श्रवणम्

3.42.7
इ॒ममि᳚न्द्र॒ गवा᳚शिरं॒ यवा᳚शिरं च नः पिब ।
आ॒गत्या॒ वृष᳚भिः सु॒तम् ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । इ॒न्द्र॒ । गो॑आ᳚शिरम् । यव᳚॑आशिरम् । च॒ । नः॒ । पि॒ब॒ ।
आ॒॑गत्य᳚ । वृष᳚॑भिः । सु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र गवाशिरं गव्यमिश्रणोपेतं सोमं तथा यवाशिरं यवमिश्रणोपेतं वृषभिर्ग्रावभिः सुतमभिषुतं नोऽस्मदीयमिमं सोमं देवयजमागत्य पिब ॥ गवाशिरं यवाशिरमित्यत्र आङ् पूर्वस्य श्रीणातेः क्विप्यपस्पृधेथा मानृचुरित्यादिनाशिरित्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ७ ॥