गम᳚द्दे॒वेभि॒रा स नो॒ यजि᳚ष्ठो ब॒र्हिरा स᳚दत् ॥
पदपाठः (Word-by-word)
गम᳚त् । दे॒वेभिः᳚ । आ । सः । नः॒ । यजि᳚ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥
सायणभाष्यम् (Sayana Commentary)
यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयो वो युष्मत्सम्बन्धिने देवाय द्योतमानायास्मै अस्मिन् कर्मणि स्तुत्यायाग्नये हर्हिष्ठं वृद्धतमं प्रभूतमिदं स्तुतिरूपं स्तोत्रशस्त्रादि वोक्थ्यजातं प्रार्च । उच्चारयत । एवं स्तुतः सोऽग्निर्देवेभिर्यष्टव्यदेवैः सहैतः सन् नोऽस्मान् प्रति अगमत् । आगच्छतु । आगत्य च यजिष्ठो यष्टृतमः सोऽग्निर्बर्हिरस्माभिर्वेद्यां स्तीर्णे बर्हिष्यासदत् । आसीदतु । उपविशतु ॥ बर्हिष्ठम् । बर्हितृ शब्दात्तुच्छन्दसीत्यतिशायन इष्ठन् । अर्च । अर्च पूजायां भौवादिकः । बहुवचनस्यैकवचनम् । निघातः । गमत् । ग्म् लृ गतौ । अस्य छन्दसि लुङ् लङ् लिट इति लोडर्थे लुङ् । लृवित्त्वात् ङ्लेरङ् । नित्यं ङुत इतीकारलोपः । पादादित्वान्न निघातः । यजिष्ठ । यष्टृ शब्दात्तुश्छन्दसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृचो लोपः नित् स्वरः । सदत् । पूर्ववल्लोडर्थे लुङ् । षड् लृ वितरणगत्यवसादनेष्वित्यस्य लृदित्त्वादङ् । निघातः ॥ १ ॥