अंह᳚सो॒ यत्र᳚ पी॒पर॒द्यथा᳚ नो ना॒वेव॒ यान्त᳚मु॒भये᳚ हवन्ते ॥
पदपाठः (Word-by-word)
अंह᳚सः । यत्र᳚ । पी॒पर᳚त् । यथा᳚ । नः॒ । ना॒वा॑इ᳚व । यान्त᳚म् । उ॒भये᳚ । ह॒व॒न्ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा धिशणेन्द्रं स्तवानीति मदीया बुद्धिर्मां विवेष व्याप्नोत् तदाहं स्तोत्रं जजान । करोमि । बद्धेः स्वरूपं दर्शयति । अहं पार्यात्पारे भवादतिदूरवर्तिनो विघ्नकारिणोऽह्नः पुरा पूर्वं स्तवै । स्तवानि यत्र यस्यां धिषणायामेव जातायां सत्यां स इन्द्रो नोऽस्मानंहसः पापरूपाद्दारिद्र्याद्यथा पीपरत् यथा पारं नयेत् तथास्मदुभयपार्श्ववर्तिधनार्थिनो जना हवन्ते । अह्वयन्ति । तत्र दृष्टान्तः । नावेव यान्तम् । यथा नद्यादिषु नौकाया यान्तं गच्छन्तं पुरुषमुभय उभयकूलवर्तिनो जना हवन्ते । आह्वयन्ति । तद्वत् ॥ विवेश । विष्लृ व्याप्तावित्यस्य लिटि णलि रूपम् । लित्स्वरः । जजान । जन जनन इत्यस्य लिट्युत्तमे णलि रूपम् । वाक्यभेदादनिघातः । अंहसः । अम गत्यादिशु । अमेर्हुक् च । उ. ४-२१२ । इत्यसुन्प्रत्ययो हुगागमश्च । नित्स्वरः । पीपरत् । पॄ पालन पूरणयोरित्यस्य लुङि चङि ह्रस्वाभ्यासेत्वदीर्घगुणाः । यथायोगादनिघातः । लित्स्वरः । नावेव । नुद प्रेरण इत्यस्माद्ग्लानुदिभ्यां डौः । उ. २-६४ । इति डौ प्रत्ययः । नुद्युत इति नौ प्लवः । सावेकाच इति तृतीयाया उदात्तत्वम् । इवेन नित्यसमासो विभक्त्य लोप इत्यादि । उभये । उभ शब्दात्परस्य तयप उभादुदात्तो नित्यम् । पा.५-२-४४ । इत्ययजादेशः । वचनसामर्थ्यादादेरुदात्तत्वम् । हवन्ते । ह्वयतेर्लटि रूपं ॥ १४ ॥