श्रवणम्

3.13.4
स न॒ः शर्मा᳚णि वी॒तये॒॑ग्निर्य᳚च्छतु॒ शंत᳚मा ।
यतो᳚ नः प्रु॒ष्णव॒द्वसु᳚ दि॒वि क्षि॒तिभ्यो᳚ अ॒प्स्वा ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । शर्मा᳚णि । वी॒तये᳚ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्॑त᳚मा ।
यतः᳚ । नः॒ । प्रु॒ष्णव᳚त् । वसु᳚ । दि॒वि । क्षि॒ति॑भ्यः᳚ । अ॒प्॑सु । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽगिर्नो हविष्प्रदातृभ्योऽस्मभ्यं शन्तमा पशुपुत्रादिसमृद्ध्यातिशयेन सुखकराणि । शर्मशब्दो गृहवाची

चाया शर्म वर्मेति तन्नामसु पाठात् । तथाविधानि गृहाणि वीतये सम्भजनायाग्निहोत्रादिकर्मप्राप्त्यर्थं यच्छतु । ददातु । यतो यस्मादग्नेः सकाशात् प्रुष्णवत्समृद्धिमद्दानभोगादिना व्यये सत्यप्यतिशयेन वर्धमानं दिवि द्युलोके क्षितिभ्यो भूलोकादप्स्वन्तरिक्षे च समुत्पन्नं वसु तत्तल्लोके असाधारण्येन वर्तमानं धनमा समन्तादुपनति । यसोऽग्नेः प्रसादात् त्रिषु लोकेषु विद्यमानं धमनस्मानागच्छति सोऽग्निरिति पूर्वेणान्वयः । वीतये । वी गतिकान्त्यादिषु । मन्त्रे वृषेषपचेत्यादिनाक्तिन् । उदात्तत्वेन निपातनादुदात्तः । यच्छतु । यम उपरमे । इषुगमियमां छ इति मकारस्य छः । प्रुष्णवत् । प्रुष स्नेहसेचनपूरणेषु । अस्मादौणादिको नक् प्रत्ययः । तदस्यास्तीति मतुप् । तस्योदात्तताभावश्छान्दसः ॥ ४ ॥