श्रवणम्

3.27.9
धि॒या च᳚क्रे॒ वरे᳚ण्यो भू॒तानां॒ गर्भ॒मा द᳚धे ।
दक्ष᳚स्य पि॒तरं॒ तना᳚ ॥
▶ पदपाठः (Word-by-word)
धि॒या । च॒क्रे॒ । वरे᳚ण्यः । भू॒ताना᳚म् । गर्भ᳚म् । आ । द॒धे॒ ।
दक्ष᳚स्य । पि॒तर᳚म् । तना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्धियाधानपवमानेष्टिरूपेण कर्मणा चक्राआहवनीयरूपतया कृतोऽभूत् अत एव वरेण्यः सर्वैर्यजमानैः कर्माङ्गत्वेन वरणियः यश्चाग्निर्भूतानां स्थावरजङ्गमात्मकानां भुतजातानामन्तर्गर्भं स्वात्मानमेव गर्भरूपतया आदधे सर्वत्र दधार पितरं सर्वस्य जगतः पालकं तमिममग्निं दक्षस्य दक्षपजापतेस्तना तनया वेदिरूपा भूमिर्दशपूर्णमासाग्निहोत्रादिकर्मसिद्ध्यर्थं धारयति । भूमेर्दक्षदुहितृत्वे मन्त्रवर्णः । आदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । ऋग्वे. १०-७२-५ । इति । चक्ते । करोतेः कर्मणि लिटि रूपम् । गर्भम् । गृ निगरण इत्यस्मादर्तिगृभ्यां भन्निति भन् । तिरति गीर्यते वा गर्भः । नित्त्वादाद्युदात्तः । दधे । दधात्र्र्लिटि रूपम् । पितरम् । पा रक्षणे । नप्तृनेष्टृ इत्यादिना तृजन्तत्वेन निपातनादित्वम् । पाति पालयतीति पिता पालकः । चित्स्वरः । तना । यलोपच्छान्दसः ॥ ९ ॥