तृतीयं मण्डलम् - सूक्तम् 59

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: मित्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.59 - सम्पूर्णम्

1 / 9
ऋक्: 3.59.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.59.1 समानपद
मि॒त्रो जना᳚न्यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रः कृ॒ष्टीरनि᳚मिषा॒भि च᳚ष्टे मि॒त्राय᳚ ह॒व्यं घृ॒तव᳚ज्जुहोत ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । जना᳚न् । या॒त॒य॒ति॒ । ब्रु॒वा॒णः । मि॒त्रः । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
मि॒त्रः । कृ॒ष्टीः । अनि᳚॑मिषा । अ॒भि । च॒ष्टे॒ । मि॒त्राय᳚ । ह॒व्यम् । घृ॒त॑व᳚त् । जु॒हो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रुवाणः स्तूयमानः शब्दं कुर्वाणो वा मित्रः । प्रकर्षेण सर्वैर्मीयते ज्ञायते तथा सर्वान्वृष्टिप्रदानेन त्रायत इति वा मित्रः सूर्यः । जनान् कर्षकादिजनान्यातयति । कृष्यादिकर्मसु प्रयत्नं कारयति । तथा मित्र एव पृथिवीमुतापि च द्यामेतावुभौ लोकौ वृष्टिद्वारान्नं यागांश्च जनयन् दाधार । धारयति । तथा सति मित्रोऽनिमिषानिमेषाणानुग्रहदृष्ट्या कृष्टीः कर्मवतो मनुष्यानभि चष्टे । सर्वतः पश्यति । एतत्सर्वं ज्ञात्वा हे ऋत्विजो घृतवदुपस्तरणाभिघारनयुक्तं हव्यं हवनयोग्यं पुरोडाशादिकं तस्मै मित्राय देवाय जुहोत । जुहुत । प्रयच्छतेत्यर्थः । उक्तार्थं यास्को ब्रवीति । मित्रो जनान्यातयति ब्रुवाणः शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिवं च । मित्रः कृष्टीरनिमिषन्नभिपश्यतीति । कृष्तय इति मनुष्यनाम कर्मवन्तो भवन्ति विकृष्टदेहा वा । मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातम् । जुहोतिर्दानकर्मा । नि. १०-२२ । इति यातयति । यती प्रयत्न इत्यस्य ण्यन्तस्य लटि रूपम् । दधार । तुजादीनामित्यभ्यासस्य दीर्घः । जुहोत । जुहोतेर्लोटि प्रत्ययस्य तबादेशः । गुणः । निघातः ॥ १ ॥

3.59.2
प्र स मि᳚त्र॒ मर्तो᳚ अस्तु॒ प्रय᳚स्वा॒न्यस्त᳚ आदित्य॒ शिक्ष᳚ति व्र॒तेन᳚ ।
न ह᳚न्यते॒ न जी᳚यते॒ त्वोतो॒ नैन॒मंहो᳚ अश्नो॒त्यन्ति᳚तो॒ न दू॒रात् ॥
▶ पदपाठः (Word-by-word)
प्र । सः । मि॒त्र॒ । मर्तः᳚ । अ॒स्तु॒ । प्रय᳚स्वान् । यः । ते॒ । आ॒दि॒त्य॒ । शिक्ष᳚ति । व्र॒तेन᳚ ।
न । ह॒न्य॒ते॒ । न । जी॒य॒ते॒ । त्वा॑ऊ᳚तः । न । ए॒न॒म् । अंहः᳚ । अ॒श्नो॒ति॒ । अन्ति᳚तः । न । दू॒रात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवसुवां हविःषु मित्रस्य सत्यस्य प्र स मित्रेति याज्या । एषैव प्रातर्होमस्य कालात्ययनिमित्ते मृत्रे चरौ याज्या । सूत्रितं च । प्र स मित्र मर्तो अस्तु प्रयस्वां स्त्वां नष्टवान्महिमाय पृच्छते । आ. ४-११ । इति । तत इष्टिर्मित्रः सूर्योऽभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वानिति संस्थितायाम् । आ. ३-१२ । इति च ॥

हे आदित्य व्रतेन यज्ञेन युक्त यो मनुष्यस्ते तुभ्यं शिक्षति हविर्लक्षणमन्नं ददाति हे मित्र स मर्तो मनुष्यः प्रयस्वानन्नवान् प्रास्तु । प्रभवतु । त्वोतस्त्वया रक्षितः स मनुष्यः केनापि न हन्यते न बाध्यते । न जीयते । नाभिभूयते च । एनं तुभ्यं हविर्दत्तवन्तं पुरुषमहः पापमन्तितः समीपान्नाश्नोति । न प्राप्नोति । दूरादपि न प्राप्नोति । शिक्षतिर्दानकर्मा । व्यत्ययेन परस्मैपदं यद्वृत्तयोगादनिघातः । जीयते । जयतेः कर्मणि यक्यकृत्सार्वधातुकयोरिति दीर्घः । त्वोतः । तृतीया कर्मणीति पूर्वपदस्वरः । अश्नोति । अशू व्याप्तौ । स्वादिः । व्यत्ययेन परस्मै पदं ॥ २ ॥

3.59.3 समानपद
अ॒न॒मी॒वास॒ इळ᳚या॒ मद᳚न्तो मि॒तज्ञ᳚वो॒ वरि᳚म॒न्ना पृ᳚थि॒व्याः ।
आ॒दि॒त्यस्य᳚ व्र॒तमु᳚पक्षि॒यन्तो᳚ व॒यं मि॒त्रस्य᳚ सुम॒तौ स्या᳚म ॥
▶ पदपाठः (Word-by-word)
अ॒न॒मी॒वासः᳚ । इळ᳚या । मद᳚न्तः । मि॒त॑ज्ञ᳚वः । वरि᳚मन् । आ । पृ॒थि॒व्याः ।
आ॒दि॒त्यस्य᳚ । व्र॒तम् । उ॒प॒॑क्षि॒यन्तः᳚ । व॒यम् । मि॒त्रस्य᳚ । सु॒॑म॒तौ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवसुवां हविःषु मित्रस्य सत्यस्यानुवाक्या । अनमीवास इळया मदन्तः प्र समित्र वर्तो अस्तु प्रयस्वानिति सूत्रितम् । आ. ४-११ ।

हे मित्र अनमीवासो रोगवर्जिता इळयान्नेन मदन्तो माद्यन्तः पृथिव्यावरिमन्विस्तीर्णे प्रदेश मितज्ञवो मितजानुका आ यथाकामं सर्वत्र गच्छन्त आदित्यस्य संबन्धि व्रतं कर्मोपक्षियन्तस्तस्य कर्मणः समीपे निवसन्तः । तदीयं कर्म कुर्वाणा इत्यर्थ । तादृशा वयं मित्रस्यादित्यस्य सुमतौ शोभनायामनुग्रहबुद्ध्यां स्याम । वर्तेमहि । मदन्तः । मदी हर्ष इत्यस्य शतरि व्यत्ययेन शप् । मितज्ञवः । जानुशब्दस्य ज्ञुश्छान्दसः । वरिमन् । उरुशब्दात्पृथ्वादित्वादिमनिच् । प्रियस्थिरेत्यादिना वरादेशः । सुपां सुलुगिति सप्तम्या लुक् । व्यत्ययेनाद्युदात्तः ॥ ३ ॥

3.59.4
अ॒यं मि॒त्रो न᳚म॒स्य᳚ः सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो अ᳚जनिष्ट वे॒धाः ।
तस्य᳚ व॒यं सु᳚म॒तौ य॒ज्ञिय॒स्यापि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मि॒त्रः । न॒म॒स्यः᳚ । सु॒॑शेवः᳚ । राजा᳚ । सु॒॑क्ष॒त्रः । अ॒ज॒नि॒ष्ट॒ । वे॒धाः ।
तस्य᳚ । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिय᳚स्य । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं पूर्वमन्त्रे प्रतिपादितो मित्रः सूर्यो नमस्यः सर्वैर्नमस्करणीयः सुशेवः शोभनसुखः । सुखेन सेव्य इत्यर्थः । राजा सर्वस्य जगतः प्रकाशप्रदानेन स्वामी सुक्षत्रः । क्षत्रशब्देन बलमुच्यते । शोभनबलोपेतो वेधाः सर्वस्य जगतो विधाता । एवं गुणोपेतः सूर्योऽजनिष्ट । प्रादुरभूत् । तस्यैवं विधगुणोपेतस्य यज्ञियस्य यज्ञार्हस्य सूर्यस्य सुमतौ शोभनायां बुद्ध्यां भद्रे कल्याणकारिणि स्ॐअनसे स्ॐअनस्येऽपि यजमाना वयं स्याम । भवेम । नमस्यः नमसि साधुः । तत्र साधुरिति यत् । तित्स्वरितः । आजनिष्ट । जनी प्रादुर्भाव इत्यस्य लुङि सिचि रूपम् । स्ॐअनसे । सुमनस इदमित्यर्थे तस्येदमित्यण् । प्रत्ययस्वरः ॥ ४ ॥

3.59.5
म॒हा{4} आ᳚दि॒त्यो नम᳚सोप॒सद्यो᳚ यात॒यज्ज᳚नो गृण॒ते सु॒शेवः᳚ ।
तस्मा᳚ ए॒तत्पन्य᳚तमाय॒ जुष्ट᳚म॒ग्नौ मि॒त्राय᳚ ह॒विरा जु᳚होत ॥
▶ पदपाठः (Word-by-word)
म॒हान् । आ॒दि॒त्यः । नम᳚सा । उ॒प॒॑सद्यः᳚ । या॒त॒यत्॑ज᳚नः । गृ॒ण॒ते । सु॒॑शेवः᳚ ।
तस्मै᳚ । ए॒तत् । पन्य᳚॑तमाय । जुष्ट᳚म् । अ॒ग्नौ । मि॒त्राय᳚ । ह॒विः । आ । जु॒हो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽयमादित्यो महान् अत एव नमसा नमस्कारेणोपसद्यः सर्वैरुपसदनीयो यातयज्जनः । प्रातः प्रातः स्वस्वकर्मणि प्रवर्तनीया जना येनेति सतथोक्तः । गृणते स्तोत्रं कुर्वते जनाय सुशेवश्च भवति तस्मै पन्यतमाय स्तुत्यतमाय मित्रायादित्याय जुष्टं प्रीतिविषयमेतद्धविरग्नावा जुहोत । जुहुत । यातयज्जनः । यती प्रयत्न इत्यस्य ण्यन्तस्य शतरि रूपम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरे प्राप्ते मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम् । गृणते । गॄ शब्दे । शतुरनुम इति विभक्तेरुदात्तत्वम् । पन्यतमाय । पनतेरघ्न्यादित्वाद्यत् । यतोऽनाव इत्याद्युदात्तत्वम् । जुष्टम् । नित्यं मन्त्र इत्याद्युदात्तत्वं ॥ ५ ॥

3.59.6
मि॒त्रस्य᳚ चर्षणी॒धृतो॑वो᳚ दे॒वस्य᳚ सान॒सि ।
द्यु॒म्नं चि॒त्रश्र᳚वस्तमम् ॥
▶ पदपाठः (Word-by-word)
मि॒त्रस्य᳚ । च॒र्ष॒णि॒॑धृतः᳚ । अवः᳚ । दे॒वस्य᳚ । सा॒न॒सि ।
द्यु॒म्नम् । चि॒त्रश्र᳚वः॑तमम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिप्लवषडहे दशरात्रे च सप्तदशैकविंशादिस्तोमे सति होत्रादिकशस्त्रेष्वावापस्थाने पञ्चसप्तादिसंख्याका ऋच आवपनीयाः । तत्र मैत्रावरुणशस्त्रे मित्रस्य चर्षणी धृत इत्याद्याश्चतस्र आवापार्था । सूत्रितं च । मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्यः । आ. ७-५ ॥ इति ॥

चर्शणीधृतो मनुष्याणां वृष्टिप्रदानेन धारकस्य मित्रस्य देवस्य सञ्जन्ध्यवोऽन्नं सानसि सर्वैः सम्भजनीयं द्युम्नं तदीयं धनं च चित्रश्रवस्तमम् । अतिशयेन चायनीयकीर्तियुक्तम् । सानसि । सनोतेः सानसिपर्णसीत्यादिनासिच् प्रत्ययान्तत्वेन निपातनादुपधावृद्धिः । चित्त्वादन्तोदात्तः । स्वमोरिति स्वमोर्लुक् ॥ ६ ॥

3.59.7
अ॒भि यो म᳚हि॒ना दिवं᳚ मि॒त्रो ब॒भूव᳚ स॒प्रथा᳚ः ।
अ॒भि श्रवो᳚भिः पृथि॒वीम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । यः । म॒हि॒ना । दिव᳚म् । मि॒त्रः । ब॒भूव᳚ । स॒॑प्रथाः᳚ ।
अ॒भि । श्रवः᳚॑भिः । पृ॒थि॒वीम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातर्होमस्य कालात्यये मैत्रेष्टिः । तस्यामभि यो महिनेत्यनुवाक्या । सूत्रितं च । अभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वान् । आ. ३-१२ । इति ।

यो मित्रो महिना स्वकीयेन महिम्ना दिवमन्तरिक्षमभि बभूवाभिभवति स मित्रः सप्रथाः प्रथः प्रसिद्धिः कीर्तिः । तत्सहितः श्रवोभिर्वृष्टिद्वारोत्पादितैरन्नैः पृथिवीमप्यभिभवति । बह्वन्नयुक्तां करोतीत्यर्थः । सप्रथाः । पथ प्रख्याने । असुन् । वोपसर्जनस्येति सहस्य सभावः ॥ ७ ॥

3.59.8
मि॒त्राय॒ पञ्च᳚ येमिरे॒ जना᳚ अ॒भिष्टि᳚शवसे ।
स दे॒वान्विश्वा᳚न्बिभर्ति ॥
▶ पदपाठः (Word-by-word)
मि॒त्राय᳚ । पञ्च᳚ । ये॒मि॒रे॒ । जनाः᳚ । अ॒भिष्टि᳚॑शवसे ।
सः । दे॒वान् । विश्वा᳚न् । बि॒भ॒र्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्च जना निषादपञ्चमाश्चत्वारो वर्णा अभिष्टिशवसे शत्रूणामभिगन्तृबलयुक्ताय मित्राय येमिरे । हवींष्युद्यच्छन्ति । स तादृशो मित्रो विश्वान् सर्वान्देवान्बिभर्ति । स्वस्वरूपतया धारयति । अभिष्टिशवसे । इषेर्मन्त्रे वृषेत्यादिना क्तिन् । तादौ च नितीत्यभेरन्तोदात्तत्वम् । शकन्ध्वादित्वात्पररूपत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥ ८ ॥

3.59.9
मि॒त्रो दे॒वेष्वा॒युषु॒ जना᳚य वृ॒क्तब᳚र्हिषे ।
इष᳚ इ॒ष्टव्र᳚ता अकः ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । दे॒वेषु᳚ । आ॒युषु᳚ । जना᳚य । वृ॒क्त॑ब᳚र्हिषे ।
इषः᳚ । इ॒ष्ट॑व्र᳚ताः । अ॒क॒रित्य᳚कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रो भववानादित्यो देवेषु द्योतमानादिगुणयुक्तेष्वायुषु मनुष्येषु मध्ये यो जनो व्रुक्तबर्हिः । वृक्तं लूनं बर्हिर्येन सः । बर्हिर्लवनासादनपुर्वं हविषो दाता ऋत्विगित्यर्थः । तस्मै व्रुत्कबर्हिषे जनायेष्टव्रताः । इष्टानि कल्याणानि व्रतानि कर्माणि याभिः सिध्यन्ति ता इषस्तादृशान्यन्नान्यकः । करोति । तस्मै ददातीत्यर्थः । व्रुक्तबर्हिषे । ओव्रश्चू छेदने । कर्मणि निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । बहुव्रीहौ पूर्वपदस्वरः । अकः । करोतेर्लु~इ च्लेर्मन्त्रे घसेत्यादिना लुक् । सिपो हल्ङ्यादिलोपः । निघातः ॥ ९ ॥