तृतीयं मण्डलम् - सूक्तम् 39

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.39 - सम्पूर्णम्

1 / 9
ऋक्: 3.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.39.1
इन्द्रं᳚ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम᳚तष्टा जिगाति ।
या जागृ᳚विर्वि॒दथे᳚ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय᳚ते वि॒द्धि तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । म॒तिः । हृ॒दः । आ । व॒च्यमा᳚ना । अच्छ᳚ । पति᳚म् । स्तोम᳚॑तष्टा । जि॒गा॒ति॒ ।
या । जागृ᳚विः । वि॒दथे᳚ । श॒स्यमा᳚ना । इन्द्र᳚ । यत् । ते॒ । जाय᳚ते । वि॒द्धि । तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रः स्तौति । हे इन्द्र हृदो हृदयाद्वच्यमानोच्यमाना स्तोमतष्टास्तोमकारिभिः कृता मतिः स्तुतिः पतिं सर्वस्य जगतः स्वमिनं त्वामच्छाभिलक्ष्या जिगाति । समन्ताद्गच्छतु । या मदीया स्तुतिर्जागृविः स्तुत्यस्य तव जागरणं कुर्वाणा विदथे यज्ञे शस्यमाना भवति । हे इन्द्र ते त्वदर्थं यत्सोत्रं मत्तो जायते तद्विद्धि । जानीहि । तस्येति द्वितीयार्थे षष्ठी ॥ मतिः । मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । हृदः । हृदयशब्दस्य पद्दन्नोमासित्यादिना हृदादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । वच्यमाना । वच परिभाषण इत्यस्य कर्मणि यक् । सम्प्रसारणाभावश्छान्दसः । प्रत्ययस्वरः । स्तोमतष्टा । तक्षू त्वक्षू तनूकरण इत्यस्य कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरतम् । जिगाति । गा स्तुतौ छन्दसीति जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । जायते । जनी प्रादुर्भाव इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । विद्धि । विद ज्ञान इत्यस्य लोटि हेर्हुझल्भ्यो हेर्धिरिति ध्यादेशः । वाक्यभेदादनिघातः ॥ १ ॥

3.39.2
दि॒वश्चि॒दा पू॒र्व्या जाय᳚माना॒ वि जागृ᳚विर्वि॒दथे᳚ श॒स्यमा᳚ना ।
भ॒द्रा वस्त्रा॒ण्यर्जु᳚ना॒ वसा᳚ना॒ सेयम॒स्मे स᳚न॒जा पित्र्या॒ धीः ॥
▶ पदपाठः (Word-by-word)
दि॒वः । चि॒त् । आ । पू॒र्व्या । जाय᳚माना । वि । जागृ᳚विः । वि॒दथे᳚ । श॒स्यमा᳚ना ।
भ॒द्रा । वस्त्रा᳚णि । अर्जु᳚ना । वसा᳚ना । सा । इ॒यम् । अ॒स्मे इति᳚ । स॒न॒॑जा । पित्र्या᳚ । धीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र दिवश्च्त् द्योतमानात्सूर्यादपि पूर्व्या पूर्वकाले भवोषः कालसम्बन्धिन्या जायमाना या स्तुतिलक्षणा वाग्विभवति सेयं वाग्विदथे यज्ञे तस्यमाना जागृविः स्तुत्यस्य तव जागरणं कुर्वाणा भब्रा कल्याणान्यर्जुना शुक्लवर्णानि वस्त्राणि योग्यतया तेजांसि वसानान्मे अस्माकं पित्र्या पितृक्रमागता अत एव सनजा पुरातनी सती धीस्तव स्तुतिर्भवति ॥ दिवः । दिवेः क्विप् । ऊदिदमिति विघक्तेरुदात्तत्वम् । अर्जुना । अर्जेर्णिलुक्चेत्युनन् । नित्स्वरः । सनजा । जनेरन्येभ्योऽपो दृश्यत इति डः । प्रत्ययस्वरः । पित्र्या । पितृशब्दात्तत आतग इत्यर्थे पितुर्यच्चेति यत्प्रत्ययः । रीङृत इति रीङादेशः । यस्येति लोपः । यतोऽनाव इत्याद्युदात्तत्वं ॥ २ ॥

3.39.3
य॒मा चि॒दत्र᳚ यम॒सूर᳚सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था᳚त् ।
वपूं᳚षि जा॒ता मि᳚थु॒ना स᳚चेते तमो॒हना॒ तपु᳚षो बु॒ध्न एता᳚ ॥
▶ पदपाठः (Word-by-word)
य॒मा । चि॒त् । अत्र᳚ । य॒म॒॑सूः । अ॒सू॒त॒ । जि॒ह्वायाः᳚ । अग्र᳚म् । पत᳚त् । आ । हि । अस्था᳚त् ।
वपूं᳚षि । जा॒ता । मि॒थु॒ना । स॒चे॒ते॒ इति᳚ । त॒मः॒॑हना᳚ । तपु᳚षः । बु॒ध्ने । आ॑इ᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रसङादुषःकालं प्रशंसति । यमसूः । यमौ यमलौ सूत इति यमसूरुषोऽभिमानिनी देवता । सा यमा यमलावश्विनावत्रोषःकालेऽसूत । आश्विनोस्तत्र शस्यमानत्वात्तावश्विनौ स्तोतुं मम जिह्वायां अग्रं पतच्चञ्चलमास्थाद्धि । तिष्ठति खलु तमोहना तमसो हन्तारौ तपुषः । तपत्यस्मिन्सूर्य इति तपुर्दिवसः । तस्य बुध्ने मूल एता एतावागतौ मिथुना परस्परं सङ्गतौ तावश्विनौ जातोत्पन्नानि वपूंषि । उप्यन्ते निधीयन्त इति वपूंष्युषःकाले क्रियमानानि शस्त्रादीनि कर्माणि । सचेते । सङ्गच्छतः । यमसूः । षूङ् प्राणिगर्भविमोचन इत्यस्य क्विप् । क्रुदुत्तरपदस्वरः । असूत । तस्यैव धातोर्लङ्यदादित्वाच्छपो लुक् । निघातः । पतत् । पत्ल गतौ । शतुर्लसार्वधातुकस्वरे धातुस्वरः । अस्थात् । ष्ठा गतिनिवृत्तौ । लुङि रूपम् । हियोगादनिघातः । वपूंषि । डुवेप् बीजसन्ताने । आर्तिपॄवपोयजितनिधनितपिभ्यो निदित्युसिप्रत्ययः । निच्चेत्युक्तत्वादाद्युदात्तः । सचेते । षच । समवाय इत्यस्य लटि रूपम् । तपुषः । तप सन्तापे । अर्तिपॄवपीत्यादिना उसिः । बध्ने । बन्ध बन्धने । बन्धेर्ब्रधिबुधी च । उ. ३-५ । इति नक्प्रत्ययः । ब्रधिबुधी एतावादेशौ धातोः । प्रत्ययस्वरः । एता । इण् गतावित्यस्य कर्मणि निष्ठा । गतिरनन्तर इति गतेः स्वरः ॥ ३ ॥

3.39.4
नकि᳚रेषां निन्दि॒ता मर्त्ये᳚षु॒ ये अ॒स्माकं᳚ पि॒तरो॒ गोषु᳚ यो॒धाः ।
इन्द्र᳚ एषां दृंहि॒ता माहि᳚नावा॒नुद्गो॒त्राणि᳚ ससृजे दं॒सना᳚वान् ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये᳚षु । ये । अ॒स्माक᳚म् । पि॒तरः᳚ । गोषु᳚ । यो॒धाः ।
इन्द्रः᳚ । ए॒षा॒म् । दृं॒हि॒ता । माहि᳚न॑वान् । उत् । गो॒त्राणि᳚ । स॒सृ॒जे॒ । दं॒सना᳚॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सत्रे प्रवृत्तानामस्माकं ये पितरोऽङ्गिरसो गोषु पणिभिरपहृतेषु तन्निमित्तं योधा योद्धारो वर्तन्ते तेषामेषां मर्त्येषु निन्दिता दूषको नकिर्न कश्चिदस्ति । कुत इत्यत आह । माहिनावान्महिमोपेतो दंसनावान्वृत्रहननादिकर्मवानिन्द्र एषामङ्गिरसां दृंहितानि समृद्धानि गोत्राणि गवां वृंदान्यृत्ससृजे । तेभ्योऽङ्गिरोभ्यो ददौ । निन्दिता । निदि कुत्सायामित्यस्य तृचि रूपम् । मर्त्येषु । वस्वादित्वात्स्वार्थिको यत् । यतोऽनाव इत्याद्युदात्तत्वम् । योधाः । युध सम्प्रहार इत्यस्य पचाद्यचि रूपम् । दृंहिता । दृह दृहि वृद्धावित्यस्य निष्ठायां रूपम् । महिनावान् । महेरिनण्चेतीनण्प्रत्ययः । तदस्यास्तीति मतुप् । महिनावावानिति तस्य संज्ञा । मतौ बह्वचोऽनजिरादीनामिति संहितायां दीर्घः । गोत्राणि । गवां समूह इत्यर्थे ख्हलुगोरधादित्यनुवृत्ताविनित्रकट्यचश्चेति गोशब्दात्प्रप्रत्ययः । प्रत्ययस्वरः । ससृजे । सृज विसर्ग इत्यस्य लिटि रूपं ॥ ४ ॥

3.39.5
सखा᳚ ह॒ यत्र॒ सखि᳚भि॒र्नव᳚ग्वैरभि॒ज्ञ्वा सत्व᳚भि॒र्गा अ᳚नु॒ग्मन् ।
स॒त्यं तदिन्द्रो᳚ द॒शभि॒र्दश᳚ग्वै॒ः सूर्यं᳚ विवेद॒ तम᳚सि क्षि॒यन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
सखा᳚ । ह॒ । यत्र᳚ । सखि᳚॑भिः । नव᳚॑ग्वैः । अ॒भि॒॑ज्ञु । आ । सत्व᳚॑भिः । गाः । अ॒नु॒॑ग्मन् ।
स॒त्यम् । तत् । इन्द्रः᳚ । द॒श॑भिः᳚ । दश᳚॑ग्वैः । सूर्य᳚म् । वि॒वे॒द॒ । तम᳚सि । क्षि॒यन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशपेये निष्केवल्ये निविद्धानीयस्य पुरस्तात्सखा ह यत्रेत्येषा । सुत्रितं च । सख्हा ह यत्र सख्हिभिर्नवग्व्येरिति निविद्धानीययोराद्ये । आ. ९-३ । इति ।

सखिभिः समानखानैः । सत्वभिरिन्द्रमभितः सीदद्भिर्नवग्वैः । मेधातिथिप्रभृतयोऽङ्गिरसः केचिन्नव मासान्सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते नवग्वाः । तैः सत्वभिरङ्गिरोभिः सखा समानाख्यान इन्द्रो यत्र यस्मिन्विले फणिभिर्निरुद्धा गा अभिलक्ष्याभिज्ञु अभिगतजानुकं यथा भवति तथानुग्मन् अनुगच्छन्निन्द्रस्तत्रत्र विले दशग्वैः । ये दश मासान्सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते दशग्वाः दशभिर्दशसंख्याकैरङिरोभिः सहितः सन् तमसि विलवर्तिन्यन्धकारे क्षियन्त निवसन्तं सत्यं यथार्थप्रकाशं सूर्यं विवेद । लेभे । ततो लब्धप्रकाशः स इन्द्रस्ता गा आनीयाङ्गिरोभ्यः प्रादादिति भावः । सखा । ख्या प्रकथने । समाने ख्यश्चोदात्त इतीण्प्रत्ययः । डिच्च । समानस्य छन्दसीति समानस्य सभावः । उदात्त इत्युक्तेन सामर्थ्यादुपपदस्येति गम्यते । आद्युदात्तः । नवग्वैः । गमेरौणादिको ड्वप्रत्ययः । बहुव्रीहौ पुर्वपदस्वरः । अभिज्ञु । प्रसंभ्यां जानुनोर्ज्ञुरिति विधीयमानो ज्ञुरभेरुत्तरस्य व्यत्ययेन भवति । सत्वभिः । षद्लृवितरणगत्यवसादनेष्वित्यस्मात्प्र ईरसद्योस्तुट् चेति क्वनिप्रत्ययः । तुडागमः । नित्त्वादाद्युदात्तः । अनुग्मन् । गमेः शतरि बहुलं छन्दसीति शओप् लुकि कृते गमहनेत्यादिनोपधालोपः । प्रादिसमासः । शतृस्वरः । विवेद । विद ज्ञान इत्यस्माल्लिटि णलि रूपम् । क्षियन्तम् । क्शिनिवासगत्योरित्यस्य शतरि रूपं ॥ ५ ॥

3.39.6
इन्द्रो॒ मधु॒ सम्भृ᳚तमु॒स्रिया᳚यां प॒द्वद्वि᳚वेद श॒फव॒न्नमे॒ गोः ।
गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु हस्ते᳚ दधे॒ दक्षि᳚णे॒ दक्षि᳚णावान् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । मधु᳚ । सम्॑भृ᳚तम् । उ॒स्रिया᳚याम् । प॒त्॑वत् । वि॒वे॒द॒ । श॒फ॑व᳚त् । नमे᳚ । गोः ।
गुहा᳚ । हि॒तम् । गुह्य᳚म् । गू॒ळ्हम् । अ॒प्॑सु । हस्ते᳚ । द॒धे॒ । दक्षि᳚णे । दक्षि᳚ण॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्र उस्रियायां क्षीरदध्यादिक्रमेणोत्स्राविण्यां भोगवत्यां गवि सम्भृतं सम्पादितं मधु क्षीरादि विदेद । अज्ञासीत् । ततस्तदर्थं पद्वत्पादयुक्तं शफवत्खुरोपेतं गोधनं विवेद । लेभे । कथं लब्धवानिति तदुच्यते । नमे गोः । गोरिति द्वितीयार्थे षष्ठी । पणिनामकैरसुरैरपहृतां गां नमे । अनितामकरोत् । तथा दक्षिणावानौदार्यवान्समर्थः स इन्द्रो गुहा गुहायां हितं गुह्यं प्रच्छन्नं अत एवाप्स्वन्तरिक्षे गूढं गूढचारिनं मायिनमसुरं दक्षिणे हस्ते दधे । दधार । अग्रहीदित्यर्थः । द्वितीयाष्टके । २-६-३ । श्रुधी हवमित्यस्मिन्वर्गे गुहा हितमित्येतत्सम्यगभ्यधायि । उस्रियायां प्रक्रिया सम्यक् पूर्वमेवावादि । विवेद । विद ज्ञाने विद्लृ लाभे । एतयोर्लिटि रूपम् । शफवत् । सह्फोऽस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । नमे । णमु प्रह्वत्व इत्यस्य लिटि रूपम् । द्विर्वचनस्य छन्दसि विकल्पितत्वादत्र द्विर्वचनाभावः । वाक्यभेदादनिघातः । गुह्यम् । गुहू संवरण इत्यस्माच्छंसिगुहिदुहिभ्यो वेतिवक्तव्यमिति क्यप् । कित्त्वादगुणः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । दधे । दधातेर्लिटि रूपम् । दक्षिणावान् । दक्ष वृद्धौ । द्रुदक्शिभ्यामिनन्नितीनन्प्रत्ययः । तदस्यास्तीति मतुप् । सम्हितायामन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः । नित्स्वरः ॥ ६ ॥

3.39.7 समानपद
ज्योति᳚र्वृणीत॒ तम᳚सो विजा॒नन्ना॒रे स्या᳚म दुरि॒ताद॒भीके᳚ ।
इ॒मा गिरः᳚ सोमपाः सोमवृद्ध जु॒षस्वे᳚न्द्र पुरु॒तम᳚स्य का॒रोः ॥
▶ पदपाठः (Word-by-word)
ज्योतिः᳚ । वृ॒णी॒त॒ । तम᳚सः । वि॒॑जा॒नन् । आ॒रे । स्या॒म॒ । दुः॒॑इ॒तात् । अ॒भीके᳚ ।
इ॒माः । गिरः᳚ । सो॒म॒॑पाः॒ । सो॒म॒॑वृ॒द्ध॒ । जु॒षस्व᳚ । इ॒न्द्र॒ । पु॒रु॒॑तम᳚स्य । का॒रोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमसो रात्रेः सकाशाद्विजानन्विशेषेण जानन् प्रादुर्भवन्सूर्यात्मक इन्द्रो ज्योतिर्वृणीत । जदद्व्यवहारनिर्वाहकं प्रकाशं समभक्त । यद्वा तमसस्तमोरूषाद्वृत्रादेर्विजानन् प्रदुर्भवन् । वृत्रं हत्वा प्रकाशमवृणीत । वयं दुरितात्पापादारे दुरे पाअवर्जिताः । सन्तोऽभीके भयरहिते स्थाने स्याम । भवेम । सोमपाः सोमस्य पातरत एव सोमवृद्ध सोमपानेषु वृद्ध हे इन्द्र पुरुतमस्य । पुरून्बहूञ्शत्रून् तामयति ग्लापयतीति पुरुतमः । तादृशस्य कारोः स्तोत्रं कुर्वाणस्य ऋत्विज इमाः स्तुतिलक्शणा गिरो वाचो जुषस्व । सेवस्व । वृणीत । वृङ् सम्भक्तावित्यस्य लङि रूपम् । विजानन् । ज्ञा अवबोधने । विशेषेण ज्ञानं प्रकाशः । प्रत्ययस्वरः । अभीके । नविद्यते भीर्यस्मिन् । ततः शेषाद्विभाषा । पा. ६-२-१७३ । इति पूर्वस्यान्तोदात्तत्वम् । पुरुतमस्य तमुग्लान इत्यस्माण्यन्तात्पचाद्यचि परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ ७ ॥

3.39.8
ज्योति᳚र्य॒ज्ञाय॒ रोद᳚सी॒ अनु᳚ ष्यादा॒रे स्या᳚म दुरि॒तस्य॒ भूरे᳚ः ।
भूरि᳚ चि॒द्धि तु᳚ज॒तो मर्त्य᳚स्य सुपा॒रासो᳚ वसवो ब॒र्हणा᳚वत् ॥
▶ पदपाठः (Word-by-word)
ज्योतिः᳚ । य॒ज्ञाय᳚ । रोद᳚सी॒ इति᳚ । अनु᳚ । स्या॒त् । आ॒रे । स्या॒म॒ । दुः॒॑इ॒तस्य᳚ । भूरेः᳚ ।
भूरि᳚ । चि॒त् । हि । तु॒ज॒तः । मर्त्य᳚स्य । सु॒॑पा॒रासः᳚ । व॒स॒वः॒ । ब॒र्हणा᳚॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र जुयोतिर्जगत्प्रकाशकः सूर्यो यज्ञायाग्निहोत्रादिकर्मकरणाय रोदसी द्यावापृथिव्यावनुष्यात् । अनुभवतु । प्रकाशयतु । वं भूरेः प्रभूतस्य दुरितस्य पापस्यारे दूरे स्याम । भवेम । हे वसवः सर्वस्य वासयितार इन्द्रादयः सुपारासः सुपाराः शोभनपाराः स्तुत्याभिमुखीकर्तुं शक्या यूयं भुरि चिदतिप्रभूतं बर्हणावत्समृद्धियुक्तं धनं तुजतो र्भूरिप्रदस्य मर्त्यस्य प्रयच्छथ । आत्र योग्यक्रियाध्याहारः । स्यात् । अस्तेर्लिङि रूपम् । संहितायामनोरुत्तरस्यास्तेरुपसर्गप्रादुर्भ्यामस्तिर्यच् पर इति षत्वम् । निघातः । तुजतः । तुजि पिजि लजि हिंसादाननिकेतनेषु । शतुरनुम इति इति विभक्तेरुदात्तत्वम् । बर्हणावत् । वृहि वृद्धा वित्यस्य भाव औणादिको युप्रत्ययः । प्रत्ययस्वरः ॥ ८ ॥

3.39.9
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाअजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धं यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारम् त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमानां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रोपलक्शितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रु सम्बन्धिनां सञ्जितं समग्जेतारं त्वामुतये रक्षणाय वयमाह्वयेम ॥ शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः यजादित्वात्संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेत्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रुपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । वृणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । आद भक्षणे । संपुर्वात् क्विप् । सम्भक्शयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । क्रुदुत्तरपदस्वरः । घ्नन्तम् । हन हिम्सागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ९ ॥