दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚ धा य॒ज्ञवा᳚हसे ॥
पदपाठः (Word-by-word)
दु॒स्तरः᳚ । तर᳚न् । अरा᳚तीः । वर्चः᳚ । धाः॒ । य॒ज्ञ॑वा᳚हसे ॥
सायणभाष्यम् (Sayana Commentary)
विश्वामित्रः स्तौति । हे अग्ने पृतना अभियोक्त्रीः सेनाः सहस्व । अभिभव । अभिमातीरभिमानिनः कर्मविघ्नकारिणः शत्रून् अपास्य । अपनुद । किञ्च दुष्टरो न केनापि तरितुं शक्यः अत एव अरातीररातीन् शत्रून् तरन् स्वतेजसा तिरस्कुर्वम्स्त्ववं यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चो धाः । अन्नं धेहि । कुरु ॥ सहस्व । षह मर्षण् इत्यस्य लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । अभिमातीः । माङ् माने । मानं मातिः । भावे क्तिन् । अस्य लुग्विकरणत्वादीत्वेत्वे नभवतः । अभितो मानं येषां त इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अस्य । असु क्षेपणे । दिवादिः । लोटि रूपम् । दुष्टरः । तॄ प्लवनतरणयोः । अस्मात् कृच्छ्रार्थे खल् । सुषामादित्त्वाद्विसर्जनीयस्य सकारस्य षत्वम् । लित्स्वरः । तरन् । तरतेः शतरि रूपम् । अदुपदेशाल्लसर्वधातुकस्वरेण शतुरनुदात्तत्वे कृते धातुस्वरः । धाः । दधातेश्छन्दसि लुङि रूपम् । निघातः ॥ १ ॥