तृतीयं मण्डलम् - सूक्तम् 23

5 ऋचः

ऋषिः: देवश्रवा देववातश्च भारतौ देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.23 - सम्पूर्णम्

1 / 5
ऋक्: 3.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.23.1 समानपद
निर्म᳚थित॒ः सुधि᳚त॒ आ स॒धस्थे॒ युवा᳚ क॒विर᳚ध्व॒रस्य᳚ प्रणे॒ता ।
जूर्य᳚त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा᳚ दधे अ॒मृतं᳚ जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
निः॑म᳚थितः । सु॑धि᳚तः । आ । स॒ध॑स्थे᳚ । युवा᳚ । क॒विः । अ॒ध्व॒रस्य᳚ । प्र॒॑ने॒ता ।
जूर्य᳚त्॑सु । अ॒ग्निः । अ॒जरः᳚ । वने᳚षु । अत्र᳚ । द॒धे॒ । अ॒मृत᳚म् । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भारतावृषी स्तोत्रं कुर्वाते । योऽग्निर्निर्मथितोऽग्निष्टोमादिकर्मस्वरण्योर्नितरां मथितः सन् सधस्थे यजमानगृहे सुधितो गार्हपत्याध्षु त्रिषु कुण्डेषु सुष्ठु निहितः निधाय च काष्ठप्रक्षेपेन प्रज्वाल्यमानो युवा प्रबुद्धः अत एवाध्वरस्य ज्योतिष्टोमादेः प्रणेता प्रकर्षेणानेता निर्वाहको नेतृत्वादेवकविः क्रान्तदर्शी । तथाविधो जातवेदाः सर्वविषयाभिज्ञानवान् सोऽग्निर्वनेषु महारण्येषु जूर्यत्सुदावाग्निसम्बन्धाज्जुर्यमाणेषु जरा नाशं प्रप्नुवत्स्वपि यजमानेष्वमृतं क्षयरहितं प्रभुतमन्नमादधे । निदधाति ॥ सुधितः । दधातेः कर्मणि निष्ठायां सुधितवसुधितनेमधितेत्यादिना निपातनाद्धि इत्यादेशः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । जूर्यस्त्स् । जूरी घूरी हिम्सावयोहान्योः । व्यत्ययेन शतृप्रत्ययः । दिवादित्वाच्छ्यन् । नित्त्वादाद्युदात्तः । अजरः । जॄ वयोहानावित्यस्माद्भाव ऋदोरभित्यप्प्रत्ययः । गुणः । नञो जरममित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । दधे । दधातेर्वर्तमाने लिटि रूपम् । जातवेदाः । जनी प्रादुर्हाव इत्यस्य क्ते जनसनखनां सन्झलोरित्याकरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

3.23.2
अम᳚न्थिष्टां॒ भार᳚ता रे॒वद॒ग्निं दे॒वश्र᳚वा दे॒ववा᳚तः सु॒दक्ष᳚म् ।
अग्ने॒ वि प᳚श्य बृह॒ताभि रा॒येषां नो᳚ ने॒ता भ᳚वता॒दनु॒ द्यून् ॥
▶ पदपाठः (Word-by-word)
अम᳚न्थिष्टाम् । भार᳚ता । रे॒वत् । अ॒ग्निम् । दे॒व॑श्र᳚वाः । दे॒व॑वा᳚तः । सु॒॑दक्ष᳚म् ।
अग्ने᳚ । वि । प॒श्य॒ । बृ॒ह॒ता । अ॒भि । रा॒या । इ॒षाम् । नः॒ । ने॒ता । भ॒व॒ता॒त् । अनु᳚ । द्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने भारता भारतौ भरतसृ पुत्रौ देवश्रवा देववातश्चेत्युभौ सुदक्षं शोभनसामर्थ्योपेतं रेवत् रयिमन्तमग्निमङ्गनादिगुणोपेतं त्वाममन्थिष्टाम् । अग्निष्टोमादिकर्मप्राप्त्यर्थमलूलुडताम् । मथनेन त्वामुत्पादितवन्तावित्यर्थः । तादृशस्त्वं बृहता प्रभूतेन राया धनेन सहितः सन् अभि अभिमुखो भूत्वा वि पठ्य । अस्मान्वितेषेणानुग्रहदृष्ट्या वीक्षस्व । किञ्च । अनुद्युन् । द्युशब्जोऽहर्वाचि वस्तोर्द्युरिति तन्नामसु पाठात् । द्यूननु सर्वेषु दिवसेषु नोऽस्माकमिषामन्नानां नेता अनेता भवतात् । भव ॥ अमन्थिष्टाम् । मन्थ विलोडन इत्यस्माल्लुङि सिच् । वदव्रजहलन्तस्याचः । पा. ७-२-३ । इति वृद्धौ प्राप्तायां नेटीति प्रतिषेधः । तस्थस्थमिपामित्यादिना तसस्तामादेशः । पादादित्वादनिघातः । अट् स्वरः । भारता । भरतस्यापत्यमित्यर्थ उत्सादित्वादञ् । तद्भितेष्वचामादेरित्यादिवृद्धिः । ञित्स्वरः । रेवत् । रयिशब्दान्मतुप् । वत्वोदात्तत्वसम्प्रसारणपरपुर्वत्वगुणसुब्लोपाः । देवश्रवाः । श्रु श्रवणे । असुन्निति कर्मण्यसुन् । देवैः श्रूयते प्रख्याप्येतेऽसाविति देवश्रवा ऋषिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यौणादिकसूत्रात्पूर्व्पदस्वरः । देववातः । वा गतिगन्धनयोः । अस्मात्कर्मणि क्तः । देवैरिष्यमाणतया प्राप्तो देववात ऋषिः । तृतीया कर्मणेति पूर्वपदप्रकृतिस्वरः । द्यून् । द्यु अभिगमने द्युत दीप्तौ वा । ङि च्चेत्यनुवृत्तौ द्युयुभ्यां चेति भोजसूत्रेण डु प्रत्ययो ङेच्च । द्युतेरश्र्वादयश्च । उ. ५-२९ । इति डुन् प्रत्ययः । भिगच्छन्त्यस्मिन् स्वं स्वमभितं देशं प्राणिन इति द्योतते किरणसम्बन्धादिति वा द्युर्दिवसः । प्रथमयोरिति सवर्णदीर्घः । तस्माच्छसो नः पुंसि । पा. ६-१-१-३ । इति सकारस्य नकारः । एकादेशस्वरः ॥ २ ॥ अर्णाम्स्यस्मिन्सन्तीति मतुबर्थे वप्रकरणेऽन्येभ्योपि दृश्यन्त इति वप्रत्ययः । अर्णसः सलोपश्चेति सलोपः । प्रत्ययस्वरः । सृचक्षाः चक्षिङ् व्यक्तायां वाचि । अभिव्यक्तवाग्वाच्ययं धातुरत्राभिव्यक्तिमात्रे वर्तते । चक्षेर्बहुलं शिच्चेत्यसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥ २ ॥

3.23.3 समानपद
दश॒ क्षिपः᳚ पू॒र्व्यं सी᳚मजीजन॒न्त्सुजा᳚तं मा॒तृषु᳚ प्रि॒यम् ।
अ॒ग्निं स्तु᳚हि दैववा॒तं दे᳚वश्रवो॒ यो जना᳚ना॒मस᳚द्व॒शी ॥
▶ पदपाठः (Word-by-word)
दश᳚ । क्षिपः᳚ । पू॒र्व्यम् । सी॒म् । अ॒जी॒ज॒न॒न् । सु॑जा᳚तम् । मा॒तृषु᳚ । प्रि॒यम् ।
अ॒ग्निम् । स्तु॒हि॒ । दै॒व॒॑वा॒तम् । दे॒व॒॑श्र॒वः॒ । यः । जना᳚नाम् । अस᳚त् । व॒शी ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं दिवोऽर्णं द्युलोके वर्तमानमर्णोऽभोऽच्छाभिलक्ष्यजिगासि । धूमद्वारा प्राप्नोषि । किञ्च । धिष्ण्याः । धियं बुद्ध्युपहितं देहमुष्णंत्युष्णीकुर्वन्तीति धिष्ण्याः प्राणाभिमानिनो देवाः । तान्प्राणाख्यान्देवानच्छानुक्रमेणोचिषे । समवेतान्करोषि । समवेता भवतेत्युक्तवानसीत्यर्थः । सूर्यस्य सूर्यलोकस्य परस्तादुपरि रोचने । रोचनो नामायं लोको यत्राग्नेयं ज्योतिस्तपति । तस्मिन्भासमाने रोचनाख्ये लोके या आपो विद्यन्ते अवस्तात्सूर्यलोकादधस्तादन्तरिक्षलोके यश्चाप उपतिष्ठन्ते वर्तन्ते वा उभयीरपस्त्वं प्रेरयसि । उक्तार्थो वाजसनेयिभिः स्पष्टमभिहितः । आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छेत्यच्छा देवा ऊचिषे धिष्न्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चा वस्तादुपतिष्ठन्त आप इति रोचनो ह नामैषलोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एतदाह । श. ब्रा. ७-१-२४ । इति । ता उभयीरपस्त्वं प्रेरयसीति ॥ अर्णम् । ऋ गतावित्यस्मादुदके नुट् चेत्यसुन्नुडागमश्च । अर्यते प्रार्थ्यते तत्पिपासुभिरित्यर्णः । सकारलोपश्चान्दसः । नित्त्वादाद्युदात्तः । जिगासि । गास्तुतौ च छन्दसीत्ययं धातुश्चकाराद्गमने वर्तमानो जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । ऊचिषे । ब्रूञ् व्यक्तायां वाचीत्येतस्य लिट आर्धधातुकत्वाद्भ्रुवो वचिः । पा. २-४-५३ । इति वच्यादेशः । असंयोगालिट् किदिति किद्वद्भावाद्वचिस्वपीत्यादिना सम्प्रसारणम् । अभ्यासस्य लिट्यभ्यासस्योभयेषामिति सम्प्रसारणम् । आर्धधातुक इट् । निघातः । धिश्ण्याः । उष प्लुष दाहे । धिय उष्णन्तीति सानसिधर्णसिपर्णसि तण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्या इति निपातनात् यन्नुडागमधात्वादिलोपोपपदह्रस्वादयः सर्वे सिद्धा भवन्ति । नित्त्वादाद्युदात्तः । अवस्तात् । अवरशब्दात् दिक् छब्देभ्यः सप्तमीपञ्चमीत्यादिना अस्तातिः । तस्मिन्व्भाषावर्रस्य । पा. ५-३-४१ । इत्यवादेशः । प्रत्ययस्वरः । उपतिष्ठन्ते । ष्ठा गतिनिवृत्तौ । उपपूर्वात्तिष्ठतेरकर्मकाच्च (पा. १-३-२६) । इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ ३ ॥

3.23.4
नि त्वा᳚ दधे॒ वर॒ आ पृ᳚थि॒व्या इळा᳚यास्प॒दे सु᳚दिन॒त्वे अह्ना᳚म् ।
दृ॒षद्व᳚त्यां॒ मानु᳚ष आप॒यायां॒ सर᳚स्वत्यां रे॒वद᳚ग्ने दिदीहि ॥
▶ पदपाठः (Word-by-word)
नि । त्वा॒ । द॒धे॒ । वरे᳚ । आ । पृ॒थि॒व्याः । इळा᳚याः । प॒दे । सु॒॑दि॒न॒॑त्वे । अह्ना᳚म् ।
दृ॒षत्॑व᳚त्याम् । मानु᳚षे । आ॒प॒याया᳚म् । सर᳚स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरीष्यासः सिकतासम्मिश्रा अग्नयश्चित्या अग्नयः प्रवणेभिर्मृत्खननसाधनभूतैरभ्र्यादिभिः सहिताः सजोषसः परस्पर सङ्गताः सन्तो यज्ञमस्माभिः क्रियमाणमग्निचयनपूर्वकमिमं सोमयागं जुषन्ताम् । सेवन्ताम् । किञ्च । अद्रुहोऽद्रोग्धारो यूयमनमीवा रोगादिवर्जिता महीर्महत्य इष ऊर्जो रोगादि रहितान्यन्नान्यस्मभ्यं प्रयच्छताम् । पुरीष्यासः । पॄ पालन पूरणयोः । ईषन्नित्यनुवृत्तौ शॄपॄभ्यां कित् । उ. ४-२७ । इतीषन्प्रत्ययः किच्च । कित्त्वाद्गुणे प्रतिषिद्ध उदोष्ठ्यपूर्वस्येत्युत्वम् । रपरः । पृणाति पूर्यते वेति पुरीषम् । पुरीषम् । पूरीषं पृणातेः पूरयतेर्वा । नि. २-२२ । इति यास्कः । तदर्हन्तीति पुरीश्याः । छन्दसि चेति यप्रत्य्६अयः । यचि भमिति भसंज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभिः । वन षण संभक्तावित्यस्मात्पुम्सि संज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभि । वनषण सम्भक्तावित्यस्मात्पुंसि संज्ञायां घः प्रायेणेति करणे घ प्रत्ययः । प्रकर्षेण वन्यते सम्भज्यते सम्श्लिष्यते मृदेभिरिति प्रावणानि खनित्राणि । प्रनिरन्तः । पा. ८-४-५ । इत्यादिनाणत्वं वनं समासे । पा. ६-२-१७८ । इत्यन्तोदात्तत्वं कृदुत्तरपदप्रकृतिस्वरः । यद्वा । प्रङ् गतौ । प्रवन्ते गच्छन्ति मृत्खननं प्रतीति चलनशब्दार्थदकर्मकाद्युच् । पा. ३-२-१४८ । इति युच् । चित्स्वरः । पुर्वस्मिन्पक्षेऽवग्रहाभावश्छान्दस इति वक्तव्यम् । जुषन्तां जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपम् । पादादित्वादनिघातः । महीः । महच्छब्दादुगितश्चेति ङीप् तकारलोपष्छान्दसः । प्रत्ययस्वरेणान्तोदात्तः ॥ ४ ॥

3.23.5
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श᳚श्वत्त॒मं हव᳚मानाय साध ।
स्यान्न᳚ः सू॒नुस्तन᳚यो वि॒जावाग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
इळा᳚म् । अ॒ग्ने॒ । पु॒रु॒॑दंस᳚म् । स॒निम् । गोः । श॒श्व॒त्॑त॒मम् । हव᳚मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन᳚यः । वि॒जा॑वा᳚ । अ॒ग्ने॒ । सा । ते॒ । सु॒॑म॒तिः । भू॒तु॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पुरुदम्सम् । अपोऽप्नोदम्सो वेष इति कर्मनामसु पठितत्वाद्दंसः शब्दः कर्मवाची । पूरूणि बहूनि दम्साम्सि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमं निरन्तरं हवमानाय यजमानाय मह्यं साध । साधय । किञ्च नोऽस्माकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवतीति ते तव या सुमतिशोभना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु । भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध सम्सिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटि व्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनीप्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यन्त इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतु । भु सत्तायाम् । बहुलं छन्दसीति तपो लुक् । भुसुवोस्तिङीति गुणप्रतिषेधः ॥ ५ ॥