तृतीयं मण्डलम् - सूक्तम् 36

11 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.36 - सम्पूर्णम्

1 / 11
ऋक्: 3.36.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
3.36.1
इ॒मामू॒ षु प्रभृ᳚तिं सा॒तये᳚ धा॒ः शश्व᳚च्छश्वदू॒तिभि॒र्याद᳚मानः ।
सु॒तेसु᳚ते वावृधे॒ वर्ध᳚नेभि॒र्यः कर्म᳚भिर्म॒हद्भि॒ः सुश्रु᳚तो॒ भूत् ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । ऊं॒ इति᳚ । सु । प्र॑भृ᳚तिम् । सा॒तये᳚ । धाः॒ । शश्व᳚त्॑शश्वत् । ऊ॒ति॑भिः᳚ । याद᳚मानः ।
सु॒ते॑सु᳚ते । व॒वृ॒धे॒ । वर्ध᳚नेभिः । यः । कर्म᳚॑भिः । म॒हत्॑भिः᳚ । सु॑श्रु᳚तः । भूत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्र इन्द्रं स्तौति । हे इन्द्र ऊतिभिः । अवन्ति रक्शण्ति सर्वमित्य़ुतयो मरुतः । तैः शश्वच्छश्वत्सर्वदा यादमानः सङ्गतिं याचमानस्त्वं प्रभृतिम् । प्रकर्षेण भ्रियते धार्यते यज्ञार्थमिति प्रभृतिः सोमः स्तुतिर्वा । इमामिमं सोममिमां स्तुतिं वा सातयेऽस्माकं धनलाभार्थं सु धाः । सुष्थु सम्पादय । तथा स इन्द्रः सुते सुते सोमेऽभिषुते सति वर्धनेभिर्वधनकारिभिः सोमाज्यादिभिर्हविर्भिर्वावृधे । वर्धते । य इन्द्रो महद्भिः कर्मभिरसुरवधमेघभेदनादिलक्शणैर्व्यापारैः सुश्रुतो लोके प्रसिद्धो भुत् । स इन्द्र इति पुर्वेणान्वयः । प्रधृतिम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । धाः । दधातेश्छान्दसे लुङि रूपम् । निघातः । शश्वच्छश्वत् । नित्यवीप्सयोरिति द्विर्वचनम् । यादमानः । टुयाचृयाज्ञायां शानचि रूपम् । चकारस्य दकारश्छान्दसः । वावृधे । वृधु वर्धन इत्यस्माल्लिटि रूपम् । तुजादित्वादभ्यासस्य दीर्घः सुहितायाम् । निघातः । वर्धनेभि । वर्धतेर्ण्यन्तस्य नन्दादित्वाल्ल्युट् लित्स्वरः । सुश्रुतः श्रु श्रवण इत्यस्मात्कर्मणि क्तः । गतिरनन्तर इत् गतिस्वरः । भूत् । भवतेर्लुङि रूपं ॥ १ ॥

3.36.2 समानपद
इन्द्रा᳚य॒ सोमा᳚ः प्र॒दिवो॒ विदा᳚ना ऋ॒भुर्येभि॒र्वृष᳚पर्वा॒ विहा᳚याः ।
प्र॒य॒म्यमा᳚ना॒न्प्रति॒ षू गृ᳚भा॒येन्द्र॒ पिब॒ वृष᳚धूतस्य॒ वृष्ण᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । सोमाः᳚ । प्र॒॑दिवः᳚ । विदा᳚नाः । ऋ॒भुः । येभिः᳚ । वृष᳚॑पर्वा । वि॑हा᳚याः ।
प्र॒॑य॒म्यमा᳚नान् । प्रति᳚ । सु । गृ॒भा॒य॒ । इन्द्र᳚ । पिब᳚ । वृष᳚॑धूतस्य । वृष्णः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

माध्यन्दिने सवनेऽच्छावाकस्य प्रस्थितयाज्येन्द्राय सोमाः प्रदिव इत्येषा । सूत्रितं च । इन्द्राय सोमाः प्रदिवो विदाना आपूर्णो अस्य । आ. ५-५ । इति ॥

हे इन्द्र इन्द्राय तुभ्यं सोमाः प्रदिवः प्रगतेषु पूर्वेश्वहःसु विदानाः । अस्मभिरंभिताः । वृषपुर्वः । व्रुषाणः फलस्य वर्षकाः पर्वाणि कालावयवा वर्षाद्या यस्य स तथोक्तः । कालात्मक इत्यर्थः । अत एव विहायाः । विजहात्युत्सृजत्यर्थानर्थिभ्य इति विहाया महान् । तादृश इन्द्रो येभिर्यैर्दत्तैः सोमैरृभुर्दीप्तो वर्तते हे इन्द्र त्वं प्रयम्यमानान् प्रकर्षेण मन्त्रैरुपयम्यमानानिमान्सोमान् सु सुष्ठु प्रति गृभाय । प्रतिहृहाण । गृहीत्वा च वृषधूतस्य वृशभिर्ग्रावभिरभिषुतं वृष्णः स्वर्गादिफलवर्षकमिमं सोमं पिब ॥ प्रदिवः । दिवु क्रीडादौ । क्विप् । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । दिव् शब्दो दिवसवाची । कृदुत्तरपदस्वरः । विदानाः । विद्लृ लाभ इत्यस्य व्यत्ययेन शानच् । बहुलं छन्दसीति विकरणस्य लुक् । विहायाः । ओहाक् त्यागे । वहिहाधाञ्भ्यश्छन्दसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युगागमः । गातिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वम् । गृभाय । ग्रह उपादान इत्यस्य लोटि हौ श्नाप्रत्ययस्य छन्दसि शायजपीति शायजादेशः । हृग्रहोर्भ इति भत्वम् । अते हेरिति हेर्लुक् । निघातः ॥ २ ॥

3.36.3 समानपद
पिबा॒ वर्ध᳚स्व॒ तव᳚ घा सु॒तास॒ इन्द्र॒ सोमा᳚सः प्रथ॒मा उ॒तेमे ।
यथापि᳚बः पू॒र्व्या{4} इ᳚न्द्र॒ सोमा{4}᳚ ए॒वा पा᳚हि॒ पन्यो᳚ अ॒द्या नवी᳚यान् ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । वर्ध᳚स्व । तव᳚ । घ॒ । सु॒तासः᳚ । इन्द्र᳚ । सोमा᳚सः । प्र॒थ॒माः । उ॒त । इ॒मे ।
यथा᳚ । अपि᳚बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा᳚न् । ए॒व । पा॒हि॒ । पन्यः᳚ । अ॒द्य । नवी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

माध्यन्दिने सवनेऽच्छावाकशस्त्रे यज्या पिबा वर्धस्वेत्येषा । सूत्रितं च । पिबा वर्धस्व तव घा सुतास इति याज्या । आ. ५-१६ । इति ॥

हे इन्द्र इमं सोमं पिब । ततो वर्धस्व । शरीरेण पुष्टो भव । त्वदर्धं प्रथमाः पुरातना उत अपि चेमेऽभिनवा उभयविधाः सोमाः सुतासो घ । ग्रावभिरभिषुताः खलु । हे इन्द्र पूर्व्यान्पुरतनान्सोमान्यथा त्वमपिब एवैवमध्याधुना पन्यः स्तुत्योऽत एव नवीयानतिशयेनाभिनवस्त्वमिमानभिनवान्सोमान्पाहि । पिब ॥ पिब । पातेर्लोटि रूपम् । वर्धस्व । तिङ उत्तरत्वान्निघाताभावः । अपिबः । यथायोगादनिघातः । पाहि । पातेर्लोटि बहुलं छनसीति शपो लुक् । निघातः । पन्यः । पनतेः स्तुत्यर्थस्याघ्न्यादित्वाद्यत् । यस्योऽनाव इत्याद्युदात्तत्वम् । नवीयान् । नवशब्दादीयसुनि रूपम् । नित्स्वरः ॥ ३ ॥

3.36.4
म॒हा{4} अम᳚त्रो वृ॒जने᳚ विर॒प्श्यु१॒᳚ग्रं शवः᳚ पत्यते धृ॒ष्ण्वोजः᳚ ।
नाह᳚ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा᳚सो॒ हर्य᳚श्व॒मम᳚न्दन् ॥
▶ पदपाठः (Word-by-word)
म॒हान् । अम᳚त्रः । वृ॒जने᳚ । वि॒॑र॒प्शी । उ॒ग्रम् । शवः᳚ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः᳚ ।
न । अह᳚ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । ए॒न॒म् । यत् । सोमा᳚सः । हरि᳚॑अश्वम् । अम᳚न्दन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽयमिन्द्रो महानतिशयितसामर्थ्यवान् वृजने बलोपलक्षिते युद्धेऽमत्रः शत्रूणामभिभवितात एव विरष्ठी विरपणिशीलो भुजास्फालनेन हुद्धार्थं शत्रूणामाह्वानकारी । यद्वा विविधं रपणं स्तुतिलक्षणं यस्येति । स सर्वैः स्तुत्य इत्यर्थः । तादृशस्येन्द्रस्योग्रमुद्गूर्णं शवो बलं धृष्णु धर्षनशीलमोजः पराक्रमलक्शणं तेजः पत्यते । सर्वत्र प्रसरति । एनमेतादृशमहिमोपेतमिन्द्रं पृथिवी विस्तीर्णा भूमिर्नविव्याच । नव्याप्नोति । अहशब्द एवार्थे । चनेत्यप्यर्थे । द्यौरपि न व्याप्नोतीत्यर्थः । यद्यदा सोमासः स्वाहा कृता सोमा हर्यश्वमिन्द्रममन्दन् । आमादयन् । तदा तमेनं द्यावापृथिव्यौ वा प्युं न शक्नुत इत्यर्त्थः ॥ आमन्तः । आम गत्यादिषु । अमिनक्शियजीत्यादिनात्रन्प्रत्ययः । नित्स्वरः । विरप्शी । रप लप व्यक्तायां वाचि । औणादिकः शप्रत्ययः । विविधं रपन्तीति विरप्याः स्तोतारः । तेऽस्य सन्तीत्यत इनिः । यद्वा विविधं रपणं विरप्यम् । तदस्यास्तीति । प्रत्ययस्वरः । पथते । व्यत्ययेन कर्तरि यक् । निघातः । धृश्णु । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुप्रत्ययः । रशाभ्यामिति णत्वम् । प्रत्ययस्वरः । विव्याच । व्यचेर्लिटि णलि लिट्यभ्यासस्योभयेषामित्यभ्यासस्य सम्प्रसारणम् । निघातः । चनेति निपातसमुदायश्चार्थे वर्तते । एवमादित्वादन्तोदात्तः । आमन्दन् । मदि स्तुत्यादिष्वित्यस्य लङे रूपम् । यद्योगादनिघातः ॥ ४ ॥

3.36.5
म॒हा{4} उ॒ग्रो वा᳚वृधे वी॒र्या᳚य स॒माच᳚क्रे वृष॒भः काव्ये᳚न ।
इन्द्रो॒ भगो᳚ वाज॒दा अ᳚स्य॒ गाव॒ः प्र जा᳚यन्ते॒ दक्षि᳚णा अस्य पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या᳚य । स॒म्॑आच᳚क्रे । वृ॒ष॒भः । काव्ये᳚न ।
इन्द्रः᳚ । भगः᳚ । वा॒ज॒॑दाः । अ॒स्य॒ । गावः᳚ । प्र । जा॒य॒न्ते॒ । दक्षि᳚णाः । अ॒स्य॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

महान्युद्धकर्मणि बलवानुग्रः शत्रूणां भयङ्कर इन्द्रो विर्याय विर्यकरनाय वावृधे । वर्धते । वृषभः फलस्याभिवर्षको भगः सर्वैर्भजनीयः स इन्द्रः काव्येन । कवयः स्तोतारः । तत्कर्म स्तोत्रम् । तेन स्तोत्रेण समाचक्रे । सङ्गच्छते । तादृशस्यास्येन्द्रस्य गावो वाजदाः क्शीरादिलक्षणान्नप्रदाः प्रजायन्ते । तथास्य पूर्वीर्बह्व्यस्ता गावो दक्शिणाः प्रजायन्ते । वावृधे । वर्धतेर्लिटि रूपम् । निघातः । वीर्याय । वीरे भवं वीर्यम् । भवे छन्दसीति यत् । वीरवीर्यौ चेत्यत्र यतोऽनाव इत्यस्यानित्यत्वस्य ज्ञापितत्वात्तित्स्वरितः । समाचक्रे । करोतेर्लिटि रूपम् । गतिर्गताविति पूर्वस्य गतेर्निघातः । काव्येन । कवेः कर्म काव्यम् । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादुपधावृद्धिः । ञित्स्वरः । वाजदाः । ददातेरातोऽनुपसर्गे कः जायन्ते । जनी प्रादुर्भाव इत्यस्य लटि रूपम् । दक्शिणाः । दक्शवृद्धावित्यस्मात् द्रुदक्शिभ्यामिनन्नितीनन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ५ ॥

3.36.6
प्र यत्सिन्ध᳚वः प्रस॒वं यथाय॒न्नापः᳚ समु॒द्रं र॒थ्ये᳚व जग्मुः ।
अत᳚श्चि॒दिन्द्र॒ः सद᳚सो॒ वरी᳚या॒न्यदीं॒ सोमः᳚ पृ॒णति᳚ दु॒ग्धो अं॒शुः ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । सिन्ध᳚वः । प्र॒॑स॒वम् । यथा᳚ । आय᳚न् । आपः᳚ । स॒मु॒द्रम् । र॒थ्या᳚॑इव । ज॒ग्मुः॒ ।
अतः᳚ । चि॒त् । इन्द्रः᳚ । सद᳚सः । वरी᳚यान् । यत् । ई॒म् । सोमः᳚ । पृ॒णति᳚ । दु॒ग्धः । अं॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धवो नद्यो यथा प्रसवम् । प्रकर्षेण सूयत इति प्रसवः कामः । तमनुसृत्य यद्यदा प्रायन् प्रकृष्टमतिदूरं समुद्रं गच्छन्ति तदापो महान्तं समुद्रं रथ्येव रथिन इव जग्मुः । प्रीणनार्थं गच्छन्ति । तद्वत् अतश्चित्सदसोऽस्मादप्यन्तरिक्षादसाविन्द्रो वरीयान् । उरुतरः खलु । यदीं यमेनमिन्द्रं दुद्ग्धोऽभिषुतोऽंशुर्लताखण्दरूपोऽल्पः सोमः पृणति प्रीणयति । यथाल्पा नद्योऽल्पीयांसि च जलानि महान्तं समुद्रं प्रीणयन्ति तद्वदल्पतरोंऽशुभुतः सोमो वरीयांसमिन्द्रं प्रीणयति ॥ प्रसवम् । सवतेः कर्मण्यप् । थाथादिस्वरः । आयन् । अयतेर्लङि रुपम् । यद्योगादनिघातः । रध्येव । रथेस्येमे रथ्याः । रथाद्यदिति यत् । सुपां सुलुगिति सुपो डादेशः । तित्स्वरितः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरः । जग्मुः । गमेर्लिटि रूपम् । गमहनेत्यादिनोपधालोपः । निघातः । वरीयान् उरुशब्दादीयसुनि प्रियस्थिरेत्यादिना वरादेशः । नित्त्वादाद्युदात्तः । पृणति । पृण प्रीणने । तुदादिः । यद्योगादनिघातः । दुग्धः । दुहेः क्तः । एकाच इतीट् प्रतिशेधः । दादेर्धातोर्घ इति हकारस्य घत्वम् । झषस्तथोर्धोऽधः । प्रत्ययस्वरः ॥ ६ ॥

3.36.7
स॒मु॒द्रेण॒ सिन्ध᳚वो॒ याद᳚माना॒ इन्द्रा᳚य॒ सोमं॒ सुषु᳚तं॒ भर᳚न्तः ।
अं॒शुं दु᳚हन्ति ह॒स्तिनो᳚ भ॒रित्रै॒र्मध्व᳚ः पुनन्ति॒ धार᳚या प॒वित्रै᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रेण᳚ । सिन्ध᳚वः । याद᳚मानाः । इन्द्रा᳚य । सोम᳚म् । सुषु᳚तम् । भर᳚न्तः ।
अं॒शुम् । दु॒ह॒न्ति॒ । ह॒स्तिनः᳚ । भ॒रित्रैः᳚ । मध्वः᳚ । पु॒न॒न्ति॒ । धार᳚या । प॒वित्रैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रेण । सहिता नद्यादिरूपेणापोऽभिद्रवन्त्येनमिति समुद्रः । तेन यादमानास्तेन सह सङ्गतिं याचमानाः सिन्दह्वो नद्यो यथा तं पूरयन्ति तद्वद्धस्तिनो हस्तवन्तोऽध्वर्व्यादय इन्द्राय तुभ्यं सुषुतं सुष्ठ्वभिषुतं सोमं भरन्त । सम्पादयन्तोंशुं दुहन्ति । लताखण्डमभिषुण्वन्ति । तथा तेऽध्वर्व्यादयः स्रवतो रसस्य धारया पवित्रैः पावनैर्भरित्रैः । कर्मकरणार्थं पदार्थान्बिभ्रतिति भरित्रा बाहवः । तैर्मध्वो माधुर्योपेतान्सोमान्पुनन्ति । शोधयन्ति । समुद्रेण समुत्पूर्वाद्द्रवतेरन्येभ्योऽपि दृश्यत इति डः । डित्त्वाट्टिलोपः । यद्वा । उन्दी क्लेदने । संपूर्वस्य स्फायुतञ्चीत्यादिना रक् । कित्त्वादुपधालोपः । उभयत्र प्रत्ययस्वरः । सुपा सहैकादेशे कृत एकादेश उदात्त एव । यादनाना । टु याचृ याज्ञायाम् । शानच् । व्यत्ययेन चकारस्य दकारः । शानचो लसार्वधातुकस्वरे धातुस्वरः । दुहन्ति । दुह प्रपूरण इत्यस्य लटिरूपम् । भरित्रैः । डुभृञ् धारण पोषणयोरित्यस्मादशित्रादिभ्य इत्रोत्रावितीत्रप्रत्ययः । प्रत्ययस्वरः । पुनन्ति । पूञ् पवन इत्यस्य लटि रूपम् । ॥ ७ ॥

3.36.8
ह्र॒दा इ᳚व कु॒क्षयः᳚ सोम॒धाना॒ः समी᳚ विव्याच॒ सव᳚ना पु॒रूणि᳚ ।
अन्ना॒ यदिन्द्र᳚ः प्रथ॒मा व्याश᳚ वृ॒त्रं ज᳚घ॒न्वा{4} अ᳚वृणीत॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
ह्र॒दाः॑इ᳚व । कु॒क्षयः᳚ । सो॒म॒॑धानाः᳚ । सम् । ई॒मिति᳚ । वि॒व्या॒च॒ । सव᳚ना । पु॒रूणि᳚ ।
अन्ना᳚ । यत् । इन्द्रः᳚ । प्र॒थ॒मा । वि । आश᳚ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒वृ॒णी॒त॒ । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्य कुक्षय उदराणि सोमधानाः । सोमो निधीयते येष्विति सोमधानाः । तत्र दृष्ताण्तः । ह्रदा इव । यथा ह्रदा जलाधारा भवन्ति तद्वत् । ईं सोऽयमिन्द्रः पुरूणि सवना त्रीणि सवनानि सं विव्याच । सम्यक् व्याप्नोति । इन्द्रः प्रथमा प्रथमान्यन्ना भक्षणीयानि सोमादीन्यनानि यद्यस्माद्व्याश विशेषेण जघास ततो वृत्रं जघन्वान्वृत्रस्य हन्तेन्द्रः सोमं माध्यन्दिन सवने देवेभ्योऽव्णीत । समभजत । कुक्शयः । कुष निश्क्र्षे । प्लुशिकुषिशुषिभ्यः क्सिः । उ. ३-१५५ । कुष्यत इति कुक्षिः । प्रत्ययस्वरः । सोमधानाः । दधातेरधिकरणे ल्युट् । लित्स्वरः । विव्याच । व्यचेर्लिटि रूपम् । अन्नाः । अद भक्षणे । अद्यत इत्यन्नम् । आश । अश भोजन इत्यस्य लिटि णलि रूपम् । अत आदेरित्यभ्यासस्य दीर्घः । यद्योगादनिघातः । लित्स्वरः । वैत्रम् । न लोकाव्ययेति षष्ठीप्रतिषेधः । जघन्वान् । हन्तेः क्वसाविडभावे रूपम् । प्रत्ययस्वरः । अवृणीत । वृङ् सम्भक्तावित्यस्य लङि रूपं ॥ ८ ॥

3.36.9
आ तू भ᳚र॒ माकि᳚रे॒तत्परि᳚ ष्ठाद्वि॒द्मा हि त्वा॒ वसु᳚पतिं॒ वसू᳚नाम् ।
इन्द्र॒ यत्ते॒ माहि᳚नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध᳚र्यश्व॒ प्र य᳚न्धि ॥
▶ पदपाठः (Word-by-word)
आ । तु । भ॒र॒ । माकिः᳚ । ए॒तत् । परि᳚ । स्था॒त् । वि॒द्म । हि । त्वा॒ । वसु᳚॑पतिम् । वसू᳚नाम् ।
इन्द्र᳚ । यत् । ते॒ । माहि᳚नम् । दत्र᳚म् । अस्ति᳚ । अ॒स्मभ्य᳚म् । तत् । ह॒रि॒॑अ॒श्व॒ । प्र । य॒न्धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तु क्षिप्रं धनमा भर । एतत्त्वय दीयमानं धनं माकिः को वा परि ष्ठात् । प्रतिबध्य तिष्ठेत् । त्वा त्वां वसूनां धनानां वसुपतिमुत्तमस्य धनस्य स्वामिनम् विद्म हि । जानीमः खलु । ते तव माहिनं महनीयं यद्दत्रं धनमस्ति हे यर्यश्व दद्धनमस्मभ्यं प्र यन्धि । प्रयच्छ । तु । ऋचि तुनुघेत्यादिना संहितायां दीर्घः । भर । भरतेर्लोटि रूपम् । माकिः । विपातः । स्थात् । तिष्ठतेश्छान्दसे लुङिरूपम् । उपसर्गात्सुनोतीत्यादिना संहितायां षत्वम् । निघातः । विद्म वेत्तेर्लटि विदो लटो वेति मसो मादेशः । प्रत्ययस्वरः । सम्हितायां द्व्यचोऽतस्तिङ इति दीर्घः । वसुपतिम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः । माहिनम् । महेरिनण् चेतीनण्प्रत्ययः । णित्त्वादुपधावृद्धिः । ग्रामादित्वादाद्युदात्तः । यन्धि । यमु उपरमे । लोटि बहुलं छन्दसीति शपो लुक् । सेर्हिः । तस्य वा छन्दसीति पित्त्वस्य विकल्पितत्वादत्राङित्त्वादङितश्चेति हेर्ध्यादेशः निघातः ॥ ९ ॥

3.36.10
अ॒स्मे प्र य᳚न्धि मघवन्नृजीषि॒न्निन्द्र᳚ रा॒यो वि॒श्ववा᳚रस्य॒ भूरे᳚ः ।
अ॒स्मे श॒तं श॒रदो᳚ जी॒वसे᳚ धा अ॒स्मे वी॒राञ्छश्व᳚त इन्द्र शिप्रिन् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । प्र । य॒न्धि॒ । म॒घ॒॑व॒न् । ऋ॒जी॒षि॒न् । इन्द्र᳚ । रा॒यः । वि॒श्व॑वा᳚रस्य । भूरेः᳚ ।
अ॒स्मे इति᳚ । श॒तम् । श॒रदः᳚ । जी॒वसे᳚ । धाः॒ । अ॒स्मे इति᳚ । वी॒रान् । शश्व᳚तः । इ॒न्द्र॒ । शि॒प्रि॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातकर्मण्यंसाभिमर्शनेऽस्मे प्रयन्धीत्येषा । आ. गृ. १-१५ । यद्यपि सा निर्दहेदिति वचनेन शंसने निषिद्धा तथाप्यभिमर्शनस्य शंसने चोदितत्वान्नोक्त दोषः ॥

मघवन्भनवन्नृजीषिन् गतसारसोमवन् हे इन्द्र विश्ववारस्य । विश्वैः सर्वैः सम्भजनीयतया वरणं यस्य तत् । भूरेर्भूरि बहु रायो धनम् । द्वितीयार्थे षष्ठी । अस्मे अस्मभ्यं प्र यन्धि । प्रयच्छ । किञ्च अस्मे अस्माकं जीवसे जीवनाय शतं शरदः सम्वत्सरान्धाः । देहि । शिप्रिन् शोभनहनो हे इन्द्र अस्मे अस्माकं शश्वतः । थश्वदिति बहुनाम । बहूईन्वीरान्पुत्रान्देहि । जीवसे । जीव प्राणधारन इत्यस्य तुमर्थेऽसेप्रत्ययः । प्रत्ययस्वरः । शश्वतः । टुओश्वि गतिवृद्ध्योः । अस्मात्संश्चद्वेहदित्यादिना अतिप्रत्यान्तत्वेन निपातनादिष्टरूपसिद्धिः ॥ १० ॥

3.36.11
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तधा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयंकरं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रुसंबन्धिनां सञ्जितं समग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृध्योरित्यस्य निश्ठायां यस्य विभाशेतीट् प्रतिषेधः । यजादित्वात्संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्षणे । संपूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ११ ॥