माध्यन्दिनसवने सवने सवनीयपुरोडासस्य माध्यन्दिनस्य सवनस्य धाना इत्यनुवाक्या । सूत्रितं च । माध्यन्दिनस्य सवनस्य धाना इति माध्यन्दिने । आ. ५-४ । इति ॥
हे इन्द्र माध्यन्दिनस्य मध्यन्दिने भवस्य सवनस्य सम्बन्धिनीर्धाना भृष्टयवान् चारुं कमनीयं पुरोडाशं चेह कर्माण्यगत्य कृष्व । भक्षणेन संस्कुरु । यद्यदा जरिता भवत्परिचरणं कुर्वाणस्तूर्ण्यर्थस्त्वां स्तोतुमितस्ततस्त्वरितगमनः आत एव वृषायमाणो वृषेवाचरन् स्तोतागीर्भिः स्तुतिलक्शनाभिर्वाग्भिरुपसमीपे प्रेट्टे प्रकर्षेण स्तौति । तदा पुरोडाशादिहवींषि भक्षयेति भावः । माध्यन्दिनस्य । मध्यन्दिनशब्दात्तत्र भवार्थ उत्सादित्वादञ् । ञित्त्वादाद्युदात्तः । चारुम् । चर गतिभक्षणयोः । दॄसनिजनिचरिछटिरहिभ्यो ञुण्णिति ञुण् । णीत्त्वादुपधावृद्धिः । ञित्त्वादाद्युदात्तः । तूर्ण्यर्थः । तूर्णिः । ञित्स्वरा सम्भ्रमा इत्यस्माद्वहिश्रीत्यादिना निप्रत्ययोनिच्च । अर्थः । ऋ गतौ । उषिकुषिगार्तिभ्यस्थन्निति थन् । बहुव्रीहौ पूर्वपदस्वरः । वृषायमाणः । वृषेवाचरतीत्यर्थे कर्तुः क्यङ् सलोपश्चेति क्यङ् । अकृत्स्वार्वधातुकयोर्दीर्घः । ङित्त्वादनुदात्तङित इत्यात्मनेपदम् । लट् । शानच् । तस्य लसार्वधातुकस्वरे धातुस्वरः । ईट्टे । ईड स्तुतावित्यस्य लटि रूपम् । यद्योगादनिघातः ॥ ५ ॥