तृतीयं मण्डलम् - सूक्तम् 62

18 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 3.62 - सम्पूर्णम्

1 / 18
ऋक्: 3.62.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
3.62.1
इ॒मा उ᳚ वां भृ॒मयो॒ मन्य᳚माना यु॒वाव᳚ते॒ न तुज्या᳚ अभूवन् ।
क्व१॒᳚ त्यदि᳚न्द्रावरुणा॒ यशो᳚ वां॒ येन᳚ स्मा॒ सिनं॒ भर᳚थ॒ः सखि᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । वा॒म् । भृ॒मयः᳚ । मन्य᳚मानाः । यु॒वा॑व᳚ते । न । तुज्याः᳚ । अ॒भू॒व॒न् ।
क्व᳚ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः᳚ । वा॒म् । येन᳚ । स्म॒ । सिन᳚म् । भर᳚थः । सखि᳚॑भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमा उ वामित्यष्टादशर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका । इमा उ द्व्यूनैन्द्रावरुणबार्हस्पत्यपौष्णसावित्र सौ म्य मैत्रावरुणास्तृचा अन्त्यो जमदग्न्यार्षो वा चतुर्थ्याद्या गायत्र्य इति । कृत्स्नस्य विश्वामित्र ऋषिरन्त्यस्य तृचस्य जमदग्निर्वा । आद्यास्तिस्रस्त्रिष्टुभः शिष्टाः पञ्चदश गायत्र्यः । प्रथमस्येन्द्रावरुणौ देवता द्वितीयस्य बृहस्पतिस्तृतीयस्य पूषा चतुर्थस्य सविता पञ्चमस्य सोमः षष्ठस्य मित्रावरुणौ । आभिप्लविकेषुक्थ्येषु तृतीयसवने स्तोमवृद्धौ सत्यां स्वस्वशस्त्रे होत्रका अन्त्यसूक्तमवशेष्य स्तोमाभिशंसनार्थं तृचादिसंख्या ऋच आवपेयुः । तत्र मैत्रावरुणस्यावापार्थमाद्यस्तृचः । सूत्रितं च । इमा उ वां भृमयो मन्यमाना इति तिस्रः । आ. ७-९ । इति ॥

हे इन्द्रावरुणौ वां युवयोः सम्बन्धिन्यो मन्यमाना बलिभिः शत्रुभिरभिमन्यमाना अत एव भृमयो भ्रमणशीला इमाः प्रजाः । उः पूरणः । युवावते । तृतीयार्थे चतुर्थी । यौवनवता बलिना शत्रुणा तुज्या हिंस्या नाभूवन् । न भवन्तु । अपि च वां युवयोस्त्यत्तादृशं यशः क्व कुत्रास्ते । येन यशसा सखिभ्योऽस्मभ्यं सिन्नमन्नं भरथः स्म प्रदातुं सम्पादयथः । तत्क्वास्त इत्यन्वयः । यद्वा । हे इन्द्रावरुणौ वां युवयोः सम्बन्धिन्य इमा अस्माभिः क्रियमाणा भृमयो युवां प्रप्तुं भ्रमणशीला मन्यमानाः । मन्यरिरर्चतिकर्मा । युवामर्चन्त्यस्ताः स्तुतयो युवावते युवाभ्यां सदृशायास्न्य्स्मै देवाय न तुज्याः । तुजतिर्दानकर्मार्थः । प्रदेया मा भूवन् । शिष्टं समानम् । भृमयः । भ्रमुअनवस्थाने । भ्रमेः सम्प्रसारणं चेतीन्प्रत्ययः सम्प्रसारणं च । व्यत्ययेनान्तोदात्तत्वम् । युवावते । युश्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानमिति वतुप् । अविभक्तावपि युवादेशश्छान्दसः । तुज्याः । तुज हिंसादाननिकेतनेशु । अघ्न्यादयश्चेति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । सिनम् । पिञ् बन्धने । इण्षिञ्दीङुश्यविभ्यो नगिति नक् । व्यत्ययेनाद्युदात्तत्वं ॥ १ ॥

3.62.2 समानपद
अ॒यमु᳚ वां पुरु॒तमो᳚ रयी॒यञ्छ᳚श्वत्त॒ममव᳚से जोहवीति ।
स॒जोषा᳚विन्द्रावरुणा म॒रुद्भि᳚र्दि॒वा पृ᳚थि॒व्या शृ᳚णुतं॒ हवं᳚ मे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ऊं॒ इति᳚ । वा॒म् । पु॒रु॒॑तमः᳚ । र॒यि॒॑यन् । श॒श्व॒त्॑त॒मम् । अव᳚से । जो॒ह॒वी॒ति॒ ।
स॒॑जोषौ᳚ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्॑भिः᳚ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव᳚म् । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ रयीयन् रयिमात्मन इच्छन्नयमु पुरुतमो वैदिककर्मप्रवृत्ततयातिशयेन पुरुर्महान्यजमानोऽवसे रक्षणायान्नाय वा वां युवां शश्वत्तमं सर्वदा जोहवीति । भृशमाह्वयति । मरुद्भिर्देवविशेषैर्दिवा पृथिव्या च सजोषौ सङ्गच्छन्तौ युवां मे मम हवं युष्मदीयमाह्वानं शृणुतम् । पुरुतमः । तमपो व्यत्ययेनाद्युदात्तत्वम् । जोहवीति । ह्वयतेर्यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारने रूपम् । दिवा । ऊडिदमिति विभक्तेरुदात्तत्वम् । पृथिव्या । उदात्तयणो हल्पूर्वादित्युदात्तत्वम् । हवम् । ह्वयतेर्भावेऽनुपसर्गस्येत्यप् । प्रत्ययस्य पित्त्वादनुदात्तत्वं ॥ २ ॥

3.62.3
अ॒स्मे तदि᳚न्द्रावरुणा॒ वसु᳚ ष्याद॒स्मे र॒यिर्म᳚रुत॒ः सर्व᳚वीरः ।
अ॒स्मान्वरू᳚त्रीः शर॒णैर᳚वन्त्व॒स्मान्होत्रा॒ भार᳚ती॒ दक्षि᳚णाभिः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु᳚ । स्या॒त् । अ॒स्मे इति᳚ । र॒यिः । म॒रु॒तः॒ । सर्व᳚॑वीरः ।
अ॒स्मान् । वरू᳚त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा᳚ । भार᳚ती । दक्षि᳚णाभिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणावस्मे अस्मासु तदभिलषितं तादृशं वसु धनं स्यात् । भवतु । हे मरुतः सर्ववीरः सर्वेषु कर्मसु वीरः समर्थो रयिः पुत्र पौत्र युक्तः पशुसङ्घः । पशवो वै रयिरिति तैत्तिरीयकम् । सोऽस्मे अस्माकं भवतु । वरूत्रीः सर्वैः सम्भजनीया देवपल्यः शरणैः । शृण्वन्ति शीतादिक्लेशमिति शरणानि गृहाम् । तैरस्मानवन्तु । होत्रा । हूयन्तेऽस्यां हवींषीति । यद्वा । हूयते तत्र प्राण इति होत्रा वाक् । तथा च श्रुतिः । वाचि हि प्राणं जुहुमः प्राणे वा वाचम् । कौ. उ. २-५ । इति । यद्वा । होत्रेति यज्ञनाम । हूयते तत्र हविरिति । यज्ञश्च वागुच्यते । वाचं यच्छन्ति वाग्वै यज्ञः । ऐ. ब्रा. ५-२४ । इति ब्राह्मणम् । तादृशी भारती सरस्वती दक्षिणाभिर्गोरूपाभिर्दक्षिणाभिः । यद्वा । उदाराभिर्वग्भिरस्मान् पालयतु । वसुष्यादित्यत्र संहितायां पूर्वपदादिति षत्वम् । वरूत्रीः । ग्रसितस्कभितेत्यादिना ङीबन्तत्वेन निपातनादिष्टसिद्धिः । होत्रा । हु दानादनयोः । हुयामाश्रुभसिभ्यस्त्रन्नित्यधिकरणे त्रन्प्रत्ययः ॥ ३ ॥

3.62.4
बृह᳚स्पते जु॒षस्व᳚ नो ह॒व्यानि᳚ विश्वदेव्य ।
रास्व॒ रत्ना᳚नि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
बृह᳚स्पते । जु॒षस्व᳚ । नः॒ । ह॒व्यानि᳚ । वि॒श्व॒॑दे॒व्य॒ ।
रास्व᳚ । रत्ना᳚नि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वदेव्य सर्वदेवहित हे बृहस्पते नोऽस्मत्सम्बन्धीनि हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषिइ जुषस्व । सेवस्व । ततस्त्वं दाशुषे हविर्दत्तवते यजमानाय मह्यं रत्नान्युत्तमानि धनानि रास्व । देहि । रास्व । रा दाने । व्यत्ययेनात्मनेपदं ॥ ४ ॥

3.62.5
शुचि᳚म॒र्कैर्बृह॒स्पति᳚मध्व॒रेषु᳚ नमस्यत ।
अना॒म्योज॒ आ च᳚के ॥
▶ पदपाठः (Word-by-word)
शुचि᳚म् । अ॒र्कैः । बृह॒स्पति᳚म् । अ॒ध्व॒रेषु᳚ । न॒म॒स्य॒त॒ ।
अना᳚मि । ओजः᳚ । आ । च॒के॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजो यूयमध्वरेषु शुचिं शुद्धं बृहस्पतिमर्कैरर्चनीयैः स्तोत्रैर्नमस्यत । परिचरत । अनाम्यनमनशीलं परैरनभिभवनीयमोजस्तस्य बलमाचके । सर्वतो याचे । बृहस्पतिम् । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरः । चके । कमेर्लिट्युत्तमे मकारलोपश्छान्दसः ॥ ५ ॥

3.62.6
वृ॒ष॒भं च᳚र्षणी॒नां वि॒श्वरू᳚प॒मदा᳚भ्यम् ।
बृह॒स्पतिं॒ वरे᳚ण्यम् ॥
▶ पदपाठः (Word-by-word)
वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । वि॒श्व॑रू᳚पम् । अदा᳚भ्यम् ।
बृह॒स्पति᳚म् । वरे᳚ण्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चर्षणीनां मनुष्याणां वृषभमभिमतफलवर्षकं विश्वरूपं व्याप्तरूपम् । यद्वा । विश्वरूपानामकगोवाहनोपेतम् । तथा च मन्त्रवर्णः । बृहस्पतिर्विश्वरूपामुपाजत । ऋग्वे. १-१६१-६ । इति । अदाभ्यं केनाप्यतिरस्करणीयं वरेण्यं सर्वैर्भजनीयं बृहस्पतिम् । अभिमतफलं यच इति पूर्वेणान्वयः । विश्वरूपम् । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम् । यद्वा । विश्वरूपास्य सतीति अर्शाअदित्वादच् प्रत्ययः । मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम् । अदाभ्यम् । दभेश्चेति वक्तव्यमिति ण्यत्प्रत्ययः ॥ ६ ॥

3.62.7
इ॒यं ते᳚ पूषन्नाघृणे सुष्टु॒तिर्दे᳚व॒ नव्य᳚सी ।
अ॒स्माभि॒स्तुभ्यं᳚ शस्यते ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । ते॒ । पू॒ष॒न् । आ॒घृ॒णे॒ । सु॒॑स्तु॒तिः । दे॒व॒ । नव्य᳚सी ।
अ॒स्माभिः᳚ । तुभ्य᳚म् । श॒स्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अघृणे आगतदीप्तिमन् हे पूषन् देव नव्यसी नवतरेयं सुष्टुतिः शोभनस्तुतिरूपा वाक् ते त्वत्सम्बन्धीनि भवति । सैषा स्तुतिरस्माभिः स्तोतृभिस्तुभ्यं त्वदर्थं शस्यते । तां जुषस्वेत्युत्तरेणान्वयः ॥ ७ ॥

3.62.8
तां जु᳚षस्व॒ गिरं॒ मम᳚ वाज॒यन्ती᳚मवा॒ धिय᳚म् ।
व॒धू॒युरि᳚व॒ योष᳚णाम् ॥
▶ पदपाठः (Word-by-word)
ताम् । जु॒ष॒स्व॒ । गिर᳚म् । मम᳚ । वा॒ज॒॑यन्ती᳚म् । अ॒व॒ । धिय᳚म् ।
व॒धू॒युः॑इ᳚व । योष᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूशन् स्तोत्रं कुर्वाणस्य मम तां तादृशीं गिरं स्तुतिलक्शणां वाचं जुषस्व । सेवस्व । स्तुत्या प्रीतस्त्वं वाजयन्तीं वाजमन्नमिच्छन्तीं हर्षकारिणीं धियमिमां स्तुतिं प्रत्यव । अभिगच्छ । तत्र दृष्टान्तः । वधूयुरिव । यथा वधूयुः स्त्रीकामो योषणा स्त्रियं प्रत्यागच्छति तद्वत् । वाजयन्तीम् । वाजशब्दादिच्छतीत्यर्थे क्यच् । तदन्ताच्छतरि ङीपि रूपम् । ङीपोऽनुदात्तत्वे प्रत्ययस्वरः । अव । अव रक्षणादिष्वित्यस्य लोति रूपं ॥ ८ ॥

3.62.9
यो विश्वा॒भि वि॒पश्य᳚ति॒ भुव᳚ना॒ सं च॒ पश्य᳚ति ।
स नः᳚ पू॒षावि॒ता भु᳚वत् ॥
▶ पदपाठः (Word-by-word)
यः । विश्वा᳚ । अ॒भि । वि॒॑पश्य᳚ति । भुव᳚ना । सम् । च॒ । पश्य᳚ति ।
सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पूषा विश्वा भुवना सर्वाल्लोकानभि अभिमुख्येन विपश्यति विशेशेण पश्यति । किञ्च तानि सं पश्यति तत्तद्वस्तुयाथात्म्यं सम्यक् जानाति । स तादृशः पूषा देवो नोऽस्माकमविता रक्षको भुवत् । भवतु । विपश्यति । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गत्रेनिघातः । पश्यति । अत्र सकर्मकत्वात्परस्मै पदम् । पूर्ववदनिघातः । भवत् । भवतेर्लेट्यडागमः । भूसुवोस्तिङीति गुणप्रतिषेध उवङादेशः । निघातः ॥ ९ ॥

3.62.10
तत्स᳚वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य᳚ धीमहि ।
धियो॒ यो नः᳚ प्रचो॒दया᳚त् ॥
▶ पदपाठः (Word-by-word)
तत् । स॒वि॒तुः । वरे᳚ण्यम् । भर्गः᳚ । दे॒वस्य᳚ । धी॒म॒हि॒ ।
धियः᳚ । यः । नः॒ । प्र॒॑चो॒दया᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशरात्रस्य षष्ठेऽहनि वैश्वदेवशस्त्रे तत्सवितुरिति द्वे ऋचौ प्रतिपत्तृचस्य द्वितीयातृतीये । सूत्रितं च । तत्सवितुर्वरेण्यमिति द्वे दोषो आगात् । आ. ८-१ । इति । अभिप्लवपृष्ठ्यषडहयोर्द्वितीयेऽहनि वैश्वदेवशस्त्रे प्रतिपत्तृचस्यैते एव प्रथमाद्वितीये । सूत्रितं च । तत्सवितुर्वरेण्यमिति द्वे आविश्वदेवम् । आ. ७-६ । इति ॥

यः सविता देवो नोऽस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धिः प्रचोदयात् प्रेरयेत् तत्तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैरुपास्यतया ज्ञेयतया च सम्भजनीयं भर्गोऽविद्यातत्कार्ययोर्भजनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजो धीमहि । वयं ध्यायामः । यद्वा । तदिति भर्गोविशेषणम् । सवितुर्देवस्य तत्तादृशं भर्गो धीमहि । किं तदित्यपेक्षायामाह । य इदि लिङ्गव्यत्ययः । यद्भर्गोधियः प्रचोदयात् । तद्द्यायेमेति समन्वयः । यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुर्देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैर्दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः सम्भजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि । ध्येयतया मनसा धारयेम । यद्वा । भर्गः शब्देनान्नमभिधीयते । यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद्भर्गोऽन्नादिलक्शणं फलं धीमहि । धारयामः । तस्याधारभूता भवेमेत्यर्थः । भर्गः शब्दस्यान्नपरत्वे धीशब्दस्य कर्मपरत्वे चाथर्वनम् । वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः कर्मणि धियस्तदु ते प्रब्रवीमि प्रचोदयंत्सविता याभिरेतिति । तो. ब्रा. १-३२ । भर्गः । भ्रस्ज पाके । असुन् । भ्रस्जो रोपधयो रमन्यतरस्याम् । पा. ६-४-४२ । इति रोपधयोर्लोपो रमागमः । न्यंक्वादिपाठात् कुत्वम् । धीमहि । ध्यायतेर्लिङि बहुलं छन्दसीति संप्रसारणम् । व्यत्ययेनात्मने पदम् । यद्वा । धीङ् आधारे । लिङि बहुलं छन्दसीति विकरणस्य लुक् । प्रचोदयात् । चोदयतेर्लेट्याडागमः । यद्वृत्तयोगादनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ १० ॥

3.62.11
दे॒वस्य᳚ सवि॒तुर्व॒यं वा᳚ज॒यन्त॒ः पुरं᳚ध्या ।
भग᳚स्य रा॒तिमी᳚महे ॥
▶ पदपाठः (Word-by-word)
दे॒वस्य᳚ । स॒वि॒तुः । व॒यम् । वा॒ज॒॑यन्तः᳚ । पुर᳚म्॑ध्या ।
भग᳚स्य । रा॒तिम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजयन्तो वाजमन्नमात्मन इच्छन्तो वयं देवस्य द्योतमानस्य सवितुः पुरन्ध्या तद्विषयस्तुत्या प्रज्ञया वा भगस्य भजनीयस्य धनस्य रातिम् दानमीमहे । याचामहे । रातिम् । मन्त्रे वृषेत्यादिना क्तिन उदत्तत्वं ॥ ११ ॥

3.62.12
दे॒वं नरः᳚ सवि॒तारं॒ विप्रा᳚ य॒ज्ञैः सु᳚वृ॒क्तिभि᳚ः ।
न॒म॒स्यन्ति᳚ धि॒येषि॒ताः ॥
▶ पदपाठः (Word-by-word)
दे॒वम् । नरः᳚ । स॒वि॒तार᳚म् । विप्राः᳚ । य॒ज्ञैः । सु॒वृ॒क्ति॑भिः᳚ ।
न॒म॒स्यन्ति᳚ । धि॒या । इ॒षि॒ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः कर्मणां नेतारो विप्रा मेह्दाविनोऽध्वर्व्यादयो धियेषिताः कर्मणा बुद्ध्या वा प्रेर्यमाणाः सन्तः सवितारं देवं त्वां यज्ञैर्यजनीयैर्हविर्भिः सुवृक्तिभिः शोभनस्तोत्रैश्च नमस्यन्ति । परिचरन्ति । नमस्यन्ति । नमोवरिवश्चित्रङः क्यजिति क्यच् ॥ १२ ॥

3.62.13
सोमो᳚ जिगाति गातु॒विद्दे॒वाना᳚मेति निष्कृ॒तम् ।
ऋ॒तस्य॒ योनि᳚मा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । जि॒गा॒ति॒ । गा॒तु॒॑वित् । दे॒वाना᳚म् । ए॒ति॒ । निः॒॑कृ॒तम् ।
ऋ॒तस्य᳚ । योनि᳚म् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नीषोमप्रनयने सोमो जिगातीत्याद्यास्तिस्र ऋचः । सूत्रितं च । सोमो जिगाति गातुविद्देवानां तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च अरमेत् । आ. ४-१० । इति ।

गातुवित् गातुर्वेदिमार्गः तं जानानः सोमो जिगाति । गच्छति । गन्तव्यं स्थानं दर्शयति । देवानां सम्बन्धि निष्कृतं संस्कृतमासदं सर्वैरासदनीयमृतस्य यज्ञस्य योनिं स्थानं हविर्धानाख्यमेति । प्राप्नोति । जिताति । गा स्तुतौ । जुहोत्यादिः ॥ १३ ॥

3.62.14
सोमो᳚ अ॒स्मभ्यं᳚ द्वि॒पदे॒ चतु᳚ष्पदे च प॒शवे᳚ ।
अ॒न॒मी॒वा इष᳚स्करत् ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । अ॒स्मभ्य᳚म् । द्वि॒॑पदे᳚ । चतुः᳚॑पदे । च॒ । प॒शवे᳚ ।
अ॒न॒मी॒वाः । इषः᳚ । क॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमः स्तोतृभ्योऽस्मभ्यं तथा द्विपदेऽस्मदीयाभ्यो द्विपाद्भ्यः प्रजाभ्यश्चतुष्पदे पशवे चतुष्पाद्भ्यो गवादिपशुभ्यश्चानमीवा रोगवर्जितानीषोऽन्नानिकरत् । करोतु । चतुष्पदे । भ संज्ञायां पादस्य पद्भावः । इसुसोः सामर्थ्य इति सम्हितायां सत्वम् । आदेशप्रत्यययोरिति षत्वम् । बहुव्रिहौ पूर्वपदस्वरः । करत् । करोतेर्लेट्यडागमः । इषस्करदित्यत्र सम्हितायां कः करत्करतीत्यादिना सत्वं ॥ १४ ॥

3.62.15
अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚ती॒ः सह᳚मानः ।
सोमः᳚ स॒धस्थ॒मास᳚दत् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । आयुः᳚ । व॒र्धय᳚न् । अ॒भि॑मा᳚तीः । सह᳚मानः ।
सोमः᳚ । स॒ध॑स्थ᳚म् । आ । अ॒स॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स सोमो देवोऽस्माकमायुरन्नं जीवनं वा वर्धयन्वृद्धिं प्रापयन्नभिमातीः कर्मविघ्नकारिनः शत्रून् सहमानोऽभिभवन्नस्माकं सधस्थं हविर्धानाख्यं स्थानमासदत् । आसीदतु । असदत् । सदेर्लेटि रूपम् । निघातः ॥ १५ ॥

3.62.16
आ नो᳚ मित्रावरुणा घृ॒तैर्गव्यू᳚तिमुक्षतम् ।
मध्वा॒ रजां᳚सि सुक्रतू ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तैः । गव्यू᳚तिम् । उ॒क्ष॒त॒म् ।
मध्वा᳚ । रजां᳚सि । सु॒क्र॒तू॒ इति᳚ सु॑क्रतू ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निष्टोमे प्रातःसवने मैत्रावरुणशस्त्र आ नो मित्रावरुणेति स्तोत्रियस्तृचः । सूत्रितं च । आ नो मित्रावरुना नो गन्तं रिशादसा । आ. ५-१० । इति । चतुर्विंशेऽहैन् प्रातः सवने मैत्रावरुणे शस्त्र आनो मित्रावरुणेति षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च । आ ने मित्रावरुणा मित्रं वयं हवामहे । आ. ७-२ । इति । स्तोमवृद्धावयमेव तृच आवापार्थः । सूत्रितं च । आ नो मित्रावरुणेति तृचौ (आ ७-५) इति । दाक्शायणे यज्ञे द्वे अमावस्ये कर्तव्य । तत्रोत्तरस्याममावास्यायां द्वितीयेऽहनि मैत्रावरुण आ नो मित्रावरुणेति तस्यानुवाक्या । सूत्रितं च । आ नो मित्रावरुणा यद्बंहिष्थं नातिविधे सुदानू । आ. २-१४ । इति ।

सुक्रतू शोभनकर्माणौ हे मित्रावरुणौ नोऽस्माकं गव्यूतिं गवां मार्गं गोनिवासस्थानं घृतैः क्शरणसाधनैः पयोधिरोक्षतम् । समन्तात्सिञ्चतम् । अस्मभ्यं दोग्ध्रीर्गाः प्रयच्छतमिति भावः । रजां स्यस्मदवासस्थानानि मध्वा मधुररसेन सिञ्चतम् । गव्यूतिम् । गोर्यूतौ छन्दसीति वान्तादेशः । मध्वा । सर्वविधीनां छन्दसि विकल्पितत्वादत्र नुमागमाभावः ॥ १६ ॥

3.62.17
उ॒रु॒शंसा᳚ नमो॒वृधा᳚ म॒ह्ना दक्ष᳚स्य राजथः ।
द्राघि᳚ष्ठाभिः शुचिव्रता ॥
▶ पदपाठः (Word-by-word)
उ॒रु॒॑शंसा᳚ । न॒मः॒॑वृधा᳚ । म॒ह्ना । दक्ष᳚स्य । रा॒ज॒थः॒ ।
द्राघि᳚ष्ठाभिः । शु॒चि॒॑व्र॒ता॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुचिव्रता परिशुद्धकर्माणौ हे मित्रावरुनावुरुशंसा उरुभिर्बहुभिः शंसनीयौ । यद्वा । उरु महच्छंसः शस्त्रं ययोस्तौ । नमोवृधा नमसा हविर्लक्षणेनान्नेन स्तोत्रेण वा वर्धमानौ द्राघिष्ठाभिरत्यन्तं दीर्घस्तुतिलक्षणाभिर्वाग्भिर्युक्तौ युवां दक्शस्य । दक्षं धनं बलं वा । तस्य मह्ना महत्त्वेन राजथः । ईशाथे । उरुशंसा । सह्न्सु स्तुतौ । कर्मणि घञ् । कृत्स्वरः । द्राघिष्ठाभिः । दीर्घशब्दादिष्ठनि प्रियस्थिरेत्यादिना द्राघीत्यादेशः । नित्त्वादाद्युदात्तः ॥ १७ ॥

3.62.18
गृ॒णा॒ना ज॒मद᳚ग्निना॒ योना᳚वृ॒तस्य᳚ सीदतम् ।
पा॒तं सोम᳚मृतावृधा ॥
▶ पदपाठः (Word-by-word)
गृ॒णा॒ना । ज॒मत्॑अ᳚ग्निना । योनौ᳚ । ऋ॒तस्य᳚ । सी॒द॒त॒म् ।
पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मैत्रावरुणस्य ग्रहस्य यज्या गृणाना जमदग्निनेत्येषा । सूत्रितं च । होता यक्षन्मित्रावरुणा गृणाना जमदग्ना । आ. ५-५ । इति । अध्यायोपाकरणे मण्डलाद्यन्तहोमे गृणाना जमदग्निनेत्येषा । आ. गृ. ३-५ ॥

हे मित्रवरुणौ जमदग्निनैतन्नामकेन महर्षिणा गृणाना स्तूयमानौ यद्वा । जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण स्तूयमानौ युवामृतस्य यज्ञस्य यौनौ देवयजनाख्ये देशे सीदतम् । उपविशतम् । ऋतावृधा ऋतस्य कर्मफलस्य वर्धयितारौ युवां सोमं पातम् । पिबतम् । गृणाना । गॄ शब्दे । व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तः । सीदतम् । सदेर्लोटि प्राघ्रात्यादिना सीदादेशः । पातम् । पा पाने । बहुलं छन्दसीति शपो लुक् ॥ १८ ॥