या जागृ᳚विर्वि॒दथे᳚ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय᳚ते वि॒द्धि तस्य᳚ ॥
पदपाठः (Word-by-word)
या । जागृ᳚विः । वि॒दथे᳚ । श॒स्यमा᳚ना । इन्द्र᳚ । यत् । ते॒ । जाय᳚ते । वि॒द्धि । तस्य᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वामित्रः स्तौति । हे इन्द्र हृदो हृदयाद्वच्यमानोच्यमाना स्तोमतष्टास्तोमकारिभिः कृता मतिः स्तुतिः पतिं सर्वस्य जगतः स्वमिनं त्वामच्छाभिलक्ष्या जिगाति । समन्ताद्गच्छतु । या मदीया स्तुतिर्जागृविः स्तुत्यस्य तव जागरणं कुर्वाणा विदथे यज्ञे शस्यमाना भवति । हे इन्द्र ते त्वदर्थं यत्सोत्रं मत्तो जायते तद्विद्धि । जानीहि । तस्येति द्वितीयार्थे षष्ठी ॥ मतिः । मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । हृदः । हृदयशब्दस्य पद्दन्नोमासित्यादिना हृदादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । वच्यमाना । वच परिभाषण इत्यस्य कर्मणि यक् । सम्प्रसारणाभावश्छान्दसः । प्रत्ययस्वरः । स्तोमतष्टा । तक्षू त्वक्षू तनूकरण इत्यस्य कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरतम् । जिगाति । गा स्तुतौ छन्दसीति जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । जायते । जनी प्रादुर्भाव इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । विद्धि । विद ज्ञान इत्यस्य लोटि हेर्हुझल्भ्यो हेर्धिरिति ध्यादेशः । वाक्यभेदादनिघातः ॥ १ ॥