तृतीयं मण्डलम् - सूक्तम् 19

5 ऋचः

ऋषिः: गाथी कौशिकः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.19 - सम्पूर्णम्

1 / 5
ऋक्: 3.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.19.1 समानपद
अ॒ग्निं होता᳚रं॒ प्र वृ᳚णे मि॒येधे॒ गृत्सं᳚ क॒विं वि᳚श्व॒विद॒ममू᳚रम् ।
स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚यान्रा॒ये वाजा᳚य वनते म॒घानि᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । होता᳚रम् । प्र । वृ॒णे॒ । मि॒येधे᳚ । गृत्स᳚म् । क॒विम् । वि॒श्व॒॑विद᳚म् । अमू᳚रम् ।
सः । नः॒ । य॒क्ष॒त् । दे॒व॑ता᳚ता । यजी᳚यान् । रा॒ये । वाजा᳚य । व॒न॒ते॒ । म॒घानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गाधी स्तौति । हे अग्ने गृत्सं गृणन्तं देवानां स्तुतिं कुर्वन्तं कविं मेधाविनं विश्वविदं सर्वविषयज्ञानोपेतममूरममूढमग्निमङ्गनादिगुणोपेतं त्वां मियेधेऽस्माभिः क्रियमाणेऽस्मिन्यज्ञे होतारं होमनिष्पादकं देवानामाह्वातारं वाहं प्रवृणे । प्रकर्षेण सम्भजे । स तथाविधोऽग्निर्यजीयान् यष्टृतमः सन् नोऽस्माकं देवताता यष्टव्यतया सम्बन्धिनो देवान्यक्षत् । यजतु । किञ्च सोऽग्नी राये धनाय वाजायान्नाय च मघानि मम्हनीयान्यस्माभिर्दीयमानानि हवींषि वनते । सम्भजताम् । वृणे । वृङ् सम्भक्तौ । निघातः । मियेधे । मकारैकारयोर्मध्य इयागमश्छान्दसः । गृत्सम् । गृधु अभिकांक्षायाम् । गृधिपण्योर्दकौ च । उ. ३-६९ । इति सप्रत्ययः । अन्त्यस्य दकारः । व्यत्ययेनाद्युदात्तत्वम् । अमूरम् । मुह वैचित्य इत्यस्य निष्ठयां रूपम् । रेफष्छान्दसः । न ञा समासे तस्य नञ्स्वरः । यक्षत् । यजेर्लेटि सिब्बहुलं लेटीति सिप् । लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । देवताता । देवशब्दात्स्वार्थे सर्वदेवात्तातिलिति तातिल् । सुपां सुलुगिति सुपो डादेशः । लित्स्वरः । वनते वन षण सम्भक्तावित्यस्य लिटि व्यत्ययेनात्मने पदम् । निघातः ॥ १ ॥

3.19.2
प्र ते᳚ अग्ने ह॒विष्म᳚तीमिय॒र्म्यच्छा᳚ सुद्यु॒म्नां रा॒तिनीं᳚ घृ॒ताची᳚म् ।
प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः सं रा॒तिभि॒र्वसु᳚भिर्य॒ज्ञम᳚श्रेत् ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । अ॒ग्ने॒ । ह॒विष्म᳚तीम् । इ॒य॒र्मि॒ । अच्छ᳚ । सु॒॑द्यु॒म्नाम् । रा॒तिनी᳚म् । घृ॒ताची᳚म् ।
प्र॒॑द॒क्षि॒णित् । दे॒व॑ता᳚तिम् । उ॒रा॒णः । सम् । रा॒ति॑भिः᳚ । वसु᳚॑भिः । य॒ज्ञम् । अ॒श्रे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सुद्युम्नां सुतेजसं हविष्मतीं पुरोडाशादिहविर्युक्तां रातिनीं हविर्दात्रीं घृताचीं घृतान्वितां जुहूमुपभृतं वा ते तवाच्छ त्वदाभिजुख्येन प्रेयर्मि । प्रेरयामि । देवतातिं देवान् उराण उरु बहु कुर्वाणः । उराण उरु कुर्वाणः । नि. ६-१२ । इति यास्कः । तादृशो भवान् रातिभिर्वसुभिरस्मभ्यं देयतया प्राप्तैर्धनैः सह सन् प्रदक्षिणित् प्रादक्षिण्येन सुमश्रेत् । तमिमंयज्ञं सम्यक् सेवताम् । हविष्मतीम् । हविरस्यास्तीति मतुप् । तसौ मत्वर्थ इति भसंज्ञायां सकारस्य रुर्न बवति । उगितश्चेति ञीप् । स्वरविधौ व्यञ्जनमविद्यमानवदिति परिभाषानाश्रयणान्मतुप उदात्तताभावः । इयर्मि । ऋ गतौ । जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अभ्यासस्यासवर्ण इतीयङादेशः । मिपः पित्त्वाद्गुणः । निघातः । अच्छ । निपातस्येति सम्हितायां दीर्घः । रातिनीम् । रा दान इत्यस्य नपुम्सके भावे क्तः । रातमस्यास्तीत्यत इनिठनावितीनिः । प्रत्ययस्वरः । घृताचीम् । घृतपूर्वादञ्चतेरृत्विक् दधृगित्यादिना क्विन् । अञ्चतेश्चोपसंख्यानमिति ङीप् । भसंज्ञायामच इत्यकारलोपः । चाविति दीर्घः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते चाविति पुर्वपदान्तोदात्तः । प्रदक्षिणित् । प्रदक्षिणं करोतीति तत्करोतीति णिजुत्पद्यमानो दक्षिणशब्दाद्भवति । सङ्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिर्नान्यस्मादिति तदन्तात् क्विप् । ह्रस्वस्य पिति । पा. ६-१-२१ । इति तुक् । णिचो लोपाभावश्छान्दसः । निच् स्वरः । देवतातिम् । देवशब्दात्सर्वदेवात्तालिति तातिल् । लितीति प्रत्ययत्पूर्वस्योदात्तत्वम् । उराणः । उरु करोतीति तत्करोतीति णिच् । तदन्ताच्छन्दसि लिट् । मन्त्रत्वादाम्नभवति । तस्य कानच् । णेरनिटीति णिलोपः । वरादेशाभावश्छान्दसः । चित्त्वादन्तोदात्तः । अश्रेत् । श्रिञ् सेवायामित्यस्य छान्दसे लु~इ बबुलं छन्दसीति शपो लुक् । निघातः ॥ २ ॥

3.19.3
स तेजी᳚यसा॒ मन᳚सा॒ त्वोत᳚ उ॒त शि᳚क्ष स्वप॒त्यस्य᳚ शि॒क्षोः ।
अग्ने᳚ रा॒यो नृत᳚मस्य॒ प्रभू᳚तौ भू॒याम᳚ ते सुष्टु॒तय᳚श्च॒ वस्व᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । तेजी᳚यसा । मन᳚सा । त्वा॑ऊ᳚तः । उ॒त । शि॒क्ष॒ । सु॒॑अ॒प॒त्यस्य᳚ । शि॒क्षोः ।
अग्ने᳚ । रा॒यः । नृ॑त᳚मस्य । प्र॑भू᳚तौ । भू॒याम᳚ । ते॒ । सु॒॑स्तु॒तयः᳚ । च॒ । वस्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वोतो यस्त्वया रक्ष्यमाणः स तेजीयसातिशयेन तीक्ष्णेन सत्कर्मविषयतीक्ष्णबुद्धियुक्तेन मनसान्तः करणेन युक्तो भवति । उत अपि च तस्मै स्वपत्यस्य । द्वितीयार्थे षष्ठी । शोभनापत्योपेतं धनं तिक्ष । प्रयच्छ । शिक्षतिर्दानकर्मा दात्यादिषु दानकर्मसु पठितत्वात् । हे अग्ने शिक्षोरभिमतफलप्रदाने शकितुमिच्छो रायो नृतमस्य धनस्यातिशयेन नेतुर्दातुस्ते तव प्रभूतौ प्रभावे महिम्नि वयं स्याम । किञ्च सुष्टुतयस्त्वद्विषयशोभनस्तुतिमन्तो वयं वस्वोवसुनो भाजनं भूयाम । भूयास्म । तेजीयसा । तेजितृशब्दादतिशायन ईयसुन् । तुरिष्ठेमेयः स्विति तृचो लोपः । नित्स्वरः । त्वोतः । अव रक्षणादिषु । इष्ठायां ज्वरत्वरस्रिव्यविमवामुपधाया इत्यूठ् । अलोपः । त्वया ऊतः । तृय्तीयेति योगविभागात्समासः । टेर्लोपश्छान्दसः । तृतीया कर्मणीति पूर्वपद प्रकृतिस्वरः । शिक्ष । शिक्ष विद्योपादान इत्ययमत्र दानार्थः । अस्माल्लोटि व्यत्ययेन परस्मैपदम् । शिक्षोः । शक् लृ शक्तावित्यस्य सन्येकाच उपदेश इति इट् प्रतिषेधः । सनिमीमाघुरभलभशकपतपदामच इसिति धातोरच इसादेशः । अत्र लोपोऽभ्यासस्येत्यभ्यासलोपः । सनाशंसभिक्ष उरित्युप्रत्ययः । प्रत्ययस्वरः । प्रभूतौ । भूसत्तायामित्यस्य भावे क्तिन् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । भूयाम । भू सत्तायामित्यस्याशीर्लिङ् किदाशिषीति यासुट् । छन्दस्युभयथेति तस्य सार्वधातुकत्वात्सलोपः । आगमस्वरः । यद्वा तस्मात्प्रार्थनायां लिङे यासुट् । बहुलं छन्दसीति शपो लुक् । अनदन्तत्वादियादेशो न भवति । सुष्टुतयः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । वस्वः । आगमानुशासनस्यानित्यत्वान्नुमभावः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । यणादेशः ॥ ३ ॥

3.19.4
भूरी᳚णि॒ हि त्वे द᳚धि॒रे अनी॒काग्ने᳚ दे॒वस्य॒ यज्य᳚वो॒ जना᳚सः ।
स आ व᳚ह दे॒वता᳚तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा᳚सि ॥
▶ पदपाठः (Word-by-word)
भूरी᳚णि । हि । त्वे इति᳚ । द॒धि॒रे । अनी᳚का । अग्ने᳚ । दे॒वस्य᳚ । यज्य᳚वः । जना᳚सः ।
सः । आ । व॒ह॒ । दे॒व॑ता᳚तिम् । य॒वि॒ष्ठ॒ । शर्धः᳚ । यत् । अ॒द्य । दि॒व्यम् । यजा᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देवस्य द्योतमानस्य तव सम्बन्धिनो यज्यवो यष्टारोऽध्वर्य्७उप्रभृतयो जनासो जना भूरीणि बहून्यनीका अनीकानि सेनारूपतया सर्वत्र प्रसृतानि ज्वालारूपाणि तेजांस्याहुतिप्रक्षेपेण त्वे त्वयि दधिरे हि । विदधिरे खलु । चक्रुरिति यावत् । स तादृशस्त्वं देवतातिं यष्टव्यदेवानिह कर्मण्यावह । आह्वय । हे यविष्ठ युवतम यद्यस्मात्कारणादद्यास्मिन्कर्मणि दिव्यं दिवि भवं देवसम्बन्धि शर्धस्तेजस्त्वं यजासि यजसि । तस्माद्देवानाह्वयेति शेषः ॥ दधिरे । दधातेर्लिटि रूपम् । हियोगादनिघातः । चित्त्वादन्तोदात्तः । यज्यवः । यज देवपूजादिषु । यजिमनिशुन्धिदसिजनिभ्यो युजिति युच् । व्यत्ययेनाद्युदात्तत्वम् । देवतातिम् । देवशब्दात्स्वार्थे सर्वदेवात्तातिलिति तातिल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यजासि । यजेर्लेट्याडागमः । यद्योगादनिघातः ॥ ४ ॥

3.19.5
यत्त्वा॒ होता᳚रम॒नज᳚न्मि॒येधे᳚ निषा॒दय᳚न्तो य॒जथा᳚य दे॒वाः ।
स त्वं नो᳚ अग्ने॑वि॒तेह बो॒ध्यधि॒ श्रवां᳚सि धेहि नस्त॒नूषु᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । त्वा॒ । होता᳚रम् । अ॒नज᳚न् । मि॒येधे᳚ । नि॒॑सा॒दय᳚न्तः । य॒जथा᳚य । दे॒वाः ।
सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि᳚ । श्रवां᳚सि । धे॒हि॒ । नः॒ । त॒नूषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यजथाय यजनार्थं निषादयन्तो निवसन्तो देवा दीप्यमाना ऋत्विजो मियेधे मेधे यज्ञे योगारं देवानामाह्वातारं त्वा त्वां यद्यस्मादनजन् । घृताहुतिभिरौक्षन् । यद्वा निषादयन्तो होतारं होमनिष्पावकं त्वां बर्हिष्युपवेशयन्त ऋत्विजो घृतैरसिञ्चन् तस्मात्स तथाविधस्त्वमिहास्मिन्कर्मणिनो‍स्माकमविता पालयिता भवामीति बोधि । बुध्यस्व । किञ्च नस्तनुष्वस्माकं तनुजेष्वपत्येषु श्रवांस्यन्नान्यधि धेहि । अधिकं निधेहि ॥ अनजन् । अञ्जू व्यक्तिगतिम्रक्षणेषु । अस्मालङ् रुधादित्वात् श्नम् । छान्दसत्वादल्लोपाभावः । अनिदितामित्युपधालोपः । निषादयन्तः । षदलृ विशरणगत्यवसादनेषु । चुरादिः । सदेरप्रतेरिति षत्वम् । यद्वा । हेतुमति णिच् । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते णिच् स्वरः । बोधि । बुध अवगहने । लोटि बहुलं छन्दसीति शपो लुक् । सेर्ह्यपिच्चेति सिपो हिरादेशः । वा छन्दसीति विकल्पेन पित्त्वाद्गुणः । हुझुल्भ्यो हेर्धिरिति हेर्धिरादेशः । धकारलोपष्छान्दसः । निघातः । धेहि । दधातेर्लोटि ऋपं ॥ ५ ॥