हरि᳚भ्यां॒ यस्ते᳚ अस्म॒युः ॥
पदपाठः (Word-by-word)
हरि᳚॑भ्याम् । यः । ते॒ । अ॒स्म॒॑युः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र नोऽस्मदीयं सुतमभिषुतं गवाशिरं पयसा मिश्रितं सोमं प्रति उपा गहि । समीप आगच्छ । यतो हरिभ्यामश्वाभ्यां युक्तस्तव रथोऽस्मयुरस्मास्कामयमानो वर्तते ॥ गवाशिरम् । आङ् पूर्वस्य श्रीणातेः क्विप्यपस्पृधेथामानृचुरित्यादिनाशिरित्यादेशः । बहुव्रीहौ पूर्वपदस्वरः ॥ १ ॥