इ॒मा उ᳚ ते प्र॒ण्यो॒३॒᳚ वर्ध᳚माना॒ मनो᳚वाता॒ अध॒ नु धर्म᳚णि ग्मन् ॥
पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । ते॒ । प्र॒॑न्यः᳚ । वर्ध᳚मानाः । मनः᳚॑वाताः । अध᳚ । नु । धर्म᳚णि । ग्म॒न् ॥
सायणभाष्यम् (Sayana Commentary)
उतेत्यामन्त्रणे । हे इन्द्र कवीनां सुकृतकर्मणां देवभूयगतानां जनिम जन्म । केन कर्मणा दिवं गताः कुतो वा तेशामुत्पत्तिरित्येतमर्थमिना ईश्वरान् गुरून्पृच्छ । ते कवयो मनोधृतः संयतमनस्का अत एव सुकृतः शोभन कर्माणः सन्तो द्यां दिवं तक्षत । अकुर्वन् । अथ अथेदानीं धर्मण्यस्मिन्यज्ञे ते त्वदर्थं प्रण्यः प्रणीयमाना मनोवाता मनोवेगा वर्धमानास्त्वां वर्धयन्त्य इमा अस्माभिः क्रियमाणाः स्तुतयो नु क्षिप्रं ग्मन् । त्वां गच्छन्तु । उ सर्वत्र प्रसिद्ध्यर्थः । पृच्छ । प्रच्छ ज्ञीप्सायामित्यस्य लोटि तुदादित्वाच्छः । तस्य ङित्त्वाद्ग्रहिज्यादिना सम्प्रसारनम् । निघातः । प्रण्यः । णीञ् प्रापण इत्यस्मादौणादिकः कर्मणि क्विप् । सर्वविधीनां छन्दसि विकल्पितत्वादियङादेशं बाधित्वा यनादेशः । उदात्तस्वरितयोरिति स्वरितत्वम् । ग्मन् । गमेर्लङि बहुलं छन्दसीति शपो लुक् । झेर्ङित्त्वाद्गमहनेत्यादिनोपधालोपः । निघातः ॥ २ ॥