ऋक्वा᳚णो अ॒ग्निमि᳚न्धते॒ होता᳚रं वि॒श्पतिं᳚ वि॒शाम् ॥
पदपाठः (Word-by-word)
ऋक्वा᳚णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता᳚रम् । वि॒श्पति᳚म् । वि॒शाम् ॥
सायणभाष्यम् (Sayana Commentary)
ऋक्वाणः स्तुतिं कुर्वाणाः शस्तिणो होत्रादयो दीदिवांसं दीप्यमानमपूर्व्यं तेजस्वितया प्रतिक्षणमभिनवं होतारं देवानामाह्वातारं विशां विश्पतिं प्रजानामतिशयेन पालयितारं तमग्निं वस्वीभिः प्रकस्ताभिरस्य धीतिभिरग्निविषयस्तुतिलक्षणाभिर्वाग्भिः । यद्वा षस्वीभर्वसुमद्भिरस्य धीतिभिरेतदुद्देशेन क्रियमाणैः कर्म भिरिन्धते । दीपयन्ति । स्तोत्रकरणहविष्प्रदानादिव्यापारेण समृद्धिं कुर्वन्ति । दीदिवांसम् । दिवु क्रीडादवित्यस्य क्वसौ रूपम् । तुजादीनामित्यभ्यासस्य दीर्घः । लोपो व्योरिति लोपः । वस्वीभिः । वसुशबाद्व्यत्येयेन ङीन् । नित्स्वरः । धीतिभिः । धेट् पाने । क्तिच् क्तौ च संज्ञायामिति क्तिच् । क्त्त्वाद् घुमास्थेतीत्वम् । चित्स्वरः । ऋक्वाणः । रुच् शब्दान्मतुबर्धे वनिप् । अयस्मयादित्वाद्भसंज्ञात्वात्कुतम् । पदसंज्ञाभावाज्जत्त्वाभाषः । इन्धते । ञि इन्धी दीप्तौ । विश्पतिम् । परादिश्छन्दसि बहुल मित्युत्तरपदाद्युदात्तत्वम् । विशाम् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ५ ॥