तृतीयं मण्डलम् - सूक्तम् 32

17 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.32 - सम्पूर्णम्

1 / 17
ऋक्: 3.32.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (17)
3.32.1
इन्द्र॒ सोमं᳚ सोमपते॒ पिबे॒मं माध्यं᳚दिनं॒ सव᳚नं॒ चारु॒ यत्ते᳚ ।
प्र॒प्रुथ्या॒ शिप्रे᳚ मघवन्नृजीषिन्वि॒मुच्या॒ हरी᳚ इ॒ह मा᳚दयस्व ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । सोम᳚म् । सो॒म॒॑प॒ते॒ । पिब᳚ । इ॒मम् । माध्य᳚न्दिनम् । सव᳚नम् । चारु᳚ । यत् । ते॒ ।
प्र॒॑प्रुथ्य᳚ । शिप्रे॒ इति᳚ । म॒घ॒॑व॒न् । ऋ॒जी॒षि॒न् । वि॒॑मुच्य᳚ । हरी॒ इति᳚ । इ॒ह । मा॒द॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रो ब्रूते । सोमपते सोमस्याधिपते हे इन्द्र इममस्माभिर्माध्यन्दिने सवने क्रियमाणं सोमं सोमरसं पिब । यद्यस्मात्ते त्वदर्थं क्रियमाणं माध्यन्दिनं मन्ध्यन्दिनसम्बन्धि सवनं निश्केवल्याख्यं शस्त्रं चारु रमणीयं वर्तते । मघवन् धनवन् ऋजीषिन् । ऋजीषब्देन गतसारं सोमद्रव्यमुच्यते । तद्वन् हे इन्द्र हरी रथे योजितावशौ रथाद्विमुच्य शिप्रे हनू प्रप्रुथ्यात्रत्येन ग्रासेन पूरयित्वेह देवयजनदेशे मादयस्व । तावश्वौ हर्षय ॥ प्रप्रुथ्य । पोथृ वर्याप्तावित्यस्य ल्यपि रूपम् । द्रस्वश्छान्दसः । लित्स्वरः । ऋजीषिन् । अर्ज षर्ज आर्जन इत्यस्मादर्जेश्च ऋजि च । उ. ४-२८ । इतीषन्प्रत्यय ऋजि इत्यादेशश्च धातोः । आर्ज्यत इत्यृजीशम् । तदस्यास्तीतीनिप्रत्ययः । आमन्त्रितत्वान्निघातः । मादयस्व । मदिस्तुत्यादिषु । हेतुमण्णिच् । निघातः ॥ १ ॥

3.32.2
गवा᳚शिरं म॒न्थिन᳚मिन्द्र शु॒क्रं पिबा॒ सोमं᳚ ररि॒मा ते॒ मदा᳚य ।
ब्र॒ह्म॒कृता॒ मारु᳚तेना ग॒णेन᳚ स॒जोषा᳚ रु॒द्रैस्तृ॒पदा वृ᳚षस्व ॥
▶ पदपाठः (Word-by-word)
गो॑आ᳚शिरम् । म॒न्थिन᳚म् । इ॒न्द्र॒ । शु॒क्रम् । पिब᳚ । सोम᳚म् । र॒रि॒म । ते॒ । मदा᳚य ।
ब्र॒ह्म॒॑कृता᳚ । मारु᳚तेन । ग॒णेन᳚ । स॒॑जोषाः᳚ । रु॒द्रैः । तृ॒पत् । आ । वृ॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र गवाशिरं वव्यस्य पयस आशीर्मिश्रणं यस्मिन् तं सोमम् । अपि च मन्थिनं मन्थसंयुक्तं शुक्रमभिनवं यद्वा शुक्रामन्थिग्रहे वर्तमानम् । एवं त्रिषु सवनेषु वर्तमानमिमं सोमं पिब । ते तव मदाय हर्षाय ररिम । तं सोमं वयं प्रयच्छामः । मारुतेन । मरुतां गणो मारुतः । स च ब्रह्मकृत् । ब्रह्म स्तोत्रं करोतीति ब्रह्मकृत् । इन्द्रस्तोत्रं कुर्वाणेन मारुतेन गणेन रुद्रैरेकादशसंख्याकै रुद्रैश्च सजोषाः सङ्गतस्त्वं तृपत् सोमपानेन तृप्यन् आ वृषस्व । तमिमं सर्वतो जठरे सिञ्च । धारय ॥ गवाशिरं ॥ श्रीणातेराङ् पूर्वत्क्विप्यपस्पृधेत्यामानृचुरित्यादिना निपातनादाशिरादेशः । बहुव्रीहौ पुर्वपदप्रकृतिस्वरः । पिबा । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । ररिम । रातेश्छान्दसे वर्तमाने लिटि रूपम् । असमानवाक्यत्वान्निघाताभावः । आगमा अनुदात्ता इतीटोऽनुदात्तत्वात्प्रत्ययस्वरः । तृपत् । तृप प्रीणने । तुदादिः । आगमानुशासनस्यानित्यत्वान्नुमभावः । वृषस्व । वृषु सेचने । व्यत्ययेन शः ॥ २ ॥

3.32.3
ये ते॒ शुष्मं॒ ये तवि᳚षी॒मव᳚र्ध॒न्नर्च᳚न्त इन्द्र म॒रुत᳚स्त॒ ओजः᳚ ।
माध्यं᳚दिने॒ सव᳚ने वज्रहस्त॒ पिबा᳚ रु॒द्रेभि॒ः सग᳚णः सुशिप्र ॥
▶ पदपाठः (Word-by-word)
ये । ते॒ । शुष्म᳚म् । ये । तवि᳚षीम् । अव᳚र्धन् । अर्च᳚न्तः । इ॒न्द्र॒ । म॒रुतः᳚ । ते॒ । ओजः᳚ ।
माध्य᳚न्दिने । सव᳚ने । व॒ज्र॒॑ह॒स्त॒ । पिब᳚ । रु॒द्रेभिः᳚ । स॑ग᳚णः । सु॒॑शि॒प्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ये मरुतस्ते तव शुष्मं शत्रूणां शोषकं तेजो ये च मरुतस्तविषीं बलं चावर्धयन् युद्ध सहकारितयावर्धयन् ते मरुतोऽर्चन्तस्त्वांस्तुवन्तः सन्तस्ते तवौजो युद्धसामर्थ्यमवर्धयुअन् । वज्रहस्त वज्रयुक्तौ हस्तौ यस्येति तादृश सुसिप्र शोभनहनो । शिप्रे हनू नासिके वेति यास्कः । हे इन्द्र रुद्रेभिः । रोदयन्ति शत्रूनिति रुद्रा मरुतः । तैः सगण स्त्वं माध्युअन्दिने सवने सोमं पिब ॥ अवर्धन् । वृधु वर्धने । अन्तर्भावितण्यर्थः । यद्वृत्तयोगादनिघातः । माध्यन्दिने । उत्सादित्वादञ् । ञित्वादाद्युदात्तः ॥ ३ ॥

3.32.4
त इन्न्व᳚स्य॒ मधु᳚मद्विविप्र॒ इन्द्र᳚स्य॒ शर्धो᳚ म॒रुतो॒ य आस᳚न् ।
येभि᳚र्वृ॒त्रस्ये᳚षि॒तो वि॒वेदा᳚म॒र्मणो॒ मन्य᳚मानस्य॒ मर्म᳚ ॥
▶ पदपाठः (Word-by-word)
ते । इत् । नु । अ॒स्य॒ । मधु᳚॑मत् । वि॒वि॒प्रे॒ । इन्द्र᳚स्य । शर्धः᳚ । म॒रुतः᳚ । ये । आस᳚न् ।
येभिः᳚ । वृ॒त्रस्य᳚ । इ॒षि॒तः । वि॒वेद᳚ । अ॒म॒र्मणः᳚ । मन्य᳚मानस्य । मर्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुत इन्द्रस्य शर्धो बलभुता आसन् त इत् त एव मरुतोऽस्य । द्वितीयार्थे षष्ठी । इममिन्द्रं मधुमत् । तव सहाया वयस्माहे त्वं हुद्धमभिगच्छेति माधुर्योपेतं वाक्यं यथा भवति तथा विविप्रे नु । क्षिप्रं प्रैरयन् । येभिर्यैर्युद्धसहयैर्मरुद्भिरिषितः प्रेरित इन्द्रोऽमर्मणः परैरविदितमर्मस्थानस्यात एव मन्यमानस्य न कोऽपि मम हन्तेत्यभिमन्यमानस्य वृत्रस्यासुरस्य मर्म यस्मिन् स्थाने प्रहृतौ सत्यां स मरिश्यति तादृशं स्थानं विवेद । अज्ञासीत् ॥ विविप्रे । विपक्शेपण इत्यस्य लिटि व्यत्ययेनात्मने पदम् । इरेच इरयो र इति रे इत्यादेशः । निघातः । आसन् । अस भुवीत्यस्य लङि रूपम् । यद्वृत्तयोगान्निघाताभावः । विवेद । विदज्ञान इत्यस्य लिटि रूपम् । लित्स्वरः । मर्म । मृङ् प्राणत्याग इत्यस्मादौणादिको मनिन् । नित्स्वरः ॥ ४ ॥

3.32.5
म॒नु॒ष्वदि᳚न्द्र॒ सव᳚नं जुषा॒णः पिबा॒ सोमं॒ शश्व᳚ते वी॒र्या᳚य ।
स आ व᳚वृत्स्व हर्यश्व य॒ज्ञैः स᳚र॒ण्युभि᳚र॒पो अर्णा᳚ सिसर्षि ॥
▶ पदपाठः (Word-by-word)
म॒नु॒ष्वत् । इ॒न्द्र॒ । सव᳚नम् । जु॒षा॒णः । पिब᳚ । सोम᳚म् । शश्व᳚ते । वी॒र्या᳚य ।
सः । आ । व॒वृ॒त्स्व॒ । ह॒रि॒॑अ॒श्व॒ । य॒ज्ञैः । स॒र॒ण्यु॑भिः᳚ । अ॒पः । अर्णा᳚ । सि॒स॒र्षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मनुष्वत् मनोर्यज्ञमिव ममेदं सवनं यज्ञं जुषाभिः सेवमानस्त्वं शश्वते शाश्वताय वीर्याय परपरिभवलक्षणाय सामर्थ्यायेमं सोमं पिब । हे हर्यश्व स तादृशस्त्वं यज्ञैर्यजनीयैर्मरुद्भिः साकमाववृत्स्व । आगच्छ । किञ्च सरण्युभिरेकश्रुतिमन्मन्त्रानात्म इच्छद्भिः यद्वा सरण्युभिः सरणशीलैर्मरुद्भिः सहितस्त्वमओप्ऽन्तरिक्षस्थितान्युदकानि अर्णा पार्थिवान्युदकानि सिसर्षि । प्रपय । यद्वा अपः । पञ्चम्यन्तमेतत्पदम् । अपो व्याप्तादन्तरिक्षाअत्सकाशादर्णांसि प्रापय ॥ ववृत्स्व । वृतु वर्तने । व्यत्ययेन श्लपः श्लुः । लोटि रूपम् । सरण्युभिः रण शब्दार्थः । क्विप् । समानो रणो ध्वनिर्येशां ते सरणा मन्त्राः । तानिच्छन्तः । सुपः क्यच् । क्यादित्युप्रत्ययः । यद्वा सृगतौ । सृयुवचिभ्योऽन्युजागूजक्नुचः । उ. ३-८१ । इत्यन्युच् प्रत्ययः । रषाभ्याम् । पा. ८-४-१ । इति णत्वम् । चित्त्वादन्तोदात्तः । अपः । आप्लृव्याप्तौ । आप्नोतेः क्विप् ह्रस्वश्चेति क्विप् धातोर्ह्रस्वश्च । सावेकाच इति विभक्तेरुदात्तत्वम् । सिसर्षि । सृगतौ । छान्दसो जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वं ॥ ५ ॥

3.32.6
त्वम॒पो यद्ध᳚ वृ॒त्रं ज᳚घ॒न्वा{4} अत्या{4}᳚ इव॒ प्रासृ᳚ज॒ः सर्त॒वाजौ ।
शया᳚नमिन्द्र॒ चर᳚ता व॒धेन᳚ वव्रि॒वांसं॒ परि᳚ दे॒वीरदे᳚वम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒पः । यत् । ह॒ । वृ॒त्रम् । ज॒घ॒न्वान् । अत्या᳚न्॑इव । प्र । असृ᳚जः । सर्त॒वै । आ॒जौ ।
शया᳚नम् । इ॒न्द्र॒ । चर᳚ता । व॒धेन᳚ । व॒व्रि॒॑वांस᳚म् । परि᳚ । दे॒वीः । अदे᳚वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं देवीर्देवनशीला अपः परि वर्विवांसं परित आवृत्य वर्तमानं अत एवा देवं बहूदकतयास्वच्छत्वेनाप्रथ्भासमानं शयानमेकत्र निश्चलतया वर्तमानं वृत्रं मेघं यद्यदा चरता तमुद्दिश्य वर्तमानेन वधेन युद्धेन जघन्वान् हतवानसि तदा त्वमाजौ युद्धे सर्तवै अतिवेगगमनायात्यानिव यथाश्वान् प्रेरयसि तथा त्वमप उदकान्यन्तरिक्षादाकाशात् प्रासृजो ह । प्रकर्षेण मेघभेदनं कृत्वासृजः खलु । तं यजाम इत्युत्तरेणान्वयः । जघन्वान् । हन हिंसागत्योरित्यस्य क्वसौ विभाषा गमहनविदविशामितीटो विकल्पितत्वादत्रेडभावः । अभ्यासाच्चेति हकारस्य घत्वम् । प्रत्ययस्वरः । असृजः । सृज विसर्गे । शविकरणी । यद्योगादनिघातः । सर्तवै । सृ गतौ । तुमर्थे तवैप्रत्ययः । अन्तश्च तवै युगपदिति धातोः प्रत्ययस्य चोदात्तत्वं आजौ । अज गतिक्षेपणयोः । आज्यतिभ्यां च । उ. ४-१३- । इति इण्प्रत्ययः । णित्वादुपधावृद्धिः । अजन्ति गच्छन्त्यस्मिन्नित्याजिर्युद्धम् । प्रत्ययस्वरः । सर्तवाजावित्यत्र संहितायामायादेशे कृते तत्य लोपः साकल्यस्येति यकारलोपः । सर्वविधीनां छन्दसि विकओपितत्वात्सवर्णदीर्घत्वे कर्तव्ये य लोपो नासिद्धो भवति । सवर्णदीर्घः । शयानम् । शीङ् स्वप्ने । शानच् । अदादित्वाच्छपोलुक् । ङित्वाल्लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः । वधेन । हन्तेर्भावे हनश्च वध इत्यप्प्रत्ययो वधादेशश्च धातोरन्तोदात्तश्च । वव्रिवांसम् । वृञ् वरण इत्यस्य क्वसाविडागमश्छान्दसः । प्रत्ययस्वरः ॥ ६ ॥

3.32.7
यजा᳚म॒ इन्नम᳚सा वृ॒द्धमिन्द्रं᳚ बृ॒हन्त᳚मृ॒ष्वम॒जरं॒ युवा᳚नम् ।
यस्य᳚ प्रि॒ये म॒मतु᳚र्य॒ज्ञिय᳚स्य॒ न रोद᳚सी महि॒मानं᳚ म॒माते᳚ ॥
▶ पदपाठः (Word-by-word)
यजा᳚मः । इत् । नम᳚सा । वृ॒द्धम् । इन्द्र᳚म् । बृ॒हन्त᳚म् । ऋ॒ष्वम् । अ॒जर᳚म् । युवा᳚नम् ।
यस्य᳚ । प्रि॒ये इति᳚ । म॒मतुः᳚ । य॒ज्ञिय᳚स्य । न । रोद᳚सी॒ इति᳚ । म॒हि॒मान᳚म् । म॒माते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नमसा हविर्लक्षणेनान्नेन वृद्धं प्रवृद्धं अत एव बृहन्तं महान्तमृष्वम् । ऋष्यते गम्यते स्तुतिलक्शनैर्मन्त्रैरिति ऋष्वं स्तोतव्यम् । अजरं जरारहितं अत एव युवानं नित्यतरुणं एवंविधमिन्द्रं यजाम इत् । कुशिका वयं यज्ञ सिद्ध्यर्थं स्तुतिवाक्यैः पूजयामः । प्रिये प्रियतमे अपरिमिते रोदसी द्यावापृथिवौ यज्ञियस्य यज्ञार्हस्य यस्येन्द्रस्य तव महिमानं वैभवं न ममतुः । न परिच्छेत्तुं शक्नुतः । न ममाते इति द्वितीयं क्रियापदमादरार्थं ॥ यजामः । यजेर्लटि रूपम् । ऋष्वम् । ऋषी गतौ । सर्वनिघृशऋश्वेत्यादिना वप्रत्ययान्तो निपातितः । प्रत्ययस्वरः । प्रिये । ईदूदेवेति प्रगृहुअसंज्ञा । ममतुः । मा मान इत्यस्य लिट्युतुसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । महिमानं महि शब्दात्तस्य भाव इत्यर्थे पृध्वादिश्वादिमनिच् । चित्स्वरः । ममाते । माङ् माने शब्दे चेत्यस्य लिट्यातामि रूपं ॥ ७ ॥

3.32.8
इन्द्र᳚स्य॒ कर्म॒ सुकृ᳚ता पु॒रूणि᳚ व्र॒तानि᳚ दे॒वा न मि᳚नन्ति॒ विश्वे᳚ ।
दा॒धार॒ यः पृ᳚थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य᳚मु॒षसं᳚ सु॒दंसा᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । कर्म᳚ । सु॑कृ᳚ता । पु॒रूणि᳚ । व्र॒तानि᳚ । दे॒वाः । न । मि॒न॒न्ति॒ । विश्वे᳚ ।
दा॒धार᳚ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान᳚ । सूर्य᳚म् । उ॒षस᳚म् । सु॒॑दंसाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वे देवा इन्द्रस्य तव कर्म कर्माणि सुकृता सुकृतानि सुष्ठु निर्मितानि पृथिवादीनि पुरूणि बहूनि व्रतानि यज्ञानि च न मिनन्ति । एतानि सर्वाणि तव कर्माणि न हिम्सन्ति । किन्त्वाद्रियन्ते । किञ्च योऽयमिन्द्रः पृथिवीं भूलोकं द्यां द्युलोकं उत अपि चेमामिममन्तरिक्षलोकं च एतांस्त्रीन् लोकान् दधार । सुदंसाः सुकर्मा शोभनकर्मा सन्निन्द्रः सूर्यं लोकप्रकाशकमादित्यमुषमग्निहोत्रादिकर्मनिर्वाहकमुशःकालं जजान । उत्पादयामास ॥ इन्द्रस्य कर्म सुकृता पुरूणीत्येतत्पदकदम्बकमेको द्वे वसुमती इत्यस्मिन्वर्गे । ऋग्वे.३-२-३ । पठितम् । अत्रापि तदेव पठ्यते किमिति पदकाले नोत्सृज्यत इति चेन्न । वाक्यभेदात् । तत्रेन्द्रस्य कर्म सुकृता पुरूणीत्येकं वाक्यं अत्र तु कर्म सुकृतेत्येकं वाक्यं पुरूणि व्रतानीत्यपरम् । किञ्च तत्रत्यं पदकदम्बकं प्रथमान्तं अत्रत्यं द्वितीयान्तम् । अतो वाक्यभेदाद्विभक्तिभेदाच्च पदकाले नोत्सृज्यते ॥ मिनन्ति । मीञ् हिंसायामित्यस्य लटि रूपम् । निघातः । दधार । धृञ् धारण इत्यस्य लिटि रूपम् । तुजादित्वादभ्यासस्य दीर्घः । लित्स्वरः । जजान । जन जनन इत्यस्यान्तर्भावितण्यर्थस्य लिटि रूपम् । लित्स्वरः । सुदंसाः । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वं ॥ ८ ॥

3.32.9
अद्रो᳚घ स॒त्यं तव॒ तन्म᳚हि॒त्वं स॒द्यो यज्जा॒तो अपि᳚बो ह॒ सोम᳚म् ।
न द्याव᳚ इन्द्र त॒वस᳚स्त॒ ओजो॒ नाहा॒ न मासा᳚ः श॒रदो᳚ वरन्त ॥
▶ पदपाठः (Word-by-word)
अद्रो᳚घ । स॒त्यम् । तव᳚ । तत् । म॒हि॒॑त्वम् । स॒द्यः । यत् । जा॒तः । अपि᳚बः । ह॒ । सोम᳚म् ।
न । द्यावः᳚ । इ॒न्द्र॒ । त॒वसः᳚ । ते॒ । ओजः᳚ । न । अहा᳚ । न । मासाः᳚ । श॒रदः᳚ । व॒र॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आद्रोघ द्रोहवर्जित हे इन्द्र तव तन्महित्वं तादृशं माहात्म्यं सत्यं यथार्थम् । यद्यस्माज्जायत उत्पन्नः सद्यस्तदानीमेव सोममस्माभिर्दीयमानं सोमरसमपिबः । ह प्रसिद्धौ । किञ्च तवसो बल्स् वतस्ते तवौजः सामर्थ्यं द्यावो दिवोपलक्शिताः सर्वे लोका न वरन्त । न वारयन्ति । किञ्च । आहा प्रतिपादीन्यहानि न वारयन्ति । तथा मसाश्चैत्राद्याः शरदः संवत्सराश्च तव सामर्थ्यं न वारयन्ति । किन्तु तव सामर्थ्यमनुसृत्य सर्वे वर्तन्त इति भावः ॥ आद्र्ह्घ । आमन्त्रितस्य चेति षाष्ठिकमाद्युदात्तत्वम् । अपिबः । यद्योगादनिघातः । मासाः । मसी परिमाणे । मस्यते परिमीयते त्रिंशता दिनैरिति मासः । कर्मणि घञ् । ञित्त्वादाद्युदात्तः । शरदः । शॄ हिंसायामित्यस्मात् शॄदॄभसोऽदिरित्यधिकरणेऽदिप्रत्ययः । शीर्यतेऽस्यां तृणगुल्मवनस्पतीनां तेजांसीति शरत् । प्रत्ययस्वरः । वरन्त । वृञ् वरणे । अन्तर्भावितण्यर्थोऽत्र निवारणे वर्तते । भौवादिकः । छान्दसे लङि रूपम् । निघातः ॥ ९ ॥

3.32.10 समानपद
त्वं स॒द्यो अ᳚पिबो जा॒त इ᳚न्द्र॒ मदा᳚य॒ सोमं᳚ पर॒मे व्यो᳚मन् ।
यद्ध॒ द्यावा᳚पृथि॒वी आवि᳚वेशी॒रथा᳚भवः पू॒र्व्यः का॒रुधा᳚याः ॥
▶ पदपाठः (Word-by-word)
त्वम् । स॒द्यः । अ॒पि॒बः॒ । जा॒तः । इ॒न्द्र॒ । मदा᳚य । सोम᳚म् । प॒र॒मे । वि॑ओ᳚मन् ।
यत् । ह॒ । द्यावा᳚पृथि॒वी इति᳚ । आ । अवि᳚वेशीः । अथ᳚ । अ॒भ॒वः॒ । पू॒र्व्यः । का॒रु॑धा᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सद्यस्क्रीनाम्न्येकाहे निष्केवल्यशस्त्रे त्वं सद्यो अपिब इति सूक्तमुखीया । सूत्रितं च । त्वं सद्यो अपिबो जात इन्द्रानु त्वाहिघ्ने अध देव देवाः । आ. ९-५ । इति ॥

हे इन्द्र सद्यस्तदानीमेव जातः परमे व्योमन् उत्तमे स्थाने स्थितस्त्वं मुदाय हर्षाय सोममपिबः । यद्यदा त्वं द्यावापृथिवी द्यावापृथिव्यावाविव्वेशीर्ह । आ सम्मताद्भृशं प्रविष्टोऽसि खलु । अथानन्तरं पूर्व्यः पुरातनः सन् कारुधायाः कर्मणां विधाताभवः खलु ॥ व्योमन् । अव रक्षणगत्यादिषु । विपूर्वस्यावतेर्नामन् सीमन्नित्यादिना मनिन् । ज्वरत्वरेत्यादिना ऊट् । विशेशेण्ॐअ व्याप्तिर्यस्य तत् । सुपां सुलुगित्यादिना सुपो लुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सिप इकार लोपः । यद्योगादनिघातः । कारुधायाः । कारुः । करोतेः क्रुवापाजिमिस्वदिसाध्यतूभ्य उण्प्रत्ययः । णित्त्वाद्वृद्धिः । दधातेर्वहिहाधाञ्छ्यश्छन्दसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् छिण् कृतोरिति युगागमः । समासे गतिकारकयोरपि पूर्वपप्रकृतिस्वरत्वं चेति सूत्रात्पूर्वपदप्रकृतिस्वरः ॥ १० ॥

3.32.11
अह॒न्नहिं᳚ परि॒शया᳚न॒मर्ण᳚ ओजा॒यमा᳚नं तुविजात॒ तव्या᳚न् ।
न ते᳚ महि॒त्वमनु᳚ भू॒दध॒ द्यौर्यद॒न्यया᳚ स्फि॒ग्या॒३॒᳚ क्षामव᳚स्थाः ॥
▶ पदपाठः (Word-by-word)
अह᳚न् । अहि᳚म् । प॒रि॒॑शया᳚नम् । अर्णः᳚ । ओ॒जा॒यमा᳚नम् । तु॒वि॒॑जा॒त॒ । तव्या᳚न् ।
न । ते॒ । म॒हि॒॑त्वम् । अनु᳚ । भू॒त् । अध᳚ । द्यौः । यत् । अ॒न्यया᳚ । स्फि॒ग्या᳚ । क्षाम् । अव᳚स्थाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुविजात बहूनि जातानि पृथिवादीनि यस्मात्सोऽयं तुविजातः । हे तुविजात इन्द्र तव्यानतिशयेन प्रवृद्धस्त्वमर्णः परिशयानमुदकं परितः शयानमुदकमन्तः कृत्वा परितो वर्तमानं अत एवऔजायमानं बलमाचरन्तमहिम् । आ समन्ताद्धन्त्य पहरत्युदकमित्यहिर्मेघः । तमिमं मेघमहन् । उदकप्रेरणाय हतवानसि । अध अथ ते महित्वं महिमानं द्यौर्नानुभूत् । नानुभवसि । न जानाति । यद्यस्मात्त्वमन्ययैकतरया स्फिग्या कट्या क्षां भूमिमवस्थाः । अवच्छाद्य तिष्ठसि ॥ अहन् । हन्तेर्लङि सिब्लोपे रूपम् । आहिम् । हन हिम्सागत्योः । आङि श्रिहनिभ्यां ह्रस्वश्चेति इण्प्रत्ययः डिच्च पूर्वपदस्य ह्रस्वश्च । वृषादित्वादाद्युदात्तत्वम् । ओजायमानम् । ओजः शब्दादाचारार्थे कर्तुः क्यङ् सलोपश्चेति क्यङ् प्रत्ययः सलोपश्च । ङित्त्वादात्मनेपदम् । प्रत्ययस्वरः । तव्यान् । तु इति सौत्रो धातुः । अस्मात्तृजन्तात्तुश्छन्दसीतीयसुन् । तुरिष्ठेमेयः स्विति तृचो लोपः । भसंज्ञायामोर्गुणः । इकारलोपश्छान्दसः । नित्स्वरः । भूत् । भवतेर्लुङि रूपम् । स्फ्ग्या । यचि भमिति भसंज्ञां भाधित्वा स्वादिष्वसर्वसामस्थान इति पदसंज्ञायां जश्त्वम् । तृतीयायाः पुर्वसवर्णः । क्षाम् । क्शि निवासगत्योः । आन्येभ्योऽपि दृश्यत इति निरुपपदादपि ड प्रत्ययः । ततष्टाप् । क्शियन्ति निवसन्त्यस्यां प्राणिन इति क्शा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । अवस्थाः । वस आच्छादन इत्यस्य लङ्यनुदात्तत्वादात्मने पदम् । थास्यदादित्वा च्छपो लुक् । यद्योगादनिघातः । अडागमस्वरः ॥ ११ ॥

3.32.12 समानपद
य॒ज्ञो हि त᳚ इन्द्र॒ वर्ध᳚नो॒ भूदु॒त प्रि॒यः सु॒तसो᳚मो मि॒येधः᳚ ।
य॒ज्ञेन᳚ य॒ज्ञम᳚व य॒ज्ञिय॒ः सन्य॒ज्ञस्ते॒ वज्र᳚महि॒हत्य᳚ आवत् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध᳚नः । भूत् । उ॒त । प्रि॒यः । सु॒त॑सो᳚मः । मि॒येधः᳚ ।
य॒ज्ञेन᳚ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः᳚ । सन् । य॒ज्ञः । ते॒ । वज्र᳚म् । अ॒हि॒॑हत्ये᳚ । आ॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अस्मदीयो यज्ञस्ते तव वर्धनो हविष्प्रदानेन वर्धयिता भूद्धि । भवति खलु । उत अपि च सुतसोमोऽभिषुतसोमवान्मियेधो यज्ञस्तव प्रियः । स त्वं यज्ञियो यज्ञार्हः सन् यज्ञं यज्ञस्य कर्तारं यजमानं यज्ञेनानुष्ठीयमानेनानेनाव । फलप्रदानेन रक्ष । किञ्चायं यज्ञस्ते तव वज्रमहिहत्ये वृत्रहनने कर्मणावत् । रक्षतु ॥ वर्धनः । वृधु वर्धन इत्यस्य ण्यन्तस्य नन्द्यादित्वात् ल्युप्रत्ययः । लित्स्वरः भूत् । हियोगादनिघातः । अव । अवतेरोटि रूपम् । निघातः सन् । असेः शतरि रूपम् । प्रत्ययस्वरः । अहिहत्ये । हन हिंसागत्योरित्यस्य भावे हनस्त चेति क्यप् तकारश्चान्तादेशः । कृदुत्तरपदस्वरः । आवत् । अवतेश्छान्दसे लङि रूपम् । निघातः ॥ १२ ॥

3.32.13
य॒ज्ञेनेन्द्र॒मव॒सा च᳚क्रे अ॒र्वागैनं᳚ सु॒म्नाय॒ नव्य᳚से ववृत्याम् ।
यः स्तोमे᳚भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म᳚ध्य॒मेभि᳚रु॒त नूत᳚नेभिः ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञेन᳚ । इन्द्र᳚म् । अव᳚सा । आ । च॒क्रे॒ । अ॒र्वाक् । आ । ए॒न॒म् । सु॒म्नाय᳚ । नव्य᳚से । व॒वृ॒त्या॒म् ।
यः । स्तोमे᳚भिः । व॒वृ॒धे । पू॒र्व्येभिः᳚ । यः । म॒ध्य॒मेभिः᳚ । उ॒त । नूत᳚नेभिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सर्व यजमानोऽवसा स्वरक्षकेण यज्ञेनेन्द्रं त्वामर्वागाचक्रे । हविश्प्रदानेनाभिमुखं करोति । तथाहं नव्यसे नवतराय सुम्नाय धनायैनं त्वामा ववृत्याम् । यज्ञेनावृत्तं मदभिमुखं कुर्याम् । कीदृशस्त्वं यः पूर्व्येभिः पुरातनैः स्तोमेभिः स्तोत्रैर्ववृधे तथा य इन्द्रो मध्यमेर्भिर्मध्ये भवैः स्तोत्रैरुतापि च नूतनेभिरस्माभिः क्रियमाणैरधुब्नातनैः स्तोत्रेर्वर्धते ॥ चक्रे । करोतेर्लिटि रूपम् । नव्यसे । नवशब्दादीयसुनि भसंज्ञायामकारलोप ईकारलोपश्छान्दसः । नित्त्वादाद्युदात्तः । ववृत्यां वृतु वर्तने लिङि बहुलं छन्दसीति शपः श्लुः । व्यत्ययेन परस्मैपदं निघातः । ववृधे वृधु वर्धन इत्यस्य लिटि रूपम् । प्रत्ययस्वरः । मध्यमेभिः । मध्यशब्दात् शैषिकार्थे मध्यान्मः । पा. ४-३-८ । इति मप्रत्ययः । प्रत्ययस्वरः । नूतनेभिः । नवशब्दस्य त्नप्तनन्खाश्च प्रत्ययावक्तव्यानू इत्यादेशश्चेति तनन्प्रत्ययो नू इत्यादेशश्च ॥ १३ ॥

3.32.14
वि॒वेष॒ यन्मा᳚ धि॒षणा᳚ ज॒जान॒ स्तवै᳚ पु॒रा पार्या॒दिन्द्र॒मह्न᳚ः ।
अंह᳚सो॒ यत्र᳚ पी॒पर॒द्यथा᳚ नो ना॒वेव॒ यान्त᳚मु॒भये᳚ हवन्ते ॥
▶ पदपाठः (Word-by-word)
वि॒वेष᳚ । यत् । मा॒ । धि॒षणा᳚ । ज॒जान᳚ । स्तवै᳚ । पु॒रा । पार्या᳚त् । इन्द्र᳚म् । अह्नः᳚ ।
अंह᳚सः । यत्र᳚ । पी॒पर᳚त् । यथा᳚ । नः॒ । ना॒वा॑इ᳚व । यान्त᳚म् । उ॒भये᳚ । ह॒व॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा धिशणेन्द्रं स्तवानीति मदीया बुद्धिर्मां विवेष व्याप्नोत् तदाहं स्तोत्रं जजान । करोमि । बद्धेः स्वरूपं दर्शयति । अहं पार्यात्पारे भवादतिदूरवर्तिनो विघ्नकारिणोऽह्नः पुरा पूर्वं स्तवै । स्तवानि यत्र यस्यां धिषणायामेव जातायां सत्यां स इन्द्रो नोऽस्मानंहसः पापरूपाद्दारिद्र्याद्यथा पीपरत् यथा पारं नयेत् तथास्मदुभयपार्श्ववर्तिधनार्थिनो जना हवन्ते । अह्वयन्ति । तत्र दृष्टान्तः । नावेव यान्तम् । यथा नद्यादिषु नौकाया यान्तं गच्छन्तं पुरुषमुभय उभयकूलवर्तिनो जना हवन्ते । आह्वयन्ति । तद्वत् ॥ विवेश । विष्लृ व्याप्तावित्यस्य लिटि णलि रूपम् । लित्स्वरः । जजान । जन जनन इत्यस्य लिट्युत्तमे णलि रूपम् । वाक्यभेदादनिघातः । अंहसः । अम गत्यादिशु । अमेर्हुक् च । उ. ४-२१२ । इत्यसुन्प्रत्ययो हुगागमश्च । नित्स्वरः । पीपरत् । पॄ पालन पूरणयोरित्यस्य लुङि चङि ह्रस्वाभ्यासेत्वदीर्घगुणाः । यथायोगादनिघातः । लित्स्वरः । नावेव । नुद प्रेरण इत्यस्माद्ग्लानुदिभ्यां डौः । उ. २-६४ । इति डौ प्रत्ययः । नुद्युत इति नौ प्लवः । सावेकाच इति तृतीयाया उदात्तत्वम् । इवेन नित्यसमासो विभक्त्य लोप इत्यादि । उभये । उभ शब्दात्परस्य तयप उभादुदात्तो नित्यम् । पा.५-२-४४ । इत्ययजादेशः । वचनसामर्थ्यादादेरुदात्तत्वम् । हवन्ते । ह्वयतेर्लटि रूपं ॥ १४ ॥

3.32.15
आपू᳚र्णो अस्य क॒लश॒ः स्वाहा॒ सेक्ते᳚व॒ कोशं᳚ सिसिचे॒ पिब᳚ध्यै ।
समु᳚ प्रि॒या आव᳚वृत्र॒न्मदा᳚य प्रदक्षि॒णिद॒भि सोमा᳚स॒ इन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
आ॑पू᳚र्णः । अ॒स्य॒ । क॒लशः᳚ । स्वाहा᳚ । सेक्ता᳚॑इव । कोश᳚म् । सि॒सि॒चे॒ । पिब᳚ध्यै ।
सम् । ऊं॒ इति᳚ । प्रि॒याः । आ । अ॒व॒वृ॒त्र॒न् । मदा᳚य । प्र॒॑द॒क्षि॒णित् । अ॒भि । सोमा᳚सः । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

माध्यन्दिन सवन आग्नीध्रीयस्य आपूर्णो अस्येति प्रस्थितयाज्या । सूत्रितं च । आपूर्णो अस्यकलशः स्वाहेति माध्यन्दिन्यः । आ. ५-५- । इति ॥

हे इन्द्र अस्य तव पानार्थं कलशो द्रोणकलशः सोमेनापुर्णः । स्वाहा स्वाहा कृतो दत्तश्च सोमसहितः कलशः पिबध्यै तव पानर्थम् । सिसिचे । तं सोमं चोदिताधारे सोञ्चामि । तत्र दृष्टान्तः । कोशं सेक्तेव । यथा सेक्तोत्सेचको जलपूर्णात्कोशात् दृतेः सकाशाज्जलं पात्रान्तरे सिञ्चति तद्वत् । प्रियाः स्वादुतमाः सोमासो दत्तास्ते सोमा इन्द्रं त्वामभि अभिलक्ष्यैव मदाय तव हर्षार्थं प्रदक्षिणित् प्रादक्षिण्येन समाववृत्रन् । सम्यगावृत्य वर्तन्तां ॥ आपुर्णः । पॄ पालन पूरणयोरित्यस्य कर्मणि निष्ठा । रदाभ्यामिति तस्य नत्वम् । गतिरनन्तर इति गतिस्वरः । स्वाहा । नोपातत्वादाद्युदात्तः । सेक्तेव कोशम् । न लोकाव्ययेति षष्ठी प्रतिषेधः । सिसिचे । षिच क्षरण इत्यस्य लिटि रूपम् । पिबध्यै । पा पान इत्यस्य तुमर्थे शध्यैन्प्रत्ययः । शित्त्वात्पिबादेशः । नित्त्वादाद्युदात्तः । अववृत्रन् । वृतु वर्तन इत्यस्य लङेशप् । बहुलं छन्दसीति तस्य शपः श्लुः । व्यत्ययेन परस्मैपदम् । बहुलं छन्दसीति झे रुडागमः ॥ १५ ॥

3.32.16
न त्वा᳚ गभी॒रः पु᳚रुहूत॒ सिन्धु॒र्नाद्र᳚य॒ः परि॒ षन्तो᳚ वरन्त ।
इ॒त्था सखि᳚भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु᳚जो॒ गव्य᳚मू॒र्वम् ॥
▶ पदपाठः (Word-by-word)
न । त्वा॒ । ग॒भी॒रः । पु॒रु॒॑हू॒त॒ । सिन्धुः᳚ । न । अद्र᳚यः । परि᳚ । सन्तः᳚ । व॒र॒न्त॒ ।
इ॒त्था । सखि᳚॑भ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु᳚जः । गव्य᳚म् । ऊ॒र्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूतेन्द्र गभीरो गंभीरः सिन्धुः समुद्रस्त्वा त्वां न वारयति । ततः परि परितो वर्तमानाः सन्तोऽद्रयः शैलास्त्वां न वरन्त । न वारयन्ति । किन्तु त्वामनुसृत्य वर्तन्ते । यद्यस्मादित्थेत्थमनेन प्रकारेण सखिभ्यः सखिभिर्देवैरिषितः प्रार्थितस्त्वं दृळ्हं चिदतिप्रबलमपि गव्यं गवि भवमवटे वर्तमानमूर्वमूर्वानलमारुजः । सम्यगभांक्षीः । गभीरः गाध्र प्रतिष्ठालोप्सयोर्ग्रन्थे च । अस्मादीरच् प्रत्ययः धकारस्य भकार आकारस्य ह्रस्वश्च गभीर गम्भीरौ । उ. ४-३५ । इत्यनेन नोपात्यते । चित्स्वरः सिन्धुः स्यन्दू प्रस्रवणे । स्यन्देः सम्प्रसारणं धश्चेत्युप्रत्ययः । सम्प्रसारणं दकारस्य धकारः । नितित्यनुवृत्तेराद्युदात्तः । परि षन्तः । सन्तः । अस्तेः शतरि रूपं उपसर्गप्रादुर्भ्यामस्तिर्यच् पर इति षत्वम् । केचित्परेः क्रियान्वयमिच्छन्ति । तदा शत्वमनुपपन्नं परि निपातस्वरः । सन्तः प्रत्ययस्वरः । वरन्त । वृ ञ् वरने । भौवादिकः लङि रूपं निघातः अरुजः । रुजो भङ्ग इत्यस्य लङि रूपम् । गव्यम् । गोर्विकार इत्यर्थे गोपयसोर्यदिति यत् । यतोऽनाने इत्याद्युदात्तत्वं ॥ १६ ॥

3.32.17
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भर सङ्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमानां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयंकरं समत्सु सङ्ग्रामेषु वृत्राधि वृत्रोपलक्शितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्चेतारं त्वामूतये रक्शनाय वयमाह्वयेम ॥ शुनं ॥ टुओश्वि गतिवृद्ध्योरित्यस्य निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृशादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षने । सम्पूर्वात् क्विप् । संभक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्चितम् । जि जये । क्विप् ॥ १७ ॥