तृतीयं मण्डलम् - सूक्तम् 25

5 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: विराट्

सूक्तम् 3.25 - सम्पूर्णम्

1 / 5
ऋक्: 3.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.25.1
अग्ने᳚ दि॒वः सू॒नुर᳚सि॒ प्रचे᳚ता॒स्तना᳚ पृथि॒व्या उ॒त वि॒श्ववे᳚दाः ।
ऋध᳚ग्दे॒वा{4} इ॒ह य᳚जा चिकित्वः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । दि॒वः । सू॒नुः । अ॒सि॒ । प्र॑चे᳚ताः । तना᳚ । पृ॒थि॒व्याः । उ॒त । वि॒श्व॑वे᳚दाः ।
ऋध᳚क् । दे॒वान् । इ॒ह । य॒ज॒ । चि॒कि॒त्वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रः स्तौति । हे अग्ने विश्ववेदाः सर्वविषयज्ञानवान् प्रचेताः कर्मविषयज्ञानवाम्स्त्वं चिवो द्युलोकाभिमानिदेवतायाः सूनुरसि । पुत्रो भवसि । उत अपि च पृथिव्याः पृथिव्यभिमानिदेवतायास्तना तनयोऽसि । किञ्च । चिकित्वश्चेतनावन् हे अग्ने इहास्माभिः क्रियमाणेऽस्मिन्कर्मणि देवान् यजनीयानिन्द्रादिदेवान् ऋधक् पृथक् क्रमेण यज । हविष्प्रदानेन पूजय ॥ आसि । अस भुवीत्यस्य लटि तासस्त्योर्लोप इति सलोपः । निघातः । विश्ववेदाः । बहुव्रीहौ विश्वं संज्ञायामिति विश्वस्यान्तोदात्तत्वं ॥ १ ॥

3.25.2
अ॒ग्निः स᳚नोति वी॒र्या᳚णि वि॒द्वान्त्स॒नोति॒ वाज᳚म॒मृता᳚य॒ भूष᳚न् ।
स नो᳚ दे॒वा{4} एह व᳚हा पुरुक्षो ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । स॒नो॒ति॒ । वी॒र्या᳚णि । वि॒द्वान् । स॒नोति᳚ । वाज᳚म् । अ॒मृता᳚य । भूष᳚न् ।
सः । नः॒ । दे॒वान् । आ । इ॒ह । व॒ह॒ । पु॒रु॒क्षो॒ इति᳚ पुरु॑क्षो ॥
▶ सायणभाष्यम् (Sayana Commentary)

विद्वान् कर्माभिज्ञो योऽग्निर्वीर्याणि पशुपुत्रादिसम्पद्रूपाणि सामर्थ्यानि सनोति यजमानाय ददाति यश्चाग्निर्भूषन् स्वतेजसा सर्वं जगद्भूषयन् अलङ्कुर्वन्नमृताय मरणधर्मरहितायेन्द्रादिदेवाय वाजं हविर्लक्षणमन्नं सनोति प्रयच्छति पुरुक्षो पुरोडाशादिबहुविधान्नोपेत हे अग्ने स तादृशस्त्वं नोऽस्माकं सम्बीधिनीहास्मिन्यज्ञे देवान्यजनीयान्देवानावह । आह्वय ॥ सनोति । षणु दाने । तनादित्वादुप्रत्ययः । प्रत्ययस्वरः । पादादित्वादनिघातः । भूषन् । भूष अलङ्कारे । अन्तर्भावितण्यर्थः । ततुर्लसार्वधाकस्वरेणानुदात्तत्वे धातुस्वरः शिष्यते । वह । वहेर्लोटि रूपम् । पुरुक्षो । पुरवः क्षुधोऽन्नानि यस्येति पुरुक्षुः । अन्त्यलोपश्छान्दसः । सम्बुद्धौ चेति गुणः ॥ २ ॥

3.25.3
अ॒ग्निर्द्यावा᳚पृथि॒वी वि॒श्वज᳚न्ये॒ आ भा᳚ति दे॒वी अ॒मृते॒ अमू᳚रः ।
क्षय॒न्वाजै᳚ः पुरुश्च॒न्द्रो नमो᳚भिः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । द्यावा᳚पृथि॒वी इति᳚ । वि॒श्वज᳚न्ये॒ इति᳚ वि॒श्व॑ज᳚न्ये । आ । भा॒ति॒ । दे॒वी इति᳚ । अ॒मृते॒ इति᳚ । अमू᳚रः ।
क्षय᳚न् । वाजैः᳚ । पु॒रु॒॑च॒न्द्रः । नमः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमूरोऽमूढः सर्वज्ञः क्षयन् ईशानः सर्वस्य जगतः अत एव पुरुश्चन्द्रः पुरुचन्द्रो बहुहिरण्योपेतः । यद्वा । बहुदीप्तिस्वरूपः । वाजैर्बलैर्नमोभिरन्नैश्च सहितः सोऽग्निर्विश्वजन्ये विश्वस्य जनयित्र्यौ । यद्वा विश्वं जन्यमुत्पाद्यं याभ्यान्ते । देवी द्योतमाने अमृते मरणधर्मरहिते द्यावापृथिवी द्यावापृघिव्यावाभाति । आ समन्तात्प्रकाशयति । द्यावापृथिवी । दिवः शब्दस्य दिवो द्यावेति द्यावादेशः आद्युदात्तः । पृथिवीशब्दो ञीषन्तत्वेनान्तोदात्तः । देवताद्वन्द्वे चेत्युभयोः प्रकृतिस्वरत्वम् । विश्वजन्ये । बहुव्रीहौ विश्वं संज्ञायामिति पुर्व पदान्तोदात्तः । तत्पुरुषे तु स्वरश्चिन्तनीयः । आ भाति । भा दीप्तौ । अन्तर्भावितण्यर्थः । क्षयन् । क्षि ऐश्वर्ये । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । पुरुष्चन्द्रः । ह्रस्वाच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः । श्चुत्वेन शकारः । उत्तर पदान्तोदात्त प्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानमित्युत्तरपदान्तोदात्तत्वं यद्वा समानस्येत्यन्तोदात्तत्वं ॥ ३ ॥

3.25.4
अग्न॒ इन्द्र᳚श्च दा॒शुषो᳚ दुरो॒णे सु॒ताव᳚तो य॒ज्ञमि॒होप᳚ यातम् ।
अम᳚र्धन्ता सोम॒पेया᳚य देवा ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । इन्द्रः᳚ । च॒ । दा॒शुषः᳚ । दु॒रो॒णे । सु॒त॑व᳚तः । य॒ज्ञम् । इ॒ह । उप᳚ । या॒त॒म् ।
अम᳚र्धन्ता । सो॒म॒॑पेया᳚य । दे॒वा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमिन्द्रश्चोभौ देवा देवौ युवाममर्धन्ता अनागमनेन यज्ञहिम्सामकुर्वन्तौ सन्तौ सुवतः सोमाभिषवं कुर्वतो दाशुषो हविर्दत्तवतो यजमानस्येह दुरोणे गृहे क्रियमाणमिमं यज्ञमभिलक्ष्य सोमपेयाय सोमपानार्थमुप यातम् । उप समीप आगच्छतं ॥ यातं या प्रापण इत्यस्य लोटि रूपम् । निघातः । अमर्धन्ता । मृधु हिंसायामित्यस्य शतरि रूपम् । नञा समासः । सुपोडादेशः । तत्पुरुषे नञ्स्वरः । सोमपेयाय । पापाने । आचो यदिति यत् । ईत्यतीतिकारादेशः । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥ ४ ॥

3.25.5
अग्ने᳚ अ॒पां समि᳚ध्यसे दुरो॒णे नित्य᳚ः सूनो सहसो जातवेदः ।
स॒धस्था᳚नि म॒हय᳚मान ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । अ॒पाम् । सम् । इ॒ध्य॒से॒ । दु॒रो॒णे । नित्यः᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । जा॒त॒॑वे॒दः॒ ।
स॒ध॑स्था᳚नि । म॒हय᳚मानः । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसः सूनो बलस्य पुत्र जातवेदो जातप्रज्ञ हे अग्ने नित्योऽविनाशी ऊती ऊत्या रक्षणेन सधस्थानि प्राणिनां निवासभूताम्ल्चोकान्महयमानः परिचरं स्त्वमपां दुरोणेऽपां स्थानेऽतरिक्षे समिध्यसे । सम्यग्दीप्यसे ॥ दुरोणे । अव रक्षण इत्यस्मादौणादिको नक्प्रत्ययः । ज्वरत्वरेत्यादिना ऊट् । गुणः दुरोण इति गृहनाम । दुरवा भवन्ति । नि. ४-५ । इति यास्कः । प्रत्यय स्वरः । महयमानः मह पूजायाम् । व्यत्ययेन शानच् । शानचो लसार्वधातुकस्वरेणानुदात्तत्वेणिच् स्वरः । ऊती । अव रक्षणादिषु । ऊतियूतिजूतीत्यादिना निपातनादन्तोदात्तः । सुपां सुलुगिति तृतीयायाः सवर्णदीर्घः ॥ ५ ॥