श्रवणम्

3.32.12 समानपद
य॒ज्ञो हि त᳚ इन्द्र॒ वर्ध᳚नो॒ भूदु॒त प्रि॒यः सु॒तसो᳚मो मि॒येधः᳚ ।
य॒ज्ञेन᳚ य॒ज्ञम᳚व य॒ज्ञिय॒ः सन्य॒ज्ञस्ते॒ वज्र᳚महि॒हत्य᳚ आवत् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध᳚नः । भूत् । उ॒त । प्रि॒यः । सु॒त॑सो᳚मः । मि॒येधः᳚ ।
य॒ज्ञेन᳚ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः᳚ । सन् । य॒ज्ञः । ते॒ । वज्र᳚म् । अ॒हि॒॑हत्ये᳚ । आ॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अस्मदीयो यज्ञस्ते तव वर्धनो हविष्प्रदानेन वर्धयिता भूद्धि । भवति खलु । उत अपि च सुतसोमोऽभिषुतसोमवान्मियेधो यज्ञस्तव प्रियः । स त्वं यज्ञियो यज्ञार्हः सन् यज्ञं यज्ञस्य कर्तारं यजमानं यज्ञेनानुष्ठीयमानेनानेनाव । फलप्रदानेन रक्ष । किञ्चायं यज्ञस्ते तव वज्रमहिहत्ये वृत्रहनने कर्मणावत् । रक्षतु ॥ वर्धनः । वृधु वर्धन इत्यस्य ण्यन्तस्य नन्द्यादित्वात् ल्युप्रत्ययः । लित्स्वरः भूत् । हियोगादनिघातः । अव । अवतेरोटि रूपम् । निघातः सन् । असेः शतरि रूपम् । प्रत्ययस्वरः । अहिहत्ये । हन हिंसागत्योरित्यस्य भावे हनस्त चेति क्यप् तकारश्चान्तादेशः । कृदुत्तरपदस्वरः । आवत् । अवतेश्छान्दसे लङि रूपम् । निघातः ॥ १२ ॥