श्रवणम्

3.59.8
मि॒त्राय॒ पञ्च᳚ येमिरे॒ जना᳚ अ॒भिष्टि᳚शवसे ।
स दे॒वान्विश्वा᳚न्बिभर्ति ॥
▶ पदपाठः (Word-by-word)
मि॒त्राय᳚ । पञ्च᳚ । ये॒मि॒रे॒ । जनाः᳚ । अ॒भिष्टि᳚॑शवसे ।
सः । दे॒वान् । विश्वा᳚न् । बि॒भ॒र्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्च जना निषादपञ्चमाश्चत्वारो वर्णा अभिष्टिशवसे शत्रूणामभिगन्तृबलयुक्ताय मित्राय येमिरे । हवींष्युद्यच्छन्ति । स तादृशो मित्रो विश्वान् सर्वान्देवान्बिभर्ति । स्वस्वरूपतया धारयति । अभिष्टिशवसे । इषेर्मन्त्रे वृषेत्यादिना क्तिन् । तादौ च नितीत्यभेरन्तोदात्तत्वम् । शकन्ध्वादित्वात्पररूपत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥ ८ ॥