तृतीयं मण्डलम् - सूक्तम् 38

10 ऋचः

ऋषिः: प्रजापतिर्वैश्वामित्रः (वाच्यो वा द्वौ वा तौ विश्वामित्रो वा) देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.38 - सम्पूर्णम्

1 / 10
ऋक्: 3.38.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
3.38.1
अ॒भि तष्टे᳚व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा᳚नः ।
अ॒भि प्रि॒याणि॒ मर्मृ᳚श॒त्परा᳚णि क॒वी{4}रि᳚च्छामि सं॒दृशे᳚ सुमे॒धाः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । तष्टा᳚॑इव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः᳚ । न । वा॒जी । सु॒॑धुरः᳚ । जिहा᳚नः ।
अ॒भि । प्रि॒याणि᳚ । मर्मृ᳚शत् । परा᳚णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्॑दृशे᳚ । सु॒॑मे॒धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानः स्तोतारं प्रति ब्रूते । हे स्तोतर्मनीषामिन्द्रविषयां स्तुतिमभि दीधय । सर्वतो दीप्तां कुरु । तत्र दृष्टान्तः । तष्टेव । यथा तष्टा तक्षनेन काष्ठं सम्स्करोति तद्वत् । सुधुरः शोभनया धुरान्वितो वाजी वेगवानत्यो नाश्व इव जिहानः कर्मणि प्रवर्तमानः पराण्युत्तमानि प्रियाणीन्द्रस्य प्रियतमानि । यद्वा । पराण्युत्तरेष्वहंसु क्रियमाणानि कर्माण्यभिमर्मृशत् अत्यर्थमभि मृशन् सुमेधाः शोभनमेधावानहं कवीन् । ये पूर्वमनुष्ठितयज्ञाद्देवभूयमगमन् ते कवयः । तान् सन्दृशे सन्द्रष्टुमिच्छामि । उक्तार्थे ब्राह्मणम् । अभि तष्टेव दीधया मनीषामित्यच्छावाकोऽहरहः संसत्यभिवत्तत्यै रूपमभिप्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्ताभ्यारभमानाः परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति कवीरिच्छामि संदृशे सुमेधा इति ये वै ते न ऋषयः पुर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति । ऐ. ब्रा. ६-२१ । इति तष्टेव । तक्षू स्वक्षू तनूकरण इत्यस्य तृनि रूपम् । नित्स्वरः । दीधय । दीधीङ् दीप्तिदेवनयोरित्यस्यान्तर्भावितण्यर्थस्य लोटि शओप् बहुलं छन्दसीति लुगभावः । व्यत्ययेन परस्मै पदम् । सुधुरः । आद्युदात्तं द्व्यच्छन्दसीत्युत्तर पदाद्युदात्तत्वम् । जिहानः । ऒहाङ् गतावित्यस्य शानचि भृञामिदित्यभ्यासस्येत्वम् । चित्त्वादन्तोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्याद्युदात्तत्वम् । अम् ्मृशत् । मृश आमर्शन इत्यस्य यङ् लुकि रुग्रिकौ च लुकीत्यभ्यासस्य रुगागमः । तदन्तच्छतरि रूपम् । नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः । सन्दृशे । द्रुशिर् प्रेक्षण इत्यस्मात्तुमर्थे दृशे विख्ये चेति केन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । समासे कृदुत्तरपदस्वरः । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् प्रत्ययः । चित्स्वरः ॥ १ ॥

3.38.2
इ॒नोत पृ᳚च्छ॒ जनि᳚मा कवी॒नां म᳚नो॒धृतः᳚ सु॒कृत᳚स्तक्षत॒ द्याम् ।
इ॒मा उ᳚ ते प्र॒ण्यो॒३॒᳚ वर्ध᳚माना॒ मनो᳚वाता॒ अध॒ नु धर्म᳚णि ग्मन् ॥
▶ पदपाठः (Word-by-word)
इ॒ना । उ॒त । पृ॒च्छ॒ । जनि᳚म । क॒वी॒नाम् । म॒नः॒॑धृतः᳚ । सु॒॑कृतः᳚ । त॒क्ष॒त॒ । द्याम् ।
इ॒माः । ऊं॒ इति᳚ । ते॒ । प्र॒॑न्यः᳚ । वर्ध᳚मानाः । मनः᳚॑वाताः । अध᳚ । नु । धर्म᳚णि । ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतेत्यामन्त्रणे । हे इन्द्र कवीनां सुकृतकर्मणां देवभूयगतानां जनिम जन्म । केन कर्मणा दिवं गताः कुतो वा तेशामुत्पत्तिरित्येतमर्थमिना ईश्वरान् गुरून्पृच्छ । ते कवयो मनोधृतः संयतमनस्का अत एव सुकृतः शोभन कर्माणः सन्तो द्यां दिवं तक्षत । अकुर्वन् । अथ अथेदानीं धर्मण्यस्मिन्यज्ञे ते त्वदर्थं प्रण्यः प्रणीयमाना मनोवाता मनोवेगा वर्धमानास्त्वां वर्धयन्त्य इमा अस्माभिः क्रियमाणाः स्तुतयो नु क्षिप्रं ग्मन् । त्वां गच्छन्तु । उ सर्वत्र प्रसिद्ध्यर्थः । पृच्छ । प्रच्छ ज्ञीप्सायामित्यस्य लोटि तुदादित्वाच्छः । तस्य ङित्त्वाद्ग्रहिज्यादिना सम्प्रसारनम् । निघातः । प्रण्यः । णीञ् प्रापण इत्यस्मादौणादिकः कर्मणि क्विप् । सर्वविधीनां छन्दसि विकल्पितत्वादियङादेशं बाधित्वा यनादेशः । उदात्तस्वरितयोरिति स्वरितत्वम् । ग्मन् । गमेर्लङि बहुलं छन्दसीति शपो लुक् । झेर्ङित्त्वाद्गमहनेत्यादिनोपधालोपः । निघातः ॥ २ ॥

3.38.3
नि षी॒मिदत्र॒ गुह्या॒ दधा᳚ना उ॒त क्ष॒त्राय॒ रोद᳚सी॒ सम᳚ञ्जन् ।
सं मात्रा᳚भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ᳚ते॒ धाय᳚से धुः ॥
▶ पदपाठः (Word-by-word)
नि । सी॒म् । इत् । अत्र᳚ । गुह्या᳚ । दधा᳚नाः । उ॒त । क्ष॒त्राय᳚ । रोद᳚सी॒ इति᳚ । सम् । अ॒ञ्ज॒न् ।
सम् । मात्रा᳚भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति᳚ । अ॒न्तः । म॒ही इति᳚ । समृ᳚ते॒ इति॒ सम्॑ऋ᳚ते । धाय᳚से । धु॒रिति᳚ धुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र भूलोके गुह्या गूढानि कर्माणि सीमित् सर्वत एव निदधानाः कुर्वाणा एते कवय उत अपि च क्शत्राय बलाय धनाय वा रोदसी द्यावापृथिवौ । समञ्जन् । ओषधीभिः पृथिवीं देवैश्च दिवं सङ्गतामकार्षुः । किञ्च ते मात्राभिः । मीयन्ते मान्तिति वा मात्राः शिलोच्चायाः ताभिर्मात्राभिः संममिरे । ते रोदस्यावियत्तया परिच्छिन्ने चक्रुश्च । समृते परस्परं सङ्गते उर्वी विस्तीर्णे मही महतौ ते द्यापृथिव्यौ येमुः । नियमितवन्तः । विश्टंभकेनान्तरिक्षेणान्तरुदयच्छन् । तथा धायसे तयोर्धारनार्थमन्तरिक्षं धुः व्यधुः । इदवधारणार्थे । गुह्या । गुहायां भवानि । भवार्थे यत् । यतोऽनाव इत्याद्युदात्तः । दधानाः । दधातेः शानचि रूपम् । अभ्यस्तस्वरः । अञ्जन् । अन्जू व्यक्तिम्रक्षणगतिष्वित्यस्य लङि श्नसोरल्लोपः । निघातः । मात्राभिः । मा नाने माङ् माने वा । हुयामेत्यादिना त्रन्प्रत्ययः । नित्स्वरः । ममिरे । माङ् मान इत्यस्य लिटि रूपम् । चादिलोपे विभाषेति न निघातः । येमुः । यम उपरम इत्यस्य लिट्युसि रूपम् । तिङुत्तरत्वादनिघातः । धायसे । वहिहाधाञ्भ्यश्छन्दसीत्यसुन् । नित्स्वरः । धुः । दधातेरुङि रूपं ॥ ३ ॥

3.38.4
आ॒तिष्ठ᳚न्तं॒ परि॒ विश्वे᳚ अभूष॒ञ्छ्रियो॒ वसा᳚नश्चरति॒ स्वरो᳚चिः ।
म॒हत्तद्वृष्णो॒ असु᳚रस्य॒ नामा वि॒श्वरू᳚पो अ॒मृता᳚नि तस्थौ ॥
▶ पदपाठः (Word-by-word)
आ॒॑तिष्ठ᳚न्तम् । परि᳚ । विश्वे᳚ । अ॒भू॒ष॒न् । श्रियः᳚ । वसा᳚नः । च॒र॒ति॒ । स्व॑रो᳚चिः ।
म॒हत् । तत् । वृष्णः᳚ । असु᳚रस्य । नाम᳚ । आ । वि॒श्व॑रू᳚पः । अ॒मृता᳚नि । त॒स्थौ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्र्वे कवयो रथमातिष्ठन्तमिन्द्र पर्यभूषन् । परितोऽलमकुर्वन् । स्वरोछिः । स्वमेव रोछिर्यस्यासौ स्वरोचिः । स्वप्रभयैव दीप्यमान इत्यर्थः । अत एव श्रियो दीप्तिर्वसान आच्छादयन् सोऽयमिन्द्रश्चरति । सर्वत्र वर्तते । वृष्णः कामानां वर्षितुरसुरस्य । अस्यति प्रेरयति सर्वानन्तर्यामितयेत्यसुरः । तस्येन्द्रस्य तत्तादृशमनुभूतपुर्वं नाम । नमयति सर्वाननेन शत्रूनिति नाम कर्म । यद्वा नम्यते सर्वैर्नस्कियत इति नामेन्द्रस्य शरीरं कर्म वा । महदाश्चर्योपेतं वर्तते । तथा विश्वरूपो नानाविधरूपतां भजमानः स इन्द्रो वरुणात्मनामृतानि जलान्या तस्थौ । आधितिष्ठति । विश्वे । जसः शी । अभूषन् । भूष अलङ्कार इत्यस्य लङि रूपम् । वसानः । वस आच्छादन इत्यस्य शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः । नाम । णमु प्रह्वत्व इत्यस्मान्नामन्सीमन्नित्यादिना मनिन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । विश्वरूप इति तस्य संज्ञा । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम् । अमृतानि । कालाध्वनोरत्यन्तरसंयोग इति द्वितीया । तस्थौ । तिश्ठतेर्लिटि णलि रूपं ॥ ४ ॥

3.38.5
असू᳚त॒ पूर्वो᳚ वृष॒भो ज्याया᳚नि॒मा अ᳚स्य शु॒रुधः᳚ सन्ति पू॒र्वीः ।
दिवो᳚ नपाता वि॒दथ᳚स्य धी॒भिः क्ष॒त्रं रा᳚जाना प्र॒दिवो᳚ दधाथे ॥
▶ पदपाठः (Word-by-word)
असू᳚त । पूर्वः᳚ । वृ॒ष॒भः । ज्याया᳚न् । इ॒माः । अ॒स्य॒ । शु॒रुधः᳚ । स॒न्ति॒ । पू॒र्वीः ।
दिवः᳚ । न॒पा॒ता॒ । वि॒दथ᳚स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒॑दिवः᳚ । द॒धा॒थे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभः कामानां वर्षकः पूर्वश्चिरन्तनोत एव ज्यायानिन्द्रोऽसूत । आपः ससर्ज । पूर्वीर्बह्व्य इमा अनेन सृष्टा आपोऽस्य तुरुधः सन्ति । तुचः पिपासाया रोधयित्र्यो भवन्ति । दिवो नपता दिवो न पातयितारौ हे राजानाविन्द्रावरुणौ प्रदिवः प्रकर्षेण द्योतमानस्य विदथस्य यज्ञकारिणः स्तोतुर्धीभिः स्तुतिभिः क्शत्रं धनं दधाथे । अस्मभ्यं दातुं धारयेथे । असूत षूङ् प्राणिगर्भविमोचन इत्यस्य लङि रूपम् । अडागमस्वरः । ज्यायान् । प्रशस्यशब्दादीयसुनि ज्य चेति ज्यादेशः । ज्यादादीयस इतीयस आदेराकारादेशः । नित्त्वादाद्युदात्तः । शुरुधः । पृषोदरादिः । नपाता । नभ्राण्नपादिति निपातनान्न ञः प्रकृतिभावः । आमन्त्रितत्वान्निघातः धीभिः । सावेकाच इति विभक्तेरुदात्तत्वम् । राजाना । आमन्त्रितत्वान्निघातः । दधाथे । दधातेर्लटि रूपम् । निघातः ॥ ५ ॥

3.38.6 समानपद
त्रीणि᳚ राजाना वि॒दथे᳚ पु॒रूणि॒ परि॒ विश्वा᳚नि भूषथ॒ः सदां᳚सि ।
अप᳚श्य॒मत्र॒ मन᳚सा जग॒न्वान्व्र॒ते ग᳚न्ध॒र्वा{4} अपि᳚ वा॒युके᳚शान् ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । रा॒जा॒ना॒ । वि॒दथे᳚ । पु॒रूणि᳚ । परि᳚ । विश्वा᳚नि । भू॒ष॒थः॒ । सदां᳚सि ।
अप᳚श्यम् । अत्र᳚ । मन᳚सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि᳚ । वा॒यु॑के᳚शान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजानाविन्द्रावरुणौ विदथेऽस्मिन्यज्ञे विश्वानि व्याप्तानि पुरूणि यजनीयैः सोमादिभिः पूर्णानि त्रीणि सदांसि सवनानि परि भूशथः । सर्वतोऽलंकुरुथः । हे इन्द्र त्वं जगन्वान् । यज्ञं प्रति गतवानसि । अपि सम्भावनायाम् । यतोऽहमत्र व्रते यज्ञे वायुकेशान् वायुवच्चलनरश्मीन् गन्धर्वान् सोमरक्शकान् स्वानभ्राजादीन् मनसापश्यम् । ते च स्वानभ्राजादयस्तैत्तिरीयके स्पश्टमभिहिताः । स्वान भाजांघारे बंभारे हस्त सुहस्त क्रुशानवेते वः सोमक्रयनास्तान्रक्षध्वं मा वो दभन् । स. १-२-७ । इति । भूषथः । भूष अलङ्कार इत्यस्य लटि रूपम् । अपश्यम् । दृश्र् प्रेक्शण इत्यस्य लङि रूपम् । पादादित्वादनिघातः । जगन्वान् । गमेः क्वसौ विभाषा गमहनविदविशामितीटो विकल्पितत्वादत्रेडभावः । मो नो धातोर्म्वोश्चेति मकारस्य नकारः । प्रत्ययस्वरः गन्धर्वान् । धृञ् धारण इत्यस्य गोशब्द उपपदे गवि गन् धृञो व इति वप्रत्ययः । तत्सन्नियोगेन गोशब्दस्य गनादेशः । प्रत्ययस्वरः ॥ ६ ॥

3.38.7
तदिन्न्व᳚स्य वृष॒भस्य᳚ धे॒नोरा नाम᳚भिर्ममिरे॒ सक्म्यं॒ गोः ।
अ॒न्यद᳚न्यदसु॒र्यं१॒᳚ वसा᳚ना॒ नि मा॒यिनो᳚ ममिरे रू॒पम᳚स्मिन् ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य᳚ । धे॒नोः । आ । नाम᳚॑भिः । म॒मि॒रे॒ । सक्म्य᳚म् । गोः ।
अ॒न्यत्॑अ᳚न्यत् । अ॒सु॒र्य᳚म् । वसा᳚नाः । नि । मा॒यिनः᳚ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये यजमाना वृषभस्याभिमतफलप्रदास्यास्येन्द्रस्यार्थं धेनोर्गोर्नामभिर्विश्वायुर्विश्वव्यचा इत्यादिभिरुपलक्शितां गां सक्म्यं सम्भजनार्हं तत्क्षीरादिकं हविर्नु क्षिप्रमाममिर आदुहन्ति । धातूनामनेकार्थत्वात् । तेन च हविषा यज्ञमनुष्थाय देवभूयं प्राप्तास्ते कम्व्योऽन्यदन्योन्नूतनमसुर्यमसुराणां बलं वसाना आच्छादयन्त आत एव मायिनो मायया स्वीकृतकामरूपाः । यद्वा मायिनः प्रज्ञावन्तः सन्तोऽस्मिन्निन्द्रे रूपं स्वं स्वं रूपं नि ममिरे । इयत्तया परिच्छिद्य निदधुः ॥ इत् पूरणम् । ममिरे । माङ् माने । लिटि रूपम् । निघातः । सक्म्यम् । युजिरुचितिजां कुश्चेत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्सचतेर्मक्प्रत्ययः कुत्वं च । सचनं सक्मः । तत्र भव इत्यर्थे भवे छन्दसीति यत् । यतोऽनाव इत्याद्युदात्तः । गोः । एकादेशस्वरः । असुर्यम् । असुरस्य स्वमित्यर्थेऽसुरस्य स्वम् । पा. ४-४-१२३ । इति यत् । तित्स्वरितः । रूपम् । रूप रूपक्रियायाम् । ण्यन्तः । खष्पशिल्प शष्पवाष्परूपपर्पतल्पाः । उ. ३-२८ । इति पप्रत्ययान्तत्वेन निपातनात्पकारोलोपोऽगुणत्वं च । रूपयति रूप्यते वेति रूपम् । प्रत्ययस्वरः ॥ ७ ॥

3.38.8
तदिन्न्व᳚स्य सवि॒तुर्नकि᳚र्मे हिर॒ण्ययी᳚म॒मतिं॒ यामशि᳚श्रेत् ।
आ सु᳚ष्टु॒ती रोद᳚सी विश्वमि॒न्वे अपी᳚व॒ योषा॒ जनि᳚मानि वव्रे ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । नु । अ॒स्य॒ । स॒वि॒तुः । नकिः᳚ । मे॒ । हि॒र॒ण्ययी᳚म् । अ॒मति᳚म् । याम् । अशि᳚श्रेत् ।
आ । सु॒॑स्तु॒ती । रोद᳚सी॒ इति᳚ । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे । अपि᳚॑इव । योषा᳚ । जनि᳚मानि । व॒व्रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्तस्मात्सवितुः सर्वस्य जगतोऽन्तर्यामितया प्रेरयितुरस्येन्द्रस्य मे मम हिरण्ययीं सुवर्णमयीममतिं दीप्तिं नकिः को वा परिच्छिनत्ति खलु । यां मदीयां दीप्तिमशिश्रेत् य आश्रयति स सुष्टुती शोभनया स्तुत्या स्तुतः सन् विश्वमिन्वे सर्वस्य सन्तर्पयित्रौ रोदसी द्यावापृथिव्यावा वव्रे । स्वकीयतया सर्वतो व्रुणुते । तत्र दृष्टान्तः । अपीव योषा जनिमानि । यथा योशा स्त्री जनिमानि जातान्यपत्यानि वृणोति तद्वत् ॥ नकिः निपातः । हिरण्ययीम् । हिरण्यस्य विकारार्थे मयड्वैतयोरिति मयट् । ऋत्व्यवास्त्व्यवास्त्व्यमाध्वीहिरण्ययानि छन्दसीति निपातानान्मयटो मकारलोपः । तित्त्वाट्टिद्धाणञिति ङेप् । प्रत्ययस्वरः । अमतिम् । अमगत्यादिषु । अमेरतिरित्यतिप्रत्ययः । प्रत्ययस्वरः । अशिश्रेत् । श्रयतेर्लङि बहुलं छन्दसीति शपः श्लुः । यद्वृत्तयोगादनिघातः । सुष्टुती । सुपां सुलुगिति तृतीयायाः सवर्णदीर्घः । विश्वमिन्वे । इवि व्याप्तिप्रीणनयोरित्यस्मात्कर्मण्यण् । इदित्वान्नुम् । तत्पुरुषे क्रुय्ति बहुलवि ति द्वितीयाया अलुक् । कृदुत्तरपदस्वरः । योशा । यौतेर्मिश्रीभावकर्मणो वृतॄवदिहनिकमिकशियुमुचिभ्यः स इति सप्रत्ययः । ग्रामादित्वादाद्युदात्तः । जनिमानि । जनी प्रादुर्भाव्वे । हृजभ्यामिमनिन्नितीमनिन्प्रत्ययो भूतकाले । नित्त्वादाद्युदात्तः । वव्रे । वृञ् वरन इत्यस्य लिति रूपं ॥ ८ ॥

3.38.9
यु॒वं प्र॒त्नस्य᳚ साधथो म॒हो यद्दैवी᳚ स्व॒स्तिः परि᳚ णः स्यातम् ।
गो॒पाजि᳚ह्वस्य त॒स्थुषो॒ विरू᳚पा॒ विश्वे᳚ पश्यन्ति मा॒यिनः᳚ कृ॒तानि᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । प्र॒त्नस्य᳚ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी᳚ । स्व॒स्तिः । परि᳚ । नः॒ । स्या॒त॒म् ।
गो॒पाजि᳚ह्वस्य । त॒स्थुषः᳚ । वि॑रू᳚पा । विश्वे᳚ । प॒श्य॒न्ति॒ । मा॒यिनः᳚ । कृ॒तानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ युवं युवां प्रत्नस्य स्तोतुर्महस्तादृशं श्रेयः साधथः । साधयथः । कीदृशं तदित्यत आह । यद्दैवी स्वस्तिर्यदिदं देवसम्बन्धि श्रेयः स्वराज्य लक्षनम् । किञ्च युवां नोऽस्मान्परि परितः स्यातम् । रक्शकौ भवेतम् । विश्वे सर्वे मायिनो देवा गोपाजिह्वस्य । गोप्त्री जिह्वा मा बिभीतेत्येतादृशी वाग्यस्य स तथोक्तः । तस्थुषः स्थिरतरस्येन्द्रस्य विरूपा नानाविधानि वृत्रहननादीनि क्रुतानि कर्माणि पश्यन्ति । एवमिन्द्रस्य विश्वरूपत्वमुक्तम् । युवम् । युष्मच्छब्दस्य द्विवचने युवावौ द्विवचन इति युवादेशः । ङेप्रथमयोरमिति सुपोऽमादेशः । साधथः । साध संसिद्धावित्यस्य ण्यन्तस्य लटि रूपम् । बहुलमन्यत्रापीति णेर्लुक् । निघातः । दैवी । देवाद्यञञावित्यञ् प्रत्ययः । ञित्स्वरः । स्यातम् । अस्तेर्लिङे रूपम् । गोपाजिह्वस्य । गुपो रक्शण इत्यस्यायप्रत्ययान्तस्य क्विप्यतोलोपयलोपयोः क्रुतयो रूपं गोपा इति । बहुव्रीहौ पूर्वपदस्वरः । तस्थुषः । ष्ठा गतिनिव्रुत्तावित्यस्य क्वसौ वस्वेकाजाद्घसामिति प्राप्तस्येटः सम्प्रसारणम् । सम्प्रसारनाश्रयं च बलीय इति सम्प्रसारनस्य बलीयस्त्वान्निवृत्तिः । वसोः संप्रसारनम् । प्रत्ययस्वरः । पश्यन्ति । दृशिर् प्रेक्शणे निघातः ॥ ९ ॥

3.38.10
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रो पलक्शितानि सर्वाणि रक्षांसि घ्नन्तं हिम्सन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्जेतारं त्वामुतये रक्षणाय वयमाह्वयेम ॥ शुनं ॥ टुओश्वि गतिव्रुद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे क्रुते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकत्यात्वम् । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ १० ॥