तृतीयं मण्डलम् - सूक्तम् 43

8 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.43 - सम्पूर्णम्

1 / 8
ऋक्: 3.43.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
3.43.1 समानपद
आ या᳚ह्य॒र्वाङुप᳚ वन्धुरे॒ष्ठास्तवेदनु᳚ प्र॒दिवः᳚ सोम॒पेय᳚म् ।
प्रि॒या सखा᳚या॒ वि मु॒चोप᳚ ब॒र्हिस्त्वामि॒मे ह᳚व्य॒वाहो᳚ हवन्ते ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । अ॒र्वाङ् । उप᳚ । व॒न्धु॒रे॒॑स्थाः । तव᳚ । इत् । अनु᳚ । प्र॒॑दिवः᳚ । सो॒म॒॑पेय᳚म् ।
प्रि॒या । सखा᳚या । वि । मु॒च॒ । उप᳚ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒॑वाहः᳚ । ह॒व॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वन्धुरेष्ठाः । वन्धुरशब्देनेषाद्वयसम्भन्धस्थानमभिधीयते । तेन तद्विशिष्तो रथो लक्ष्यते । तस्मिन् रथे तिष्ठन् त्वमर्वाङस्मदभिमुखः सन् आ अभिलक्श्योपयाहि । समीप आगच्छ । प्रदिवः प्रत्नं पूर्वक्रमगतं तवेत्तवैव सम्बन्धि सोमपेयं सोमपानं त्वमनु उद्दिश्य प्रिया तव प्रियतमौ सखाय समानख्यानावश्यौ बर्हिरुप बर्हिषः समीपे विमुच । विमुञ्च । हव्यवाहः । हव्यं वहन्तीति हव्यवाहः । इमे ऋत्विजस्त्वां हवन्ते । सोमपानार्थमह्वयन्ति । तस्मादागच्छेति भावः ॥ वन्धुरेष्ठाः । तिष्थतेर्विच् । तत्पुरुषे कृति बहुलमिति सप्तम्या अलुक् । प्रदिवः । सकारान्तमव्ययम् । सोमपेयम् । पा पान इत्यस्य भावेऽचो यदिति यत्प्रत्ययः । ईद्यतीतीत्वम् । आर्धधातुकलक्षणो गुणः । यतोऽनाव इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदस्वरः । मुच । मुञ्चतेर्लोटागमानुशासनस्यानित्यत्वान्नुमभावः ॥ १ ॥

3.43.2
आ या᳚हि पू॒र्वीरति᳚ चर्ष॒णीरा{4} अ॒र्य आ॒शिष॒ उप᳚ नो॒ हरि᳚भ्याम् ।
इ॒मा हि त्वा᳚ म॒तय॒ः स्तोम᳚तष्टा॒ इन्द्र॒ हव᳚न्ते स॒ख्यं जु᳚षा॒णाः ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । पू॒र्वीः । अति᳚ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒॑शिषः᳚ । उप᳚ । नः॒ । हरि᳚॑भ्याम् ।
इ॒माः । हि । त्वा॒ । म॒तयः᳚ । स्तोम᳚॑तष्टाः । इन्द्र᳚ । हव᳚न्ते । स॒ख्यम् । जु॒षा॒णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पूर्वीः सर्वाश्चर्षणीः प्रजा अत्या याहि । अतिक्रम्यागच्छ । द्वितीय अङ् पूरणः । अर्योऽस्माकं स्वामी त्वं न आशिषस्त्वमत्रागत्य सोमं पिबेत्येव मादिका अस्माकं प्रार्थना हरिभ्यामश्वाभ्यां युक्तः सन् उपागच्छ । किञ्च तेन तव सख्यम् जुषाणाः सेवमानाः स्तोमतष्ठाः स्तोमकारिभिः स्तोतृभिः कृता इमा कर्तृव्यापारः । काष्थानि पचन्तीतिवत् ॥ आ । सम्हितायामाङोऽनुनासिकश्छन्दसीत्यनुनासिकः । अर्यः । ऋ गतौ । अर्यः । स्वामिवैश्ययोरिति निपातनाद्यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वे प्राप्तेऽर्यस्य स्वाम्याख्या चेत् (फि १-१८) इत्यन्तोदात्तत्वम् । आशिषः । क्विपि शास इदङ् हलोरित्युपधाया इत्वम् । शासिवसि घसीनाचेति षत्वम् । स्तोमतष्टाः । तक्शू त्वक्षू तनूकरण इत्यस्मात्कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः ॥ २ ॥

3.43.3
आ नो᳚ य॒ज्ञं न᳚मो॒वृधं᳚ स॒जोषा॒ इन्द्र᳚ देव॒ हरि᳚भिर्याहि॒ तूय᳚म् ।
अ॒हं हि त्वा᳚ म॒तिभि॒र्जोह᳚वीमि घृ॒तप्र᳚याः सध॒मादे॒ मधू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । य॒ज्ञम् । न॒मः॒॑वृध᳚म् । स॒॑जोषाः᳚ । इन्द्र᳚ । दे॒व॒ । हरि᳚॑भिः । या॒हि॒ । तूय᳚म् ।
अ॒हम् । हि । त्वा॒ । म॒ति॑भिः᳚ । जोह᳚वीमि । घृ॒त॑प्र᳚याः । स॒ध॒॑मादे᳚ । मधू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव द्योतमान हे इन्द्र नोऽस्माकं नमोवृधं नमसोऽन्नस्य वर्धकमिमः यज्ञं हरिभिरश्वैः सजोषाः सहप्रीतिस्त्वं तूयं क्षिप्रमा याहि । घृतप्रयाः । घृतसहितानि प्रयांस्यन्यरूपाणि हवींषि यस्य स तथोक्तः । तादृशोऽहं मधूनां सेमानां सधमादे । सह माद्यन्ति यत्र सोम इति सधमादः । तस्मिन् स्थाने मतिभिः स्तुतिभिस्त्वा त्वां जोहवीमि हि । भृशमाह्वयामि खलु । जोहवीमि । यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारणम् । गुणो यङ् लुकोरित्यभ्यासस्य गुणः । यङो वेतीडागमः । हियोगादनिघातः । अभ्यस्तानामादिरित्याद्युदात्तः । घ्तुअप्रयाः । घृ क्षरण दीप्त्योरित्यस्मादञ्जिघृषिभ्यः क्त इति क्तप्रत्ययः । बहुव्रीहौ पूर्वपदस्वरः ॥ ३ ॥

3.43.4
आ च॒ त्वामे॒ता वृष᳚णा॒ वहा᳚तो॒ हरी॒ सखा᳚या सु॒धुरा॒ स्वङ्गा᳚ ।
धा॒नाव॒दिन्द्र॒ः सव᳚नं जुषा॒णः सखा॒ सख्यु᳚ः शृणव॒द्वन्द᳚नानि ॥
▶ पदपाठः (Word-by-word)
आ । च॒ । त्वाम् । ए॒ता । वृष᳚णा । वहा᳚तः । हरी॒ इति᳚ । सखा᳚या । सु॒॑धुरा᳚ । सु॒॑अङ्गा᳚ ।
धा॒ना॑व᳚त् । इन्द्रः᳚ । सव᳚नम् । जु॒षा॒णः । सखा᳚ । सख्युः᳚ । शृ॒ण॒व॒त् । वन्द᳚नानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृषणा सेचनसमर्थौ सुधुरा शोभनया धुरान्वितौ स्वङा शोभनावयवोपेतौ सखाया शोभनाख्यानावेतैतौ हरी त्वामा वहातश्च । यज्ञम् प्रय्तागमनाय रथे त्वामावहतः । अथ धानावत् भृष्टवोपेतं सवनं जुषाणः सेवमानः सखा सखिभूतः स इन्द्रः सुख्युः सोत्तुर्मम वन्दनानि स्तोत्राणि शृणवत् शृणुयात् । वहातः । वहेर्लेट्याडागमे रूपम् । चवायोगे । राथमेति न निघातः वणवत् । श्रु श्रवण इत्यस्य लेट्यडागमे रूपम् । निघातः ॥ ४ ॥

3.43.5
कु॒विन्मा᳚ गो॒पां कर᳚से॒ जन᳚स्य कु॒विद्राजा᳚नं मघवन्नृजीषिन् ।
कु॒विन्म॒ ऋषिं᳚ पपि॒वांसं᳚ सु॒तस्य᳚ कु॒विन्मे॒ वस्वो᳚ अ॒मृत᳚स्य॒ शिक्षा᳚ः ॥
▶ पदपाठः (Word-by-word)
कु॒वित् । मा॒ । गो॒पाम् । कर᳚से । जन᳚स्य । कु॒वित् । राजा᳚नम् । म॒घ॒॑व॒न् । ऋ॒जी॒षि॒न् ।
कु॒वित् । मा॒ । ऋषि᳚म् । प॒पि॒॑वांस᳚म् । सु॒तस्य᳚ । कु॒वित् । मे॒ । वस्वः᳚ । अ॒मृत᳚स्य । शिक्षाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र कुविदपि च मा मां जनस्य गोपां गोप्तारं करसे । कुरु । तथा हे मघवन्धनवन्नृजीषिन्सोमवन् हे इन्द्र मां राजानं सर्वस्य स्वामिनं कुरु । कुविच्च मा मामृषिमतीन्द्रियार्थस्य द्रष्टारं कुरु । ऋषिर्दशनादिति यास्कः । तथा सुतस्याभिशुतस्य सोमस्य पपिवांसं पातारं कुरु । अपि च मे मह्यममृतस्य क्षयरहितं वस्वो वसु शिक्षाः । प्रयच्छ । करसे । कृञ् करणे । लेट्यडागमे रूपम् । कुविद्योगादनिघातः । म ऋषिमित्यत्र सम्हितायामृत्यक इति प्रकृतिभावो ह्रस्वश्च । पपिवांसम् । पा पान इत्यस्य क्वसौ वस्वेकाजाद्घसामितीडागमः । प्रत्ययस्वरः । शिक्शाः । शिक्शतिर्दानकर्मा । अस्माल्लेट्याडामे रूपम् । कुविद्योगादनिघातः । आगमा अनुदात्ता इत्याटोऽनुदात्तत्वे धातुस्वरः ॥ ५ ॥

3.43.6 समानपद
आ त्वा᳚ बृ॒हन्तो॒ हर᳚यो युजा॒ना अ॒र्वागि᳚न्द्र सध॒मादो᳚ वहन्तु ।
प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याता॒ः सुस᳚म्मृष्टासो वृष॒भस्य᳚ मू॒राः ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । बृ॒हन्तः᳚ । हर᳚यः । यु॒जा॒नाः । अ॒र्वाक् । इ॒न्द्र॒ । स॒ध॒॑मादः᳚ । व॒ह॒न्तु॒ ।
प्र । ये । द्वि॒ता । दि॒वः । ऋ॒ञ्जन्ति᳚ । आताः᳚ । सु॑स᳚म्मृष्टासः । वृ॒ष॒भस्य᳚ । मू॒राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां बृहन्तो महान्तो युजाना रथे युज्यमाना हरयोऽश्वाः सधमादः सह मादयन्तः सन्तोऽर्वाक् अस्मदभिमुखमा वहन्तु । वृषभस्य कामानां हर्षितुरिन्द्रस्य मूराः शत्रूणां मारकाः सुसंमृष्टास इन्द्रस्य हस्ताभ्यां पृष्ठभागे सुष्ठु संस्पृष्टादिवो नभसः सकाशादागच्छन्तो येऽश्वा आताः । आभिमुख्येन गम्यन्ते प्राणिभिस्तत्तत्कार्यं प्रतीत्याता दिशः । सर्वा दिशो द्विता द्वैधं यथा भवति तथा प्र ऋंजन्ति । प्रकर्षेण साधयन्ति । युजानाः । युजिर् योगे युजिबुधिदृशः किच्च । उ. २-९० । इत्यानच् । चित्त्वादन्तोदात्तः । सधमादः । मदी हर्ष इत्यस्माण्यन्तात् क्विप् । कृदुत्तरपदस्वरः । द्विता । द्विशब्दात्संख्याया विधार्थे धेति धाप्रत्ययः । धकारस्य तकारश्छान्दसः । प्रत्ययस्वरः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । आशाः । अत सातत्यगमन इत्यस्मात्कर्मणि घञ् । व्यत्ययेनाद्युदात्तः ॥ ६ ॥

3.43.7 समानपद
इन्द्र॒ पिब॒ वृष᳚धूतस्य॒ वृष्ण॒ आ यं ते᳚ श्ये॒न उ᳚श॒ते ज॒भार᳚ ।
यस्य॒ मदे᳚ च्या॒वय᳚सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप᳚ गो॒त्रा व॒वर्थ᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । पिब᳚ । वृष᳚॑धूतस्य । वृष्णः᳚ । आ । यम् । ते॒ । श्ये॒नः । उ॒श॒ते । ज॒भार᳚ ।
यस्य᳚ । मदे᳚ । च्य॒वय᳚सि । प्र । कृ॒ष्टीः । यस्य᳚ । मदे᳚ । अप᳚ । गो॒त्रा । व॒वर्थ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृषधूतस्य ग्रावभिरभिषुतं वृष्णोऽभिमतफलसेचकं सोमं पिब । श्येनः संसनीयगतिश्छन्दोरूपः सुपर्ण उशते सोमं कामयमानाय ते तुभ्यं यं सोमामा जभार । आजहार । यस्य सोमस्य मदे हर्षे सञ्जाते सति कृष्टीः । आकर्षन्ति वशीकुर्वन्ति कर्मणा सर्वानिति कृष्टयो मनुष्याः । तान् सपत्नभुतान्मनुष्यान् प्र च्यावयसि । प्रकर्षेण पातयसि । यस्य सोमस्य मदे सञ्जाते सति गोत्रा । गामुदकं रश्मिभिरावृतं वर्षास्वृतुषु त्रायन्ते पालयन्तीति गोत्रा मेघाः । तानप ववर्थ । अपवृणोषि । वृषधूतस्य । धूञ् कम्पन इत्यस्य निष्थयां यस्य विभाषेतीट् प्रतिषेधः । तृतीया कर्मणीति पूर्वपदस्वरः । श्येनः । श्येङ् गतौ । श्यास्त्याहृञ्हविभ्य इनच् । उ. २-४६ । इतीनच् प्रत्ययः । श्यायत इति श्यैनः । चित्त्वादन्तोदात्तः । जभार । हरतेर्लिटि णलि रूपम् । हृग्रहोर्भश्छन्दसिति भकारः । यद्वृत्तयोगादनिघातः । लित्स्वरः मदे । मदी हर्षे । मदोऽनुपसर्ग इत्यप्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गोत्रा त्रैङ् पालन इत्यास्यातोऽनुपसर्गे क इति कः । सुपो डादेशः । एकादेशस्वरः । ववर्थ । वृञ् वरण इत्यस्य लिटि थल्यृतो भारद्वाजस्येतीट् प्रतिषेधः । गुणः लित्स्वरः ॥ ७ ॥

3.43.8
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवन्द्रं निरतिशयैश्चर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयंकरं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्शांसि घ्नन्तं हिंसन्तं धानानां शत्रुसम्बन्दिह्नां सञ्जितं सम्यग्जेतारं त्वामूतये रक्शनाय वयमाह्वयेम । शुनम् । टु ओश्वि गतिवृद्ध्योरित्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसिति सम्प्रसारेणे कृते श;ओ लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्षणे । संपूर्वात् क्विप् । संभक्शयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ८ ॥