तृतीयं मण्डलम् - सूक्तम् 27

15 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: ऋतव अग्निर्वा छन्दः: गायत्री

सूक्तम् 3.27 - सम्पूर्णम्

1 / 15
ऋक्: 3.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
3.27.1
प्र वो॒ वाजा᳚ अ॒भिद्य᳚वो ह॒विष्म᳚न्तो घृ॒ताच्या᳚ ।
दे॒वाञ्जि᳚गाति सुम्न॒युः ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । वाजाः᳚ । अ॒भि॑द्य᳚वः । ह॒विष्म᳚न्तः । घृ॒ताच्या᳚ ।
दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋतवो वाजाः । वजन्ति गच्छन्तीति वाजा मासाः । अभिद्यवः । अभितोद्यवो दिवसा येष्वित्यभिद्यवोऽर्धमासाश्च । हविष्मन्तो हविर्भाजो देवाः । घृताज्या । घृतमञ्चतीति घृताची गौः । तथा च तैत्तिरीयकम् । देवा हविष्मन्तो गौर्घृताची । तै. सम्. २-५-७-४ । इति । यद्वा । हविष्मन्तो हविषः क्षीरादेः प्रदातारः पशवो घृताच्या । घृतमञ्चति प्राप्नोतीति घृताची स्रुक् । तथा च वाजसनेयकम् । पशवो हविष्मन्तः । स्रुग्घृताचीति । तया घृताच्या सहिता हविष्मन्तो देवाः पशवश्च मासाश्चार्धमासाश्चेति सर्वे वो युष्माकं यजनार्थं प्रभवन्ति । तेषु वाजादिषु प्रभवत्सु सत्सु सुम्नयुः सुखमात्मन इच्छन्यजमानो देवाञ्जुगाति । यज्ञद्वारा देवान्प्रप्नोति । उक्तार्थे तैत्तिरीयब्राह्मणम् । प्र वो वाजा इत्यन्वाह मासा ऐ वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर्घृताची यज्ञो देवाञ्जुगाति यजमानः सुम्नयुः । (तै. सं. २-५-२-४) । इति अभिद्यवः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । घृताच्या । घृ क्षरणदीप्त्योः । अस्मादञ्जिघृषिभ्यः क्तः । उ. ३-८९ । इति कर्मणि क्तः । घृतमाज्यमञ्जतीत्यृत्विग्दधृगित्यादिना क्विन् । अनिदितामित्युपधालोपः । अञ्चतेश्चोप संख्यानमिति ङीप् । चाविति पूर्वपदान्तोदात्तत्वम् । जिगाति । गातिर्गत्यर्थः । छान्दसो जुहोत्यादिः । निघातः । सुम्नयुः । सुम्नं सुखमात्मन इच्छन्निति सुप आत्मनः क्यच् । क्याच्छन्दसीत्युः । प्रत्यय स्वरः ॥ १ ॥

3.27.2
ईळे᳚ अ॒ग्निं वि᳚प॒श्चितं᳚ गि॒रा य॒ज्ञस्य॒ साध᳚नम् ।
श्रु॒ष्टी॒वानं᳚ धि॒तावा᳚नम् ॥
▶ पदपाठः (Word-by-word)
ईळे᳚ । अ॒ग्निम् । वि॒पः॒॑चित᳚म् । गि॒रा । य॒ज्ञस्य᳚ । साध᳚नम् ।
श्रु॒ष्टी॒॑वान᳚म् । धि॒त॑वा᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विपश्चितं मेधाविनं यज्ञस्य साधनं यज्ञस्य निर्वाहकं श्रुष्टीवानं सुखवन्तं यद्वा वेगवन्तं धितावानम् । वानं वननीयं धनं धितं निहितं यस्य तं हिहितधनम् । तमिममग्निं गिरा स्तुतिलक्षणया वाचेळे । विश्वामित्रोऽहं स्त्ॐइ । ईळे । ईड स्तुतौ । श्रुष्टीवानम् । वन षण सम्भक्तावित्यस्माद्विच् । श्रुष्टी वनतीति श्रुष्टीवा । कृदुत्तरपदस्वरः । धितावानम् । दधातेर्निष्ठायां धिरादेशश्छान्दसः । वन सम्भक्तौ । कर्मणि घञ् । बहुव्रीहौ निष्ठेति धितशब्दस्य पूर्वनिपातः । पूर्वपदप्रकृतिस्वरः ॥ २ ॥

3.27.3
अग्ने᳚ श॒केम᳚ ते व॒यं यमं᳚ दे॒वस्य᳚ वा॒जिनः᳚ ।
अति॒ द्वेषां᳚सि तरेम ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । श॒केम᳚ । ते॒ । व॒यम् । यम᳚म् । दे॒वस्य᳚ । वा॒जिनः᳚ ।
अति᳚ । द्वेषां᳚सि । त॒रे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वाजिनः सम्भृत हविष्का वयं देवस्य द्योतमानस्य ते तव यमं यमनमा यज्ञसमीप्तेरत्रावस्थानं कर्तुं शकेम । शक्यास्म । वाजिनो वेगवतो देवस्येति वा योजनीयम् । ततः कारणात् द्वेषांस्यस्मदीयानि पापान्यतितरेम । पापेभ्य उत्तीर्णा भवेम ॥ शकेम । शक् लृ शक्तावित्यस्याशीर्लिङे लिङ्याशिष्य ङ्गेत्यङ् प्रत्ययः । किदाशिषीति यासुट् । सलोपेयादेशयलोपगुणसलोपाः । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । उदात्तनिवृत्तिस्वरः । यमं यम उपरम इत्यस्माद्भावे घङ् । यम उपरम इतिनिपादनाद्वृद्ध्यभावः । ञित्स्वरः । तरेम । शॄप्लवनतरणयोः । प्रार्थने लिङे रूपम् । निघातः ॥ ३ ॥

3.27.4
स॒मि॒ध्यमा᳚नो अध्व॒रे॒३॒᳚॑ग्निः पा᳚व॒क ईड्य᳚ः ।
शो॒चिष्के᳚श॒स्तमी᳚महे ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इ॒ध्यमा᳚नः । अ॒ध्व॒रे । अ॒ग्निः । पा॒व॒कः । ईड्यः᳚ ।
शो॒चिः॑के᳚शः । तम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निरध्वरे यज्ञे समिध्यमानो घृताज्याहुतिभिः सम्यक् प्रज्वाल्यमानोऽत एव शोचिष्केशो ज्वाकेशः पावकः शोधक ईड्यः स्तोतृभिः प्रशस्यो भवति तमिममभिमतफलार्थमीमहे । वयं याचामहे ॥ ईड्यः । ईड स्तुतावित्यस्माण्ण्यत् । अस्य तित्स्वरितमिति स्वरितत्वे प्राप्त ईडवन्देत्यादिनाद्युदत्तत्वम् । ईमहे । ई कान्त्यादिषु । अयं धातुरत्र याज्ञार्थः । निघातः ॥ ४ ॥

3.27.5
पृ॒थु॒पाजा॒ अम᳚र्त्यो घृ॒तनि᳚र्णि॒क्स्वा᳚हुतः ।
अ॒ग्निर्य॒ज्ञस्य᳚ हव्य॒वाट् ॥
▶ पदपाठः (Word-by-word)
पृ॒थु॒॑पाजाः᳚ । अम᳚र्त्यः । घृ॒त॑नि᳚र्निक् । सु॑आ᳚हुतः ।
अ॒ग्निः । य॒ज्ञस्य᳚ । ह॒व्य॒॑वाट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृथुपाजाः प्रभूततेजोरुपोऽमर्त्यो मरणधर्मरहितो घृतनिर्णिक् । घृतस्य विलयनद्वारा शोधनं येनेति घृतनिर्णिक् । स्वाहुतः सुष्ठु होत्रादिभिः सम्यगिष्टः । एवं भूतोग्निर्यज्ञस्य ज्योतिष्टोमादेर्हव्यवाट् हव्यानां वोढा भवति ॥ पृथुपाजाः । कृदुत्तरपदस्वरः । स्वाहुतः । जुहोतेः कर्मणि क्तः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । हव्यवाट् । वहश्चेति ण्विः ॥ ५ ॥

3.27.6
तं स॒बाधो᳚ य॒तस्रु᳚च इ॒त्था धि॒या य॒ज्ञव᳚न्तः ।
आ च᳚क्रुर॒ग्निमू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । स॒॑बाधः᳚ । य॒त॑स्रु᳚चः । इ॒त्था । धि॒या । य॒ज्ञ॑व᳚न्तः ।
आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सबाधः । रक्षोघ्न मन्त्रोच्चारणेन तद्विषयबाधा सह वर्तन्त इति सबाधः । यज्ञवन्तो यजनीयहविर्युक्ता यतस्रुचः । यताः संयताः स्रुचो जुह्वाद्यायैस्ते यतस्रुचः । ऋत्विजः । इत्थेत्थमनेन प्रकारेण क्रियमाणया धिया स्तुत्या तमेवम्भूतमग्निमूतये राक्षबाधाद्रक्षणाय आ अभिमुखं चक्रुः । कुर्वन्ति ॥ सबाधः । बाधृ विलोडन इत्यस्मात् क्विप् । कृदुत्तरपदस्वरः । इत्था । इदंशब्दात्प्रकारार्थ इदमस्थमुः । तस्य सुपां सुलुगिति डादेशः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । चक्रुः । डुकृञ् करण इत्यस्य लिट्युसि यणादेशे कृते तस्य द्विर्वचनेऽचीति स्थानिवद्भावाद्द्विर्वदनम् । निघातः ॥ ६ ॥

3.27.7
होता᳚ दे॒वो अम᳚र्त्यः पु॒रस्ता᳚देति मा॒यया᳚ ।
वि॒दथा᳚नि प्रचो॒दय᳚न् ॥
▶ पदपाठः (Word-by-word)
होता᳚ । दे॒वः । अम᳚र्त्यः । पु॒रस्ता᳚त् । ए॒ति॒ । मा॒यया᳚ ।
वि॒दथा᳚नि । प्र॒॑चो॒दय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता होमनिष्पादकोऽमर्त्यो मरणधर्मरहितो देवो द्योतमानो विदथानि वेदितव्यानि कर्माणि प्रचोदयन् प्रकर्षेण प्रेरयन् सोऽग्निर्मायया कर्मविषयाभिज्ञानेन युक्तः सन् पुरस्तात्कर्मप्रारम्भकाल एवैति । अस्मानागच्छति । मायया । माङ् माने शब्दे चेत्यस्माच्छाससिसूभ्यो य इति कर्तरि कर्मणि वा यप्रत्ययः । मिमीते जानीते कर्म मीयतेऽनयेति वा माया कर्मविषयज्ञानम् । प्रत्ययस्वरः । विदथानि । विद ज्ञान इत्यस्माद्रुदिविदिभ्यां किदिति कर्मण्यथप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः ॥ ७ ॥

3.27.8
वा॒जी वाजे᳚षु धीयते॑ध्व॒रेषु॒ प्र णी᳚यते ।
विप्रो᳚ य॒ज्ञस्य॒ साध᳚नः ॥
▶ पदपाठः (Word-by-word)
वा॒जी । वाजे᳚षु । धी॒य॒ते॒ । अ॒ध्व॒रेषु᳚ । प्र । नी॒य॒ते॒ ।
विप्रः᳚ । य॒ज्ञस्य᳚ । साध᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजी बलवानग्निर्वाजेषु युद्धेषु धीयते । देवैः शत्रुहननार्थं निधीयते । किञ्च । अध्वरेष्वग्निहोत्रादिषु प्रणीयते । अध्वर्व्यादिभिः प्रकर्षेणाहवनीयादिस्थानेषु प्रक्षिप्यते । अत एव विप्रोमेधावी सन्नग्निर्यज्ञस्याग्नि होत्रादेः साधनः साधको भवति ॥ धीयते । दधातेः कर्मणि यक् । घुमास्थागापेत्यादिना ईत्वम् । निघातः । नीयते । णिञ् प्रापण इत्यस्य कर्मणि यकि रूपम् । उपसर्गादसमासेऽपि णोपदेशस्येति णत्वम् । साधनः । साध सम्सिद्धौ । नन्द्यादित्वात्कर्तरि ल्युः । लित्स्वरः ॥ ८ ॥

3.27.9
धि॒या च᳚क्रे॒ वरे᳚ण्यो भू॒तानां॒ गर्भ॒मा द᳚धे ।
दक्ष᳚स्य पि॒तरं॒ तना᳚ ॥
▶ पदपाठः (Word-by-word)
धि॒या । च॒क्रे॒ । वरे᳚ण्यः । भू॒ताना᳚म् । गर्भ᳚म् । आ । द॒धे॒ ।
दक्ष᳚स्य । पि॒तर᳚म् । तना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्धियाधानपवमानेष्टिरूपेण कर्मणा चक्राआहवनीयरूपतया कृतोऽभूत् अत एव वरेण्यः सर्वैर्यजमानैः कर्माङ्गत्वेन वरणियः यश्चाग्निर्भूतानां स्थावरजङ्गमात्मकानां भुतजातानामन्तर्गर्भं स्वात्मानमेव गर्भरूपतया आदधे सर्वत्र दधार पितरं सर्वस्य जगतः पालकं तमिममग्निं दक्षस्य दक्षपजापतेस्तना तनया वेदिरूपा भूमिर्दशपूर्णमासाग्निहोत्रादिकर्मसिद्ध्यर्थं धारयति । भूमेर्दक्षदुहितृत्वे मन्त्रवर्णः । आदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । ऋग्वे. १०-७२-५ । इति । चक्ते । करोतेः कर्मणि लिटि रूपम् । गर्भम् । गृ निगरण इत्यस्मादर्तिगृभ्यां भन्निति भन् । तिरति गीर्यते वा गर्भः । नित्त्वादाद्युदात्तः । दधे । दधात्र्र्लिटि रूपम् । पितरम् । पा रक्षणे । नप्तृनेष्टृ इत्यादिना तृजन्तत्वेन निपातनादित्वम् । पाति पालयतीति पिता पालकः । चित्स्वरः । तना । यलोपच्छान्दसः ॥ ९ ॥

3.27.10
नि त्वा᳚ दधे॒ वरे᳚ण्यं॒ दक्ष᳚स्ये॒ळा स᳚हस्कृत ।
अग्ने᳚ सुदी॒तिमु॒शिज᳚म् ॥
▶ पदपाठः (Word-by-word)
नि । त्वा॒ । द॒धे॒ । वरे᳚ण्यम् । दक्ष᳚स्य । इ॒ळा । स॒हः॒॑कृ॒त॒ ।
अग्ने᳚ । सु॒॑दी॒तिम् । उ॒शिज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तार्थोऽनयर्चा विव्रियते । सहस्कृत मथनाख्येन बलेन नोष्पन्न हे अग्ने सुदीतिं शोभनदीप्तियुक्तमुशिजं पुरोडाशादि हविः कामयमानम् । यद्वा कर्मार्थिभिः काम्यमानम् । अत एव वरेण्यं तैर्वरणीयं त्वा एवं विधं त्वां दक्षस्य दुहितेळा वेद्यादिलक्षणा भूमिर्नि दधे । अग्निहोत्रादिकर्मसमृध्यर्थं नितरां दधार ॥ इळा । ईड स्तुतौ । पुम्सि संज्ञायामित्यत्र प्रायिकवचनात् स्त्र्यर्थेऽपि घत्पत्यः । ह्रस्वश्छान्दसः । संज्ञापूर्वकस्य विधेरनित्यत्वादगुणः ईड्यन्ते सुयन्तेऽस्यां यजमानैर्देवा इतीळा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । प्रत्ययस्वरः । उशिजम् । वश कान्तावित्यस्माद्वशः किच्चेतीजिप्रत्ययः । कित्त्वात्सम्प्रसारणम् । वष्टि हविः कामयते उश्यते काम्यते कर्मार्थिभिरिति वा उशिक् अग्निः । प्रत्ययस्वरः ॥ १० ॥

3.27.11
अ॒ग्निं य॒न्तुर᳚म॒प्तुर᳚मृ॒तस्य॒ योगे᳚ व॒नुषः᳚ ।
विप्रा॒ वाजै॒ः समि᳚न्धते ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । य॒न्तुर᳚म् । अ॒प्॑तुर᳚म् । ऋ॒तस्य᳚ । योगे᳚ । व॒नुषः᳚ ।
विप्राः᳚ । वाजैः᳚ । सम् । इ॒न्ध॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनुषः कर्मसिद्ध्यर्थं सम्भजमाना विप्रा मेधाविनोऽध्वर्व्यादयो यन्तुरं सर्वस्य नियन्तारम् । यद्वा क्षिप्रं तन्तारम् । अप्तुरमपां प्रेरकं तमिममगिन्मृतस्य सत्यभूतस्य ज्योतिष्टोमादेर्योगे प्रयोगार्थं वाजैर्हविलक्षणैरन्नैः समिन्धते । सम्यग्दीपयन्ति ॥ यन्तुरम् । वर्णव्यत्ययः । यन्तारमित्यर्थम् । अप्तुरम् । तुर त्वरणे । अपस्तुतोर्ति त्वरयतीति क्विप् । कृदुत्तरपदप्रकृतिस्वरः । योगे । युजिर् योगे । भावे घञ् । चजोः कु घिण्ण्यतोरिति कुत्वं ञित्स्वरः । वनुषः वन षण सम्भक्तौ । जनेरुसिरित्यधिकारे बहुलवचनादस्मादप्युसिः । प्रत्ययस्वरः । इन्धते । ञे इन्धी दीप्तौ । निघातः ॥ ११ ॥

3.27.12
ऊ॒र्जो नपा᳚तमध्व॒रे दी᳚दि॒वांस॒मुप॒ द्यवि᳚ ।
अ॒ग्निमी᳚ळे क॒विक्र᳚तुम् ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्जः । नपा᳚तम् । अ॒ध्व॒रे । दी॒दि॒॑वांस᳚म् । उप᳚ । द्यवि᳚ ।
अ॒ग्निम् । ई॒ळे॒ । क॒वि॑क्र᳚तुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊज्रो नपातं हविर्लक्षणैरन्नैः समिध्यमानत्वेनान्नस्य पुत्रम् । यद्वान्नस्य चतुर्थम् । यथान्नादाहुतिराहुतेरादित्य आदित्यादग्निरिति । उपद्यव्यन्तरिक्षस्य समीपे दीदिवाम्समतिशयेन दीप्यमानं कविक्रतुम् । कवयो मेधाविनोऽध्वर्य्वादयो मथनेन क्रतवः कर्तारो यस्येति । अध्वर्यादिभिर्निष्पाद्यमानं तमिममग्नि मध्वरेऽस्मिन् यज्ञ ईळे । स्तुतिलक्षणाभिर्गीर्भिरहं स्तुमि ॥ ऊर्जः । ऊर्ज बल इत्यस्माद्भ्राजभासेत्यादिना ताच्छीलिकः क्विप् । ऊर्जयति शरीरमित्य़्र्क् अन्नम् । सावेकाच इति विभक्तेरुदात्तत्वम् । च्यवि । द्युत दीप्तावित्यस्मादौणादिको डुन्प्रत्ययः । द्योतते किरणसम्बन्धादिति द्युरन्तरिक्षम् । नित्स्वरः । ईळे । लिटि रूपं ॥ १२ ॥

3.27.13
ई॒ळेन्यो᳚ नम॒स्य᳚स्ति॒रस्तमां᳚सि दर्श॒तः ।
सम॒ग्निरि᳚ध्यते॒ वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
ई॒ळेन्यः᳚ । न॒म॒स्यः᳚ । ति॒रः । तमां᳚सि । द॒र्श॒तः ।
सम् । अ॒ग्निः । इ॒ध्य॒ते॒ । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईळेन्यः त्तोतृभिरीड्योऽत एव नमस्यः सर्वैर्नमस्कार्यस्तमांसि तिरोध्वान्तानि स्वप्रभाभिस्तिरस्कुर्वन् दर्शतः कमनीयतया सर्वैर्दर्शनीयः । तादृशोऽग्निर्वृषा यजमानस्य कामानां वर्षिता समिध्यते । आहुतिप्रक्षेपेण प्रज्वाल्यते । उक्तार्थे वाजसनेयकम् । ईडेन्योह्येष नमस्यो ह्येष तिरस्तमांसि ददृशे समिद्ध इति ॥ ईळेन्यः । ईड स्तुतौ । कृत्यार्थे तवैकेन्केन्यत्वन इति केन्यः । प्रत्ययस्वरः । दर्शतः । दृशिर् प्रेक्षणे । अस्माद्भृमृदृशीत्यादिना कर्मण्यतच् प्रत्ययः । चित्स्वरः । वृषा । वृषा सेचन इत्यस्मात्कनिन्युवृषीत्यदिना कनिन् । कित्त्वादगुणः । नित्त्वादाद्युदात्तः ॥ १३ ॥

3.27.14
वृषो᳚ अ॒ग्निः समि᳚ध्य॒ते॑श्वो॒ न दे᳚व॒वाह᳚नः ।
तं ह॒विष्म᳚न्त ईळते ॥
▶ पदपाठः (Word-by-word)
वृषो॒ इति᳚ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः᳚ । न । दे॒व॒॑वाह᳚नः ।
तम् । ह॒विष्म᳚न्तः । ई॒ळ॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषो वृषैव कामानां वर्षिता देववाहनः । देवान् हवींषि वाहयति प्रपयतीति देववाहनः । तत्र दृष्टान्तः । अश्वो नेति । यथाश्वो राजानं वाहयति स्वपुरम् प्रापयतीति । वाहनमश्वः । तद्वत् वाहनभूतो योऽग्निः समिध्यते आहुतिप्रादानेन सम्यग्दीप्यते । तं तादृशमग्निं हविष्मन्तः सम्भृत हविष्का यजमाना ईळते । कर्मसिद्ध्यर्थं स्तुवन्ति ॥ वृषा उ । गुणः । उञमवलम्ब्य प्रगृह्यसंज्ञा । देववाहनः । वह प्रापण इत्यस्माण्ण्यन्तात्कर्तरि ल्युः । लित्स्वरः । समासे कृदुत्तरपदस्वरः ॥ १४ ॥

3.27.15
वृष᳚णं त्वा व॒यं वृ᳚ष॒न्वृष᳚ण॒ः समि᳚धीमहि ।
अग्ने॒ दीद्य᳚तं बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
वृष᳚णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष᳚णः । सम् । इ॒धी॒म॒हि॒ ।
अग्ने᳚ । दीद्य᳚तम् । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषन् कामानां वर्षितर्हे अग्ने वृषणो वृषाणो घृताज्याहुतीनां सेक्तारो वयं वृषणमाहुतिद्वारोदकस्य सेक्तारम् । तथा च स्मृतिः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु. ३-७६ । इति दीद्यतं दीप्यमानं बृहदत एव महान्तं तमिममग्निं समिधीमहि । सम्यग्दीपयामः ॥ इधीमहि । ञि इन्धी दीप्तावित्यस्य प्रार्थने लिङि नकारलोपश्छान्दसः । निघातः । दीद्यतम् । दीदेतिर्दीप्तिकर्मा । तस्य शतरि रूपम् । अभ्यस्तानामादिरित्याद्युदात्तत्त्वम् । ॥ १५ ॥