तृतीयं मण्डलम् - सूक्तम् 56

8 ऋचः

ऋषिः: प्रजापतिर्वैश्वामित्रः प्रजापतिर्वाच्यो वा देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 3.56 - सम्पूर्णम्

1 / 8
ऋक्: 3.56.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
3.56.1
न ता मि᳚नन्ति मा॒यिनो॒ न धीरा᳚ व्र॒ता दे॒वानां᳚ प्रथ॒मा ध्रु॒वाणि᳚ ।
न रोद᳚सी अ॒द्रुहा᳚ वे॒द्याभि॒र्न पर्व᳚ता नि॒नमे᳚ तस्थि॒वांसः᳚ ॥
▶ पदपाठः (Word-by-word)
न । ता । मि॒न॒न्ति॒ । मा॒यिनः᳚ । न । धीराः᳚ । व्र॒ता । दे॒वाना᳚म् । प्र॒थ॒मा । ध्रु॒वाणि᳚ ।
न । रोद᳚सी॒ इति᳚ । अ॒द्रुहा᳚ । वे॒द्याभिः᳚ । न । पर्व᳚ताः । नि॒॑नमे᳚ । त॒स्थि॒॑वांसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

न ता मिनन्तीत्यष्टर्चं तृतीयं सूक्तं विश्वामित्रस्य वाचः पुत्रस्य वा प्रजापतेरार्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रमणिका । न ताष्टाविति । सूक्तविनियोगो लिङ्गादवगन्तव्यः । अस्मिन्सूक्ते प्रायेणादित्यैः सह संवत्सरः स्तूयते ॥

मायिनः कपटबुद्ध्युपेता असुरा देवानामिन्द्रादीनां प्रथमा प्रथमानि सृष्ट्यनन्तरभावीनि ध्रुवाणि स्थिराणि केनापि चालयितुमशक्यानि ता तानि लोके प्रसिद्धानि व्रता व्रतानि लोकपालनादिकर्माणि न मिनन्ति । न हिम्सन्ति । तथा धीरा विद्वांसोऽपि न हिम्सन्ति । तथाद्रुहा देवमनुष्यादिषु प्रजासु द्रोहवर्जिते रोदसी द्यावापृथिव्यौ वेद्याभिः स्वाश्रयतया सर्वैर्वेदनीयाभिः प्रजाभिः सहितानि कर्माणि न मिनीतः । तदेतदुपपादयति । तस्थिवांसः पृथिव्यामूर्ध्वतया स्थिताः पर्वता न निनमे । निनमनीया न भवन्ति । एतदुक्तं भवति । यद्देवमनुष्यादीनां द्यावापृथिव्याधारकतयावस्थापनं यच्च पर्वतादीनामुन्नततयावस्थापनं तदिदं देवानां कर्म । तन्न कोऽप्यन्यथयितुमर्हतीति । मिनन्ति । मीङ् हिंसायामित्यस्य लटि मीनातेर्निगम इति ह्रस्वः । निघातः । वेद्याभिः । वेदनमर्हन्ति । छन्दसि चेति यत्प्रत्ययः । निनमे । णमु प्रह्वत्व इत्यस्य कृत्यार्थे केन्प्रत्ययः । कृत्स्वरः ॥ १ ॥

3.56.2
षड्भा॒रा{4} एको॒ अच᳚रन्बिभर्त्यृ॒तं वर्षि᳚ष्ठ॒मुप॒ गाव॒ आगु᳚ः ।
ति॒स्रो म॒हीरुप᳚रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि᳚ते॒ दर्श्येका᳚ ॥
▶ पदपाठः (Word-by-word)
षट् । भा॒रान् । एकः᳚ । अच᳚रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि᳚ष्ठम् । उप᳚ । गावः᳚ । आ । अ॒गुः॒ ।
ति॒स्रः । म॒हीः । उप᳚राः । त॒स्थुः॒ । अत्याः᳚ । गुहा᳚ । द्वे इति᳚ । निहि᳚ते॒ इति॒ नि॑हि᳚ते । दर्शि᳚ । एका᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अचरन् स्थायी एकः संवत्सरः षट् षट् संख्याकान् भारान् । भ्रियते पुष्पविकासादि येष्विति भारा ऋतवः । तान्वसन्तादीन् बिभर्ति । अवयवत्वेन धारयति । तथा ऋतं सत्यभूतं वर्षिष्ठं वृद्धतरमादित्यात्मकं तमेव संवत्सरं गावो रश्मय उपागुः । प्राप्नुवन्ति । किञ्च तस्मिन्नेव संवत्सरेऽत्या अतनशीला आगमापायिधर्मोपेतास्तिस्रो महीस्त्रयो लोका उपरा उपर्युपरि वर्तमानास्तुस्थुः । तिष्ठन्ति । लोकत्रयमेव दर्शयति । गुहा गुहायां स्वात्मनि द्वे द्यौश्चान्तरिक्षं चेत्येते निहिते । न दृश्येते । एका भूमिर्दर्शि । सर्वभूताधारतया दृश्यते ॥ भारान् । डुभृञ् धारणपोषणयोरित्यसा दधिकरणे घञ् । कर्षात्वतो घञ् इत्यन्तोदात्तत्वम् । निहिते । दधातेः कर्मणि निष्ठा । गतिरनन्त इति गतेः प्रकृतिस्वरत्वम् । दर्शि । दृशिर् प्रेक्षणे । कर्मणि लुङि चिणि चिणो लुगिति प्रत्ययस्य लुक् । वाक्यभेदादनिघातः ॥ २ ॥

3.56.3 समानपद
त्रि॒पा॒ज॒स्यो वृ᳚ष॒भो वि॒श्वरू᳚प उ॒त त्र्यु॒धा पु᳚रु॒ध प्र॒जावा᳚न् ।
त्र्य॒नी॒कः प᳚त्यते॒ माहि᳚नावा॒न्त्स रे᳚तो॒धा वृ᳚ष॒भः शश्व᳚तीनाम् ॥
▶ पदपाठः (Word-by-word)
त्रि॒॑पा॒ज॒स्यः । वृ॒ष॒भः । वि॒श्व॑रू᳚पः । उ॒त । त्रि॒॑उ॒धा । पु॒रु॒ध । प्र॒जा॑वा᳚न् ।
त्रि॒॑अ॒नी॒कः । प॒त्य॒ते॒ । माहि᳚न॑वान् । सः । रे॒तः॒॑धाः । वृ॒ष॒भः । शश्व᳚तीनाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिपाजस्यः ग्रीष्मवर्षाहेमन्ताख्यैस्त्रिभिरृतुभिः पाजस्यमुरो यस्य स त्रिपाजस्यः । त्र्युरस्क इत्यर्थः । उरोवचनश्च पाजस्यशब्दः । इन्द्रस्य क्रोडोऽदित्यैपाजस्यम् । वाज. २५-८ । इत्यश्वमेधमन्त्र उरपरतयाम्नानात् पाजसि बले साधुरिति व्युत्पत्तेश्च सर्वेषामङ्गानां मध्य उरसो बलवत्त्वात् । वृषभः स्वावयभूते वर्षर्तावपां वर्षको विश्वरूपस्तत्तदृत्वसाधारणकार्यैः पुष्पविकासादिभिर्लिङ्गैर्नानारूप उतापि च त्र्युधा । वसन्तशरद्धेमन्ताख्यैस्त्रिभिरृतुभिरूधो यस्य स त्र्युधा । प्रजावान् । प्रकर्षेण जायन्त इति व्रीह्यादयः प्रजाः । पुरुध नानाप्रकारेण विद्यमानव्रीहियवादिरूपप्रजावान् । किञ्च त्र्यनीकस्त्रिभिरुष्णवर्षशीताख्यैरनीकैर्गुणैरुपेतो माहिनावान्महत्त्ववान् संवत्सराभिमानी देवः पत्यते । आगच्छति । वृषभः सेचनसमर्थः स संवत्सरः शश्वतीनां बह्वीनामोषधीनां पुष्पफलादिसंपत्तये रेतोधा रेतस उदकस्य धर्ता भवति ॥ त्र्युधा । बहुव्रीहेरूधसोऽनङ्गित्यनङ् । सर्वविधीनां छन्दसि विकल्पितत्वात्पुंस्यपि भवति । ऊकारस्य ह्रस्वश्छान्दसः । उत्तरपदान्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानमित्युत्तरपदान्तोदात्तत्वं ॥ ३ ॥

3.56.4
अ॒भीक᳚ आसां पद॒वीर᳚बोध्यादि॒त्याना᳚मह्वे॒ चारु॒ नाम᳚ ।
आप᳚श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज᳚न्ती॒ः परि᳚ षीमवृञ्जन् ॥
▶ पदपाठः (Word-by-word)
अ॒भीके᳚ । आ॒सा॒म् । प॒द॒॑वीः । अ॒बो॒धि॒ । आ॒दि॒त्याना᳚म् । अ॒ह्वे॒ । चारु᳚ । नाम᳚ ।
आपः᳚ । चि॒त् । अ॒स्मै॒ । अ॒र॒म॒न्त॒ । दे॒वीः । पृथ᳚क् । व्रज᳚न्तीः । परि᳚ । सी॒म् । अ॒वृ॒ञ्ज॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

संवत्सर असामोषधीनामभीके समीपे पदवीः । पदानि तत्तद्वनविशिष्टपुष्पफलादीनि वेति प्रजनयतीति पदवीः सन् अबोधि । बुध्यते । सावधानो वर्तते । तथादित्यानाम् । आदित्या मासाः संख्यासाम्यात् । यद्वा । आदित्यसंक्रमणनिमित्तत्वादादित्या मासाः । मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रश्चैत्राद्यः स ज्ञेय इति स्मृतेः । तेषां चैत्रादीनां मासानां चारु नाम मधुश्च माधवश्चेत्यादि नामधेयमह्वे । आह्वयामि । उच्चारयामीत्यर्थः । किञ्च देवीर्द्योर्तनशीलाः पृथतितस्ततो व्रजन्तीर्गच्छन्त्य आपश्चित् आपोऽप्यस्मै संवत्सरायारमन्त । संवत्सरसंबन्धिमासचतुष्टये वृष्टिद्वारा रमन्ते । ता आपः सीमेनं संवत्सरं पर्यवृंजन् । अष्टसु मासेषु परिवर्जयन्ति ॥ पदवीः । वी गत्यादिषु । क्विप् । अबोधि । बुध अवगमन इत्यस्य लुङि दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्यामिति कर्तरि चिणो लुक् । निघातः । आदित्यानाम् । आदित्यसंबन्धिन इत्यर्थे दित्यदित्यादित्यपत्युत्तरपदाण्ण्य इति ण्य़ः । अतोलोपयलोपौ । प्रत्ययस्वरः । आह्वे । ह्वयतेर्लुङि सिच आत्मनेपदेष्वन्यतरस्यामित्यङादेशः । गुणः । निघातः । अवृञ्जन् । वृजी वर्जन इत्यस्य लङि श्नमि रूपम् । निघातः ॥ ४ ॥

3.56.5 समानपद
त्री ष॒धस्था᳚ सिन्धव॒स्त्रिः क᳚वी॒नामु॒त त्रि᳚मा॒ता वि॒दथे᳚षु स॒म्राट् ।
ऋ॒ताव᳚री॒र्योष᳚णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य᳚मानाः ॥
▶ पदपाठः (Word-by-word)
त्री । स॒ध॑स्था᳚ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒॑मा॒ता । वि॒दथे᳚षु । स॒म्॑राट् ।
ऋ॒त॑व᳚रीः । योष᳚णाः । ति॒स्रः । अप्याः᳚ । त्रिः । आ । दि॒वः । वि॒दथे᳚ । पत्य᳚मानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रजापतिः स्वविज्ञानं सिन्धूनां निवेदयति । हे सिन्धव आपः सर्वसाक्षिण्यो यूयम् । त्री षधस्था त्रयो लोकाः । ते च प्रत्येकं त्रिर्भवन्ति । तथा त्रयो वा इमे त्रिवृतो लोका इति श्रुतिः । न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणं न विव्यचन्त भूमयः । ऋग्वे. ८-६-१५ । इति प्रत्येकं बहुवचनश्रवणात् । बहुवचनं च कपिञ्जलन्यायेन त्रित्वे पर्यवसितम् । ते च लोकाः कवीनां देवानां निवासस्थानानि भवन्ति । उतापि च त्रिमाता त्रयाणामिमीशां लोकानां निर्माता संवत्सरः सूर्यो वा विदथेषु यज्ञेषु सम्राट् यजनीयतया सम्यग्दीप्यमानो वर्तते । तथा ऋतावरीरुदकवत्योऽप्या नभ्स्या आप्तव्या वा तिस्रो योषणास्त्रिसंख्याका इलासरस्वतीभारतीत्येवं रूपाः परस्परमिश्रणोपेता देवता विदथे यज्ञे दिवो दिवसस्य तिस्त्रिषु सवनेष्वा पत्यमाना आगच्छन्त्यो भवन्ति ॥ सधस्था । पूर्वपदादिति संहितायां षत्वम् । योषणाः । युष इति सौत्रो धातुः । ल्युटि रूपम् । लित्स्वरः । तिस्रः । तिसृभ्यो जस इत्याद्युदात्तत्वम् । अप्याः । अप् इत्यन्तरिक्षनाम । तत्र भवाः । भवे छन्दसीति यत् । यतोऽनाव इत्याद्युदात्तत्वं ॥ ५ ॥

3.56.6
त्रिरा दि॒वः स᳚वित॒र्वार्या᳚णि दि॒वेदि᳚व॒ आ सु᳚व॒ त्रिर्नो॒ अह्न᳚ः ।
त्रि॒धातु᳚ रा॒य आ सु᳚वा॒ वसू᳚नि॒ भग᳚ त्रातर्धिषणे सा॒तये᳚ धाः ॥
▶ पदपाठः (Word-by-word)
त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या᳚णि । दि॒वे॑दि᳚वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः᳚ ।
त्रि॒॑धातु᳚ । रा॒यः । आ । सु॒व॒ । वसू᳚नि । भग᳚ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवितः सर्वस्य प्रेरक हे आदित्य दिवो द्युलोकादागत्य त्वं वार्याणि अर्वैः संभजनीयानि धनानि दिवे दिवे प्रतिदिनं त्रिरा सुव । त्रिवारमस्मभ्यं प्रेरय । प्रयच्छेत्यर्थः । तदेवोच्यते । भग सर्वैर्भजनीय त्रातरस्माकं रक्षक हे आदित्य त्रिधातुत्रिधातूनि पशुकनकरत्नभेदेन त्रिप्रकाराणि वसूनि धनानि रायः । रान्ति क्षीरादीनीति रायो गोधनानि । तानि च नोऽस्मभ्यमह्नः सम्बन्धिशु त्रिस्त्रिषु सवनेष्वा सुव । प्रयच्छ । धिषणे माध्यमिके हे वाक् सातये धनलाभाय धाः । अस्मान् कुरु । त्रिः । द्वित्रिचतुर्भ्यः सुच् । पा. ५-४-१८ । इति सुच् । चित्स्वरः । सुव । षू प्रेरणे । तुदादिः । लोटि रूपम् । त्रिधातु । डुधाञ् धारणपोषणयोरित्यस्मात्सितनिगमिमसीत्यादिना तुन्प्रत्ययः । धिषणे । आमन्त्रितत्वान्निघातः ॥ ६ ॥

3.56.7
त्रिरा दि॒वः स᳚वि॒ता सो᳚षवीति॒ राजा᳚ना मि॒त्रावरु᳚णा सुपा॒णी ।
आप᳚श्चिदस्य॒ रोद᳚सी चिदु॒र्वी रत्नं᳚ भिक्षन्त सवि॒तुः स॒वाय᳚ ॥
▶ पदपाठः (Word-by-word)
त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒ष॒वी॒ति॒ । राजा᳚ना । मि॒त्रावरु᳚णा । सु॒पा॒णी इति᳚ सु॒॑पा॒णी ।
आपः᳚ । चि॒त् । अ॒स्य॒ । रोद᳚सी॒ इति᳚ । चि॒त् । उ॒र्वी इति᳚ । रत्न᳚म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता देवो दिवो दिवसस्य त्रिस्त्रिषु कालेष्वा सोषवीति । अस्मभ्यं धनान्यासुवतु । प्रेरयतु । किञ्च राजाना राजानौ सुपाणी कल्याणपाणी मित्रावरुणावापः । आप्नोति सर्वं जगदित्याप अन्तरिक्षम् । नित्यबहुवचनान्तत्वाद्बहुवचनम् । चिदपि च उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यावेता देवताः सवितुः प्रेरकस्यास्य देवस्य सवाय सवेन प्रेरणेन रत्नमपेक्षितमर्थं भिक्षन्त । याचन्ते ॥ सोसवीति । षू प्रेरण इत्यस्य यङ्लुकि लटि रूपम् । मित्रावरुणा । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । भिक्षन्त । भिक्ष यज्ञायामित्यस्य लङिरूपम् । सवाय । जवसवौ च । पा. ३-३-५६-४ ॥ इत्यजन्तत्वेन निपातनादन्तोदात्तत्वं ॥ ७ ॥

3.56.8
त्रिरु᳚त्त॒मा दू॒णशा᳚ रोच॒नानि॒ त्रयो᳚ राज॒न्त्यसु᳚रस्य वी॒राः ।
ऋ॒तावा᳚न इषि॒रा दू॒ळभा᳚स॒स्त्रिरा दि॒वो वि॒दथे᳚ सन्तु दे॒वाः ॥
▶ पदपाठः (Word-by-word)
त्रिः । उ॒त्॑त॒मा । दुः॒॑नशा᳚ । रो॒च॒नानि᳚ । त्रयः᳚ । रा॒ज॒न्ति॒ । असु᳚रस्य । वी॒राः ।
ऋ॒त॑वा᳚नः । इ॒षि॒राः । दुः॒॑दभा᳚सः । त्रिः । आ । दि॒वः । वि॒दथे᳚ । स॒न्तु॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दूणशा दुर्नशा केनापि विनाशयितुमशक्यानि रोचनानि दीप्यमानानि त्रिस्त्रीण्युत्तमानि स्थानानि सन्ति । एतेषु त्रिषु स्थानेष्वसुरस्य । अस्यति क्षिपति सर्वमित्यसुरः कालात्मा संवत्सरः । तस्य वीराः पुत्रास्त्रयोऽग्निवायुसूर्यरूपा राजन्ति शोभन्ते । तानेव विशिनष्टि । ऋतावान ऋतं सत्यभूतमग्निहोत्रादिकं कर्म तद्वन्तः । इषिरा यज्ञार्थं शीघ्रगतिमन्तो दूळभासो दुर्दभासः केनापि स्वतेजसा तिरस्कर्तुमशक्या एते सर्वे देवा विदथेऽस्मदीये यज्ञे दिवोऽह्नः सम्बन्धिषु त्रिस्त्रिषु सवनेष्वा सन्तु । समन्ताद्यजनीयतया भवन्तु । उत्तमा । उत्तमशश्वत्तमौ सर्वत्रेत्युञ्छादिषु पाठादन्तोदात्तत्वम् । दूणशा । नशेः कृच्छ्रार्थे खल् । दुरो दाशनाशदभेषूत्वं वक्तव्यमिति रेफस्योत्वम् । उत्तरपदादेः ष्टुत्वम् । लित्स्वरः । दूळभासः । पूर्ववदुत्वष्टुत्वे ॥ ८ ॥