष्यन्त्यावश्वे इव वडवे इव त्वरया गच्छन्त्यौ परस्परम् हृष्यन्तौ । तथा गावेव शुभ्रे । यथा द्वौ गावौ शोभमानौ वर्तते तद्वच्छुभ्रे शोभमाने । किञ्च मातरा । यथा मातरौ धेनू रिहाणे । अन्तर्णीतसनर्थो लिहिः । वत्सं जिह्वया लेढुमिच्छन्तौ शीघ्रं गच्छतस्तद्वत्समुद्रं गन्तुं जवाद्गच्छन्तौ पयसा संयुक्ते विपाट् । कूलविपाटनात् विपाशनाद्वा विमोचनाद्वाविपाट् । शुतुद्री । शु क्शिप्रं तु तुन्ना तुन्नेव द्रवति गच्छतिति शुतुद्री । एतन्नामके नदौ प्र जवेते । समुद्रं [रतो स्जोग्ज्र गच्छतझ् । अत्रनिरुक्तम् । पर्वतानामुपस्थादुपस्थानादुशतौ कामयमाने अश्वे इव विमुक्ते इति वा विशण्णे इति वा हासमाने हासतिः स्पर्धायां हर्षमाणेवा गावाविव शुभ्रे शोभने मातरौ संरिहाणे विपाट् छुतुद्र्यौ पयसा प्रजवेते । नि. ९-३९ । इति ॥ उशती । वश कान्तौ । अस्य शतुर्ङित्त्वाद्ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । विशिते । शिञ् बन्धन इत्यस्य कर्मणि निष्ठा । संहितायां परिनिविभ्यः सेवसितसयसिवुसहेत्यादिना । पा. ८-३-७० ॥ शत्वम् । गतिरनन्तर गतेः प्रकृतिस्वरः । हासमाने । हासतिः स्पर्धाकर्मा हसे हसने वा । शानच् । तस्य लसार्वधातुकस्वरे कृते धातुस्वरः । रिहाणी । लिह आस्वादने । स्वरितेत्त्वादुभयपदी । शानच् । आदादित्त्वाच्छपो लुक् । लकारस्य रेफश्छान्दसः । रेफमवलम्ब्य णत्वम् । चित्त्वादन्तोदात्तः । विपाट् । पट गतौ प्श बाधन स्पर्शनयोरिति वा ण्यन्तावेतौ विपूर्वौ । शकारस्य व्रश्चादिना शत्वम् । शुतुद्री । छान्दसी रूपसिद्धिः । जवेते । जुङ् गतौ । भौवादिकः । ङित्त्वादात्मनेपदम् । आतो ङित इतीयादेशः । निघातः ॥ १ ॥

3.33.2
इन्द्रे᳚षिते प्रस॒वं भिक्ष᳚माणे॒ अच्छा᳚ समु॒द्रं र॒थ्ये᳚व याथः ।
स॒मा॒रा॒णे ऊ॒र्मिभि॒ः पिन्व᳚माने अ॒न्या वा᳚म॒न्यामप्ये᳚ति शुभ्रे ॥
▶ पदपाठः (Word-by-word)
इन्द्रे᳚षिते॒ इतीन्द्र᳚॑इषिते । प्र॒॑स॒वम् । भिक्ष᳚माणे॒ इति᳚ । अच्छ᳚ । स॒मु॒द्रम् । र॒थ्या᳚॑इव । या॒थः॒ ।
स॒मा॒रा॒णे इति᳚ स॒म्॑आ॒रा॒णे । ऊ॒र्मि॑भिः᳚ । पिन्व᳚माने॒ इति᳚ । अ॒न्या । वा॒म् । अ॒न्याम् । अपि᳚ । ए॒ति॒ । शु॒भ्रे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नदौ इन्द्रेशिते इन्द्रेण प्रेशिते प्रसवं तस्येन्द्रस्यानुज्ञां भिक्षमाणे प्रार्थयमाने युवां समुद्रमच्छाभिमुख्येन याथः । गच्छथः । तत्र दृष्टान्तः । रथ्येवेति । यथा रथिनौ लक्श्यं देशमभिगच्छतस्तद्वत् । किं कुर्वत्यौ । समाराणे परस्परं संगच्छन्त्यावूर्मिभिस्तरङ्गैः पिन्वमाने परिसरप्रदेशं सन्तर्पयन्त्यौ शुभ्रे शोभमाने । युवां समुद्रं गच्छथ इति पूर्वेणान्वयः । तथा वां युवयोर्मध्येऽन्यैकान्यामपरां नदीमप्येति । अपिगच्छति । परस्पमैक्यमापद्यत इत्यर्थः । इन्द्रेषिते । इश गतावित्यस्य कर्मणि निष्ठायास्तीषसहेत्यादिना इडागमः । तृतीया कर्मणीति पूर्वपदस्वरः । प्रसवम् । षू प्रेरण इत्यस्याप् । थाथादिस्वरः । भिक्षमाणे । भिक्श यज्ञायाम् । आत्मनेपदी । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । रथ्येव । रथस्येमौ । तस्येदमित्यर्थे रथाद्यदिति यत्प्यत्ययः । तित्स्वरितः । इवेन विघक्त्यलोपः । याथः । यातेर्लटि रूपम् । समाराणे । ऋ गतावित्यस्य लिट् । संपूर्वस्यर्तेः समो गमीत्यादिनात्मनेपदत्वात्तस्य कानजादेशः । ऋच्छत्यूतामिति गुणः । पिन्वमाने । पिवि सेचने । भूवादिः । लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः ॥ २ ॥

3.33.3
अच्छा॒ सिन्धुं᳚ मा॒तृत᳚मामयासं॒ विपा᳚शमु॒र्वीं सु॒भगा᳚मगन्म ।
व॒त्समि᳚व मा॒तरा᳚ संरिहा॒णे स᳚मा॒नं योनि॒मनु᳚ सं॒चर᳚न्ती ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । सिन्धु᳚म् । मा॒तृ॑त᳚माम् । अ॒या॒स॒म् । वि॑पा᳚शम् । उ॒र्वीम् । सु॒॑भगा᳚म् । अ॒ग॒न्म॒ ।
व॒त्सम्॑इ᳚व । मा॒तरा᳚ । सं॒रि॒हा॒णे इति᳚ स॒म्॑रि॒हा॒णे । स॒मा॒नम् । योनि᳚म् । अनु᳚ । स॒ञ्चर᳚न्ती॒ इति᳚ स॒म्॑चर᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नद्यौ मातृतमामतिशयेन मातरं सिन्धुं स्रवन्तीं शुतुद्रीं त्वामच्छाभिमुख्येनायासम् । विश्वामित्रोऽहं प्राप्तोऽभूवम् । उर्वीं महतीं सुभगां सौभाग्यवतीं विपाशं त्वामगन्म । वयं प्राप्ताः स्मः । किं कुर्वत्यौ । मातरा मातरौ द्वे धेनू वत्समिव संरिहाणे । अन्तर्णीतसनर्थो लिहिः । जिह्वया लेढुमिच्छन्तौ यथा वत्समनुगच्छतस्तद्वत् समानमेकं योनिं स्थानं समुद्रमनु अभिलक्श्य सञ्चरन्ती सम्यप् चरन्त्यौ । युवामयासिषमिति पूर्वेणान्वयः ॥ अयासम् । याप्रापण इत्यस्य रूपम् । इदभावश्छान्दसः । अगन्म । गमेर्लङि बहुलं छन्दसीति शपो लुक् । म्वोश्चेति मकारस्य नकारः । निघातः । सञ्चरन्ती । चरतिर्गत्यर्थः । तृतीयायुक्तत्वाभावादात्मनेपदाभावः । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः ॥ ३ ॥

3.33.4 समानपद
ए॒ना व॒यं पय᳚सा॒ पिन्व᳚माना॒ अनु॒ योनिं᳚ दे॒वकृ᳚तं॒ चर᳚न्तीः ।
न वर्त᳚वे प्रस॒वः सर्ग᳚तक्तः किं॒युर्विप्रो᳚ न॒द्यो᳚ जोहवीति ॥
▶ पदपाठः (Word-by-word)
ए॒ना । व॒यम् । पय᳚सा । पिन्व᳚मानाः । अनु᳚ । योनि᳚म् । दे॒व॑कृ᳚तम् । चर᳚न्तीः ।
न । वर्त᳚वे । प्र॒॑स॒वः । सर्ग᳚॑तक्तः । कि॒म्॑युः । विप्रः᳚ । न॒द्यः᳚ । जो॒ह॒वी॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवं स्तुते नदौ विश्वामित्रं प्रत्यूचतुः एनैनेन पयसा पिन्वमानाः सन्तर्पयन्त्यो देवकृतं देवेनेन्द्रेण कृतं सन्दिष्टं योनिं स्थानं समुद्रमनु लक्षीकृत्य चरन्तीर्गच्छन्त्यो वयमास्मदे द्वयोर्बहुवचनं पूजार्थं तासामस्माकं स्वर्गतक्तः सर्गे गमने प्रवृत्तः प्रसव उद्योगो न वर्त्तवे । निवर्तनाय न भवति । किंयुः किमिच्छन्नसौ विप्र् ब्राह्मणो नद्यो नदीरस्मान् जोडवीति । भृशमाह्वयति ॥ एना । इदंशब्दस्य तृतीयाया एनादेशः । सुपां सुलुगिति तृतीयाया आजादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पिन्वमानाः । पिवि सेचने । देवकृतम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । वर्त्तवे । वृतु वर्तने । तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । सर्गतक्तः । क्ते चेति पुर्वपदप्रकृतिस्वरः । किंयुः । किमिच्छन् । क्यचि मान्ताव्ययप्रतिषेधः । पा. ३-१-८-१ । इति छान्दसत्वादत्र प्रतिषेधो न भवतीति क्यच् । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । नद्यः । छान्दसो यणादेशः । जोहवीति । ह्वयो यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारणे कृते गुणो यङ् लुकोरित्यभ्यासस्य गुणः । यङो वेतीडागमः । गुणः । निघातः ॥ ४ ॥

3.33.5
रम᳚ध्वं मे॒ वच᳚से सो॒म्याय॒ ऋता᳚वरी॒रुप᳚ मुहू॒र्तमेवै᳚ः ।
प्र सिन्धु॒मच्छा᳚ बृह॒ती म᳚नी॒षाव॒स्युर᳚ह्वे कुशि॒कस्य᳚ सू॒नुः ॥
▶ पदपाठः (Word-by-word)
रम᳚ध्वम् । मे॒ । वच᳚से । सो॒म्याय᳚ । ऋत᳚॑वरीः । उप᳚ । मु॒हू॒र्तम् । एवैः᳚ ।
प्र । सिन्धु᳚म् । अच्छ᳚ । बृ॒ह॒ती । म॒नी॒षा । अ॒व॒स्युः । अ॒ह्वे॒ । कु॒शि॒कस्य᳚ । सू॒नुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रो नदीः प्रति ब्रूते । ऋतावरीः । ऋतमुदकम् । तद्वत्यो हे नद्यो यूयं मे विश्वामित्रस्य मम सोम्याय । उत्तीर्याहं सोमं सम्पादयामीत्येवं सोमसंपादिने । वचसे तदर्थमेवैः । पञ्चम्यर्थे तृतीया । शीघ्रगमनेभ्यो मुहूर्तं मुहूर्तमात्रमुप रमध्वम् । उपपूर्वो रमिरुपसंहारे वर्तते । क्षणमात्रं शीघ्रगमनादुपरता भवत । सामान्येन सदीषूच्यमानासु समीहितं प्रयोजनमकुर्वतीषु पुरोवर्तिनिं शुतुद्रीं प्रति ब्रूते । कुशिकस्य राजर्षेः सूनुर्विश्वामित्रोऽहं बृहती महत्या मनीषा मनीषया स्तुत्यावस्युरात्मनो रक्षणमिच्छन् सन् सिन्धुं शुतुद्रीं त्वामच्छाभिमुख्येन प्राह्वे । प्रकर्षेणाह्वयामि । अत्र निरुक्तम् । उपरमध्वरं मे वचसे सोम्याय सोमसम्पादिन ऋतावरीरुतवत्य ऋतमित्युदकनाम प्रत्यृतं भवति मुहूर्तमेवैरयनैरवनैर्वा । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीशया मनस ईषया स्तुत्या प्रज्ञया वावनाय कुशिकस्य सूनुः । कुशिको राजा बभूव । नि. २-२५ ॥ इति ॥ रमध्वम् । रमु उपरमे । उपपूर्वाद्रमतेर्विभास्षाकर्मकात् । पा. १-३-८५ । इत्यात्मने पदम् । ऋतावरीः । ऋतशब्दान्मत्वर्थे छन्दसीवनिपाविति वनिप् । वनो र चेति ङीप् रेफश्चान्तादेशः । वा छन्दसीति सवर्णदीर्घः । आमन्त्रितस्य पादादित्वात्षाष्ठिकमाद्युदात्तत्वम् । एवैः । इण् गतौ । इण् शीङ्भ्यां वन् । आर्धधातुकलक्षणो गुणः । नित्स्वरः । बृहती मनीषा । उभयत्र तृतीयायाः पूर्वसवर्णदीर्घः । अवस्युः । अवो रक्षणमिच्छन् । सुप आत्मनः क्यच् । नः क्य इति नकारान्तस्य पदसंज्ञाया नियमितत्वादत्र सकारस्य रुर्न भवति । क्याच्छन्दसीत्युप्रत्ययः । आह्वे । ह्वयतेर्लुङे सिच आत्मनेपदेष्वन्यतरस्याम् । पा. ३-१-५४ ॥ इत्यङादेशः । गुणः निघातः ॥ ५ ॥

3.33.6 समानपद
इन्द्रो᳚ अ॒स्मा{4} अ᳚रद॒द्वज्र᳚बाहु॒रपा᳚हन्वृ॒त्रं प᳚रि॒धिं न॒दीना᳚म् ।
दे॒वो᳚॑नयत्सवि॒ता सु᳚पा॒णिस्तस्य᳚ व॒यं प्र᳚स॒वे या᳚म उ॒र्वीः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । अ॒स्मान् । अ॒र॒द॒त् । वज्र᳚॑बाहुः । अप᳚ । अ॒ह॒न् । वृ॒त्रम् । प॒रि॒॑धिम् । न॒दीना᳚म् ।
दे॒वः । अ॒न॒य॒त् । स॒वि॒ता । सु॒॑पा॒णिः । तस्य᳚ । व॒यम् । प्र॒॑स॒वे । या॒मः॒ । उ॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नद्यः प्रत्यूचुः । हे विश्वामित्र वज्रबाहुः । वज्रयुक्तो बाहुर्यस्यासौ वज्रबाहुः । तादृशो बलवानिन्द्रो नदीरस्मानरदत् । रदतिः खनतिकर्मा अखनत् । कथमखनत् । उच्यते । नदीनां शब्दकारिणीनामपां परिधिं परितो निहितमुदकमन्तः कृत्वा परितो वर्तमानमित्यर्थः । तादृशं वृत्रं वृणोत्याकाशमिति वृत्रो मेघः । तं मेघमपाहन् । जघान । तस्मिन्हत आपः पतिताः । ताभिर्गच्छन्तीभिर्वयं खाताः । एवं मेघहननद्वारेणाखनत् । न केवलमखनत् किं तर्हि सविता सर्वस्य जगतः प्रेरकः सुपाणिः शोभनहस्त उत्पत्तिस्थितिकर्तृत्वात्तादृशो देवो द्योतमान इन्द्रोऽस्माननयत् । मेघभेदनं कृत्वोदकप्रेरणेन समुद्रमपुरयत् । तस्य तादृशसामर्थ्योपेतस्येन्द्रस्य प्रसवेऽभ्यनुज्ञायां वर्तमाना उर्वीरुदकईः प्रभूता वयं यामः । गच्छामः । न तव वचनादुपरमामहे । उक्तार्धं यास्को ब्रवीति । इन्द्रो अस्मानरदद्वज्रबाहू रदतिः खनतिकर्मापाहन्वृत्रं परिधिं नदीनानुति व्याख्यातम् । देवोऽनयत्सविता सुपाणिः कल्याणपाणीः । पाणीः पणाय पूजाकर्मणः प्रगृह्य पाणी देवान्पूजयन्ति । तस्य वयं प्रसवे याम उर्वीरुर्व्यः । नि. २-२६ । इति । आरदत् । रदतेर्लङि रूपम् । वज्रबाहुः । बहुव्रीहौ पूर्वपदस्वरः । आहन् । हन्तेर्लङि रूपम् । निघातः । परिधिम् । डुधाञ् धारण पोषणयोरित्यस्मात्कर्मण्युपसर्गे घोः किरिति किप्रत्ययः । आतो लोपः । कृदुत्तरपदस्वरः । अनयत् । नयतेर्लङि रूपम् । सुपाणीः । पण व्यवहारे स्तुतौ च । अशिपणाय्यो रुडायलुकौ च । उ. ४-१३२ । इतीण् । आयलुक् । बहुव्रीहौ नञ्सुभ्यामिति स्वरः । प्रसवे । षू प्रेरणे । ॠदोरबिति भावेऽप्रत्ययः । थाथघञ्क्तेत्युत्तरपदान्तोदात्तत्वम् । यामः । या प्रापण इत्यस्य लटी रूपम् । निघातः । उर्वीः । उरुशब्दाद्वोतो गुणवचनादिति ङीष् । वा छन्दसीति सवर्नदीर्घः । प्रत्ययस्वरः ॥ ६ ॥

3.33.7
प्र॒वाच्यं᳚ शश्व॒धा वी॒र्यं१॒᳚ तदिन्द्र᳚स्य॒ कर्म॒ यदहिं᳚ विवृ॒श्चत् ।
वि वज्रे᳚ण परि॒षदो᳚ जघा॒नाय॒न्नापो॑य᳚नमि॒च्छमा᳚नाः ॥
▶ पदपाठः (Word-by-word)
प्र॒॑वाच्य᳚म् । श॒श्व॒धा । वी॒र्य᳚म् । तत् । इन्द्र᳚स्य । कर्म᳚ । यत् । अहि᳚म् । वि॒॑वृ॒श्चत् ।
वि । वज्रे᳚ण । प॒रि॒॑सदः᳚ । ज॒घा॒न॒ । आय᳚न् । आपः᳚ । अय᳚नम् । इ॒च्छमा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयमिन्द्रोऽहिं मेघं विवृश्चत् उदकप्रेरणार्थं जघानेति यत्कर्मछेदनरूपं तदिदं तस्येन्द्रस्य वीर्यं सामर्थ्यं शश्वधा सर्वदा प्रवाच्यम् । प्रकर्षेण वचनीयम् । तथा स इन्द्रः परिषदः परितः सीदत आसीनान् प्रतिबन्धकारिणोऽसुरान् वज्रेण वि जघान । अथायनं स्थानमिच्छमाना इच्छन्त्य आप आयन् । यान्ति ॥ प्रावाच्यम् । वच परिभाषण इत्यस्मादृहलोर्ण्यदिति । ण्यत् णित्त्वादुपधावृद्धिः । वचोऽशब्द संज्ञायाम् । पा.७-३-६७ । इति कुत्वाभावः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा वाचयतेरचो यत् । यतोऽनाव इति स्वरः । शश्वधा । शश्वच्छब्धात्स्वार्थे धा प्रत्ययस्तकारलोपश्च द्रष्टव्यः । विवृश्चत् । ओव्रश्चू छेदने । तुदादिः । लङि ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । सह सुपेत्यत्र सहेति योगविभागात्समासः । समासस्वरः । परिषदः । क्विप् । संहितायां सदेरप्रतेरिति षत्वम् । जघान । हन्तेर्लिटि णलि रूपम् । निघातः । आयन् । अय गतावित्यस्य लङि रूपम् । पादादित्वादनिघातः । इच्छमानाः । इषु इच्छायामित्यस्माद्व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरे कृते प्रत्ययस्वरः ॥ ७ ॥

3.33.8 समानपद
ए॒तद्वचो᳚ जरित॒र्मापि᳚ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त᳚रा यु॒गानि᳚ ।
उ॒क्थेषु᳚ कारो॒ प्रति᳚ नो जुषस्व॒ मा नो॒ नि कः᳚ पुरुष॒त्रा नम᳚स्ते ॥
▶ पदपाठः (Word-by-word)
ए॒तत् । वचः᳚ । ज॒रि॒तः॒ । मा । अपि᳚ । मृ॒ष्ठाः॒ । आ । यत् । ते॒ । घोषा᳚न् । उत्॑त᳚रा । यु॒गानि᳚ ।
उ॒क्थेषु᳚ । का॒रो॒ इति᳚ । प्रति᳚ । नः॒ । जु॒ष॒स्व॒ । मा । नः॒ । नि । क॒रिति᳚ कः । पु॒रु॒ष॒॑त्रा । नमः᳚ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नद्यः प्रसङ्गादिन्द्रस्तोत्रं कृत्वा विश्वामित्रं प्रत्यूचुः । जरितः स्तोतर्हे विश्वामित्र ते त्वदीयं यत्संवादात्मकं वचस्त्वं नोऽभीत्या घोषानुद्घोषयन्वर्तसे तद्वचो मापि मृष्ठाः । मा विस्मार्षीः । किं कारणम् । उत्तरा युगान्युत्तरेषु याज्ञिकेषु युगेष्वहः सुक्थेषु कारो शस्त्रानां कर्तस्त्वं नोऽस्मान्प्रति जुषस्व संवादात्मकेन तेन वाक्येन प्रतिसेवस्व । इदानीं नोऽस्मान् पुरुपत्रा पुरुषेषु मानिकः । उक्तिप्रत्युक्तिरूपसंवादवाक्याध्यापनेन नितरां पुंवत् प्रागल्भ्यं मा कार्षीः । ते तुभ्यम् नमः ॥ मृष्ठाः । व्रश्चादिना षत्वम् । निघातः । घोषान् । घुषिर् संशब्दन इत्यस्य शतरि सर्वविधीनां छन्दसि विकल्पितत्वादतो गुण इति पररूपत्वाभावः । सवर्नदीर्घः । शतुर्लसार्वधातुकस्वरे कृते धातुस्वरः । युगानि । युजिर् योगे । उंछादिशु घञंतत्वेन निपातनादगुणत्वम् । विशिष्टविषयं च निपातनमिष्यते । कालविशेषे रथाद्युपकरणे चेति तत्र पाठादेवान्तोदात्तत्वम् । कालाध्वनोरत्यन्त संयोग इति द्वितीया कारो । करोतेः कृवापाजिमीत्यादिना उण्प्रत्ययः । आमन्त्रितत्वान्निघातः । कः । करोतेर्लुङे च्लेर्मन्त्रे घसेत्यादिना लुक् । हल्ङ्यादिना सिचो लोपः । न माङ्योग इत्यडभावः । पुरुषत्रा । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलमिति सप्तम्यर्थे त्राप्रत्ययः । प्रत्ययस्वरः ॥ ८ ॥

3.33.9
ओ षु स्व᳚सारः का॒रवे᳚ शृणोत य॒यौ वो᳚ दू॒रादन᳚सा॒ रथे᳚न ।
नि षू न᳚मध्वं॒ भव᳚ता सुपा॒रा अ᳚धोअ॒क्षाः सि᳚न्धवः स्रो॒त्याभि᳚ः ॥
▶ पदपाठः (Word-by-word)
ओ इति᳚ । सु । स्व॒सा॒रः॒ । का॒रवे᳚ । शृ॒णो॒त॒ । य॒यौ । वः॒ । दू॒रात् । अन᳚सा । रथे᳚न ।
नि । सु । न॒म॒ध्व॒म् । भव᳚त । सु॒॑पा॒राः । अ॒धः॒॑अ॒क्षाः । सि॒न्ध॒वः॒ । स्रो॒त्याभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रो नदीः प्रत्युवाच । स्वसारो भगिन्यः सिन्धवो हे नद्यः कारवेस्तोत्रं कुर्वाणस्य मम वचनं सु सुष्ठु ओ शृणोत । शृणुतैव । अनसा शकटेन रथेन च सह दूराद्विप्रकृष्टाद्देशाद्वो युष्मान्ययौ । प्राप्तोऽस्मि यूयं सु सुष्थु नि नमध्वम् । आत्मना स्वयं प्राह्वा भवत । तथा सुपाराः । रथादीनां तीरात्सुखेनावरोहणारोहणे यथा स्यातां तथा शोभनरोधसश्च भवत । किञ्च यूयं स्तोत्याभिः स्रवणशीलाभिरद्भिरधो अक्षा रथाङ्गस्याक्षस्याधस्ताद्भवत । यदापोऽक्षसाधस्ताद्भवन्ति तदा रथादीनि नेतुं शक्यन्ते । तस्मात्तत्परिमाणोदका भवतेत्यर्थाभिप्रायः ॥ ओ इति प्रगृह्यसंज्ञा । शृणोत । श्रु श्रवण इत्यस्य लोटि त प्रत्ययस्य तप्तनप्तनथानाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । ययौ । या प्रापण इत्यस्य भूतमात्रे लिट्युत्तमे णल्यात औणल इत्यौकारः । एकादेशस्वरः । वः । युश्मच्छब्दस्य द्वितीयाया बहुवचनस्य वस्नसाविति वसादेशः । षू । निपातस्येति संहितायां दीर्घः । नमध्वम् । णमु प्रह्वत्वे शब्दे चेत्यस्य कर्मकर्तरि न दुह्स्नु नमां यक्चिणाविति प्रतिषेधाद्यगभावः । अधो अक्शाः । अधरशब्दस्य पूर्वार्धरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययोऽधादेशश्च । अक्षशब्दोऽशू व्याप्तवित्यस्मादशेर्देवने । उ. ३-६५ । इति सप्रत्ययान्तः । कृदुत्तरपदप्रकृतिस्वरः । सिन्धवः । आमन्त्रितत्वान्निघातः । स्रोत्याभिः । स्रोतः शब्दात्स्रोतसो विभाषा ड्यडौड्यौ । पा. ४-४-११३ । इति ड्य प्रत्ययः । डित्त्वाट्टिलोपः । प्रत्ययस्वरः ॥ ९ ॥

3.33.10 समानपद
आ ते᳚ कारो शृणवामा॒ वचां᳚सि य॒याथ᳚ दू॒रादन᳚सा॒ रथे᳚न ।
नि ते᳚ नंसै पीप्या॒नेव॒ योषा॒ मर्या᳚येव क॒न्या᳚ शश्व॒चै ते᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । का॒रो॒ इति᳚ । शृ॒ण॒वा॒म॒ । वचां᳚सि । य॒याथ᳚ । दू॒रात् । अन᳚सा । रथे᳚न ।
नि । ते॒ । नं॒सै॒ । पी॒प्या॒ना॑इ᳚व । योषा᳚ । मर्या᳚य॑इव । क॒न्या᳚ । श॒श्व॒चै । त॒ इति᳚ ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

नद्यः पूर्वं विश्वामित्रवाक्यं प्रत्याख्यायानयर्चा तस्य वाक्यमाशुश्रुवुः । कारो स्तोत्रं कुर्वाण हे विशावित्र ते तव वचांसीमानि वाक्यान्या शृणवाम । षृणुमः । तव समीहितं प्रयोजन कुर्म इत्यर्थः । अनसा शकटेन रथेन च सह ययाथ । यतो दूरादागतोऽसि । वयं च ते त्वदर्थं नि नंस्यै । नीचैर्नमाम । प्रत्येकविवक्षयात्रैकवचनम् । रथेन गन्तुं गाधोदका भवामेत्यर्थः । तत्र दृष्टान्तः । पीप्यानेव योषा । पीप्याना पुत्रं स्तनं पाययन्ती योशा माता यथा प्रह्वीभवति । दृष्टान्तान्तरम् । यथा कन्या युवतिर्मर्यायेव मनुश्याय पित्रे भ्रात्रे वा शश्वचै परिषजनाय नम्रा भवति तद्वत्ते त्वदर्थं प्रह्वीभवादुः । ते इति पुनरुक्तिरादरार्थम् । एतामृचं यास्क एवं व्याचष्टे । आशृणवाम ते कारो वचनानि याहि दूरादनसा च रथेन च निनमाम ते पाययामानेव योषा पुत्रं मर्यायेव कन्या परिष्वजनाय निनमा इति वा । नि. २-२७ ॥ इति । कारो । संबुद्धौ शाकल्यस्येतौ । पा. १-१-१६ । इति प्रगृह्यसंज्ञा । शृणवाम । श्रु श्रवण इत्यस्य लोट्याडुत्तमस्य पिच्चेत्याडागमः । पित्त्वाद्गुनः । निघातः । ययाथ । या प्रापण इत्यस्य भुतमात्रे लिटि थल्येकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । लित्स्वरः । अनसा । सहार्थे तृतीया । नंस्यै । णमु प्रह्वत्व इत्यस्य लेट्युत्तमे लेटि सिब्बहुलमिति सिप् । वैतोऽन्यत्रेत्यैकारादेशः । निघातः । पीप्यानेव । पीङ् पान इत्यस्यान्तर्भावितण्यर्थस्य लिटि कानचि रूपम् । चित्स्वरः । योषा । यु मिश्रणे । वृतॄवदिहनीत्यादिना । उ. ३-६२ । सप्रत्ययः । यौतीति योषा । वृषादित्वादाद्युदात्तः । शश्वचै । श्वन्ज परिष्वङ्ग इत्यस्मात्संपदादिलक्शणो भावे क्विप् । पृषोदरादित्वादिष्टरूपसिद्धिरन्तोदात्तश्च ॥ १० ॥

3.33.11 समानपद
यद॒ङ्ग त्वा᳚ भर॒ताः सं॒तरे᳚युर्ग॒व्यन्ग्राम᳚ इषि॒त इन्द्र᳚जूतः ।
अर्षा॒दह᳚ प्रस॒वः सर्ग᳚तक्त॒ आ वो᳚ वृणे सुम॒तिं य॒ज्ञिया᳚नाम् ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒ङ्ग । त्वा॒ । भ॒र॒ताः । स॒म्॑तरे᳚युः । ग॒व्यन् । ग्रामः᳚ । इ॒षि॒तः । इन्द्र᳚॑जूतः ।
अर्षा᳚त् । अह᳚ । प्र॒॑स॒वः । सर्ग᳚॑तक्तः । आ । वः॒ । वृ॒णे॒ । सु॒॑म॒तिम् । य॒ज्ञिया᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रो नदीः प्रत्युवाच । अङ्गेत्यामन्त्रणे । हे नद्यो यद्यस्माद्युष्माभिरुत्तितीर्षोर्ममोत्तरणमभ्यनुज्ञातं तस्माद्भरता भरतकुलजा मदीयाः सर्वे त्वा परस्परमेकतामापन्नां नदीं त्वां सन्तरेयुः । स्म्यगुत्तीर्णा भवेयुः । तदेव विशिनष्टि । गव्यन् गा उदकानि तरीतुमिच्छन्निषितस्त्वयाभ्यनुज्ञात इन्द्रजूतो युश्माकं प्रवर्तकेनेन्द्रेण च प्रेरितो ग्रामो भरतानां संघोऽर्षात् । सन्तरेत् । यतः सर्गतक्तो गमनाय प्रवृत्तः प्रसवस्तेषामुद्योगोऽह पूर्वं युष्माभिरनुज्ञातः । अहं तु यज्ञयानां यज्ञार्हाणां वो युश्माकं सुमतिं शोभनां स्तुतिमावृणे । सर्वतः सम्भजे । भरताः । भरतशब्दादुत्सादित्वादञ् । तस्य यञञोश्चेति लुक् । अतच् प्रत्ययस्वरः । सन्तरेयुः । तरतेर्लिङि जुसि रूपम् । झेर्लसार्वधातुकस्वरे धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । गव्यन् । गा आत्मन इच्छन् । सुपः क्यच् । एकादेशस्वरः । ग्रामः । ग्रसतेरा च । उ. १-१४२ । इति मन्प्रत्यय आकारादेशश्च । नित्स्वरः । इन्द्रजूतः । जू इति सौत्रो धातुर्गत्यर्थः । श्र्युकः कितीति निश्ठायामिट् प्रतिषेधः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । अर्षात् । ऋ गतावित्यस्य लेटि तिपि सिब्बहुलमिति सिप् । लेटोऽडागमः । एकाच इतीट् प्रतिषेधः । गुणः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः वृणे । वृङ् सम्भक्तावित्यस्य लटि रूपम् । यज्ञियानां यज्ञ्र्त्विग्भ्यां घखञाविति घप्रत्ययः । प्रत्ययस्वरः ॥ ११ ॥

3.33.12
अता᳚रिषुर्भर॒ता ग॒व्यव॒ः समभ᳚क्त॒ विप्र᳚ः सुम॒तिं न॒दीना᳚म् ।
प्र पि᳚न्वध्वमि॒षय᳚न्तीः सु॒राधा॒ आ व॒क्षणा᳚ः पृ॒णध्वं᳚ या॒त शीभ᳚म् ॥
▶ पदपाठः (Word-by-word)
अता᳚रिषुः । भ॒र॒ताः । ग॒व्यवः᳚ । सम् । अभ᳚क्त । विप्रः᳚ । सु॒॑म॒तिम् । न॒दीना᳚म् ।
प्र । पि॒न्व॒ध्व॒म् । इ॒षय᳚न्तीः । सु॒॑राधा᳚ । आ । व॒क्षणाः᳚ । पृ॒णध्व᳚म् । या॒त । शीभ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गव्यवो गा आत्मन इच्छन्तो भरता भरतकुलजाः सर्वेऽतारिषुः । तां नदीं समतरन् । विप्रो मेधावी विश्वामित्रो नदीनां सुमतिं शोभनां स्तुतिं समभक्त । समभजत । यूयं तु यथा पूर्वमिषयन्तीः कुल्यादिद्वारान्नं कुर्वाणा अत एव सुराधाः शोभनधनोपेता यूयं वक्शणाः कृत्रिमसरितः कुल्याः प्र पिन्वध्वम् । प्रकर्षेण तर्पयत । आ पृणध्वम् । ताः सर्वतः पूरयत च । शीभं शीघ्रं यात । गच्छत च ॥ अतारिषुः । तॄ प्लवनतरणयोरित्यस्य लुङे सिचि वृद्धिः परस्मैपदेष्विति वृद्धिः । अडागमस्वरः । गव्यवः । सुपः क्यच् । क्याच्छन्दसीत्युप्रत्ययः । तस्य स्वरः । अभक्त । भज सेवायामित्यस्य लुङे सिचो झलो झलीति लोपः । सादादित्वादनिघातः । पिन्वध्वम् । पिविसेचन इत्यस्य लोटि रूपम् । निघातः । इषयन्तीः । इषं कुर्वत्यः । तत्करोतीति णिच् । णाविष्ठवत्प्रातिपदिकस्येतीष्थवद्भावाट्टेरिति टिलोपः । वा छन्दसीति सवर्णदीर्घः । प्रत्ययस्वरः । पृणध्वम् । पृण प्रीणने । लोटि रूपम् । व्य्व्त्ययेनात्मनेपदम् । व्याक्यभेदादनिघातः । यात । या प्रापण इत्यस्य लोटि रूपम् । आत्रापि न निघातः । शीभम् । शीघृ कत्थने । श्लाघ्यतेऽनेन तद्वानिति करणे घञ् । ञित्स्वरः ॥ १२ ॥

3.33.13
उद्व᳚ ऊ॒र्मिः शम्या᳚ ह॒न्त्वापो॒ योक्त्रा᳚णि मुञ्चत ।
मादु᳚ष्कृतौ॒ व्ये᳚नसा॒घ्न्यौ शून॒मार᳚ताम् ॥
▶ पदपाठः (Word-by-word)
उत् । वः॒ । ऊ॒र्मिः । शम्याः᳚ । ह॒न्तु॒ । आपः᳚ । योक्त्रा᳚णि । मु॒ञ्च॒त॒ ।
मा । अदुः᳚॑कृतौ । वि॑ए᳚नसा । अ॒घ्न्यौ । शून᳚म् । आ । अ॒र॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमुत्तितीर्शुर्विश्वामित्रो नदीरुक्त्वाधुनोत्तितीर्षुः पुनराह । हे नद्यो वो युष्माकमूर्मिस्तरङ्गः शम्या युगकीला युग्यकटपार्श्वादिसंलग्नारज्जव उदूर्ध्वं यथा भवन्ति तथा हन्तु । गच्छतु । स तरङ्गो रज्जूनामधो गच्छत्वित्यभिप्रायः । तथा हे आपो यूयं योक्राणि ता रज्जूर्मुञ्चत । यथा न स्पृशन्ति तथा यान्त्वित्यभिप्रायः । व्येनसा विगतपापे आत एवादुष्कृतौ कल्याणकर्मकारिण्यौ अघ्न्यावघ्न्ये न केनापि तिरस्करणिये विपाट्छुतद्रौ शूनं समृद्धिं मारताम् । आगच्छताम् । एवं विश्वामित्रो नदीः स्तुत्वा ताभिरनुज्ञातोऽतरदिति ॥ ऊर्मिः । ऋ गतौ अर्तेरूच्चेति मिप्रत्ययः । ऊरित्ययमादेशो धातोः ऋच्छतीत्यूर्मिः प्रत्ययस्वरः । शम्याः । शमु उपरमे पोरदुपधादिति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वम् । हन्तु हन हिम्सागत्योरित्यस्य लोटि रूपम् । निघातः । योक्त्राणि युजिर् योगे । करणे दाम्नीशसयुयुजेत्यादिना ष्ट्रन्प्रत्ययः । नित्स्वरः । मुञ्चत मुच्लृ मोक्शणे । निघातः । अदुष्कृतौ । इसुसोः सामर्थ्य इति विसर्जनीयस्य षत्वं व्येनसा बहुव्रीहौ पुर्वपदस्वरः । सुपो डादेशः । आघ्न्यौ । हन हिम्सागत्योरित्यस्य नञ्पूर्वस्याघ्न्यादयश्चेति निपातनाद्यक् । कित्त्वादुपधाऊपः । हो हन्तेरिति घत्वम् । सर्वविधीनां छन्दसि विकल्पितत्वादत्रौञः शीभावाभावः । एकादेशस्वरः । शूनम् । श्वयतेर्नपुंसके भावे क्त इति क्तः । यजादित्तात्संप्रसारनम् । हल इति दीर्घत्वं ओदितश्चेति निष्ठानत्वम् । निष्ठा च द्व्यजनादित्याद्युदात्तः । अरताम् । ऋ गतावित्यस्य लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । ऋदृशोऽङि गुणः । नमाङ्योग इत्यडभावः निघातः ॥ १३ ॥