श्रवणम्

3.38.5
असू᳚त॒ पूर्वो᳚ वृष॒भो ज्याया᳚नि॒मा अ᳚स्य शु॒रुधः᳚ सन्ति पू॒र्वीः ।
दिवो᳚ नपाता वि॒दथ᳚स्य धी॒भिः क्ष॒त्रं रा᳚जाना प्र॒दिवो᳚ दधाथे ॥
▶ पदपाठः (Word-by-word)
असू᳚त । पूर्वः᳚ । वृ॒ष॒भः । ज्याया᳚न् । इ॒माः । अ॒स्य॒ । शु॒रुधः᳚ । स॒न्ति॒ । पू॒र्वीः ।
दिवः᳚ । न॒पा॒ता॒ । वि॒दथ᳚स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒॑दिवः᳚ । द॒धा॒थे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभः कामानां वर्षकः पूर्वश्चिरन्तनोत एव ज्यायानिन्द्रोऽसूत । आपः ससर्ज । पूर्वीर्बह्व्य इमा अनेन सृष्टा आपोऽस्य तुरुधः सन्ति । तुचः पिपासाया रोधयित्र्यो भवन्ति । दिवो नपता दिवो न पातयितारौ हे राजानाविन्द्रावरुणौ प्रदिवः प्रकर्षेण द्योतमानस्य विदथस्य यज्ञकारिणः स्तोतुर्धीभिः स्तुतिभिः क्शत्रं धनं दधाथे । अस्मभ्यं दातुं धारयेथे । असूत षूङ् प्राणिगर्भविमोचन इत्यस्य लङि रूपम् । अडागमस्वरः । ज्यायान् । प्रशस्यशब्दादीयसुनि ज्य चेति ज्यादेशः । ज्यादादीयस इतीयस आदेराकारादेशः । नित्त्वादाद्युदात्तः । शुरुधः । पृषोदरादिः । नपाता । नभ्राण्नपादिति निपातनान्न ञः प्रकृतिभावः । आमन्त्रितत्वान्निघातः धीभिः । सावेकाच इति विभक्तेरुदात्तत्वम् । राजाना । आमन्त्रितत्वान्निघातः । दधाथे । दधातेर्लटि रूपम् । निघातः ॥ ५ ॥