तृतीयं मण्डलम् - सूक्तम् 14

7 ऋचः

ऋषिः: ऋषभो वैश्वामित्रः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.14 - सम्पूर्णम्

1 / 7
ऋक्: 3.14.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
3.14.1
आ होता᳚ म॒न्द्रो वि॒दथा᳚न्यस्थात्स॒त्यो यज्वा᳚ क॒वित᳚म॒ः स वे॒धाः ।
वि॒द्युद्र᳚थ॒ः सह᳚सस्पु॒त्रो अ॒ग्निः शो॒चिष्के᳚शः पृथि॒व्यां पाजो᳚ अश्रेत् ॥
▶ पदपाठः (Word-by-word)
आ । होता᳚ । म॒न्द्रः । वि॒दथा᳚नि । अ॒स्था॒त् । स॒त्यः । यज्वा᳚ । क॒वि॑त᳚मः । सः । वे॒धाः ।
वि॒द्युत्॑र᳚थः । सह᳚सः । पु॒त्रः । अ॒ग्निः । शो॒चिः॑के᳚शः । पृ॒थि॒व्याम् । पाजः᳚ । अ॒श्रे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषभोऽग्निं स्तौति । होता देवानामाह्वाता मन्द्रः स्तोतुर्मादयिता सत्यः सत्यकर्मा कवितमोऽतिशयेन मेधावी यज्वा देवानां यष्टा वेधाः सर्वस्य जगतो विधाता । एवं विधमहिमोपेतः सोऽग्निर्विदधान्यस्माभिः क्रियमाणान्यज्ञानाथात् । आतिष्ठति । प्राप्नोति । किञ्च विद्युद्रथो विद्योतमानयानोपेतः शोचिष्केशः । शोचींषि ज्वालाः केशा यस्य सः । ज्वालामयकेशोपेतः सहसस्पुत्रो बलस्य सूनुरेवम्भूतः सोऽग्निः पृथिव्यां विस्तीर्णेऽन्तरिक्षे पाजस्तेजः स्वकीयां प्रभामश्रेत् । श्रयते । प्रापयति । यद्वा पृथिव्यां भूमौ वर्तमानः पाजो बलं सेवते ॥ मन्द्रः । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । अस्मात्स्फायितञ्चीत्यादिना रक् इदित्त्वान्नुम् । अस्थात् । ष्ठा गतिनिवृत्तौ । छन्दसि लुङ्ल ङ्लिट इति वर्तमाने लुङ् । गातिस्थेति सिचो लोपः । निघातः । यज्वा । यज देवपूजासंगतिकरणदानेषु । सुयजेर्ङ्वनिबिति ङ्वनिप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । कवितमः । कु शब्दे । कौति कूयते वा । अच इरिति कर्तरि भावे वा इप्रत्ययः । तमपः पित्त्वादनुदात्तत्वे प्रत्ययस्वरः । शोचिष्केशः । शुच दीप्तौ । अर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिरितीसिः । प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । क्श्रेत् । श्रिञ् सेवायामित्यस्य छन्दसि वर्तमाने लङ् । बहुलं छन्दसीति शपो लुक् । सार्वधातुकगुणः । निघातः ॥ १ ॥

3.14.2
अया᳚मि ते॒ नम᳚उक्तिं जुषस्व॒ ऋता᳚व॒स्तुभ्यं॒ चेत᳚ते सहस्वः ।
वि॒द्वा{4} आ व᳚क्षि वि॒दुषो॒ नि ष᳚त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये᳚ यजत्र ॥
▶ पदपाठः (Word-by-word)
अया᳚मि । ते॒ । नमः᳚॑उक्तिम् । जु॒ष॒स्व॒ । ऋत᳚॑वः । तुभ्य᳚म् । चेत᳚ते । स॒ह॒स्वः॒ ।
वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः᳚ । नि । स॒त्सि॒ । मध्ये᳚ । आ । ब॒र्हिः । ऊ॒तये᳚ । य॒ज॒त्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावः । ऋतं सत्यभूतो यज्ञः । तद्वन् हे अग्ने ते त्वद्विषयां नमौक्तिं नमस्कारवाक्यमहमयामि । प्रेरयामि । उच्चारयामि । हे सहस्वः । सहोबलम् । तद्वन्नग्ने चेतते चेतयित्रे कर्मणः प्रज्ञापकाय तुभ्यं नौक्तिः क्रियते । तां जुषस्व । अस्माभिः क्रियमाणां नमस्कारोक्तिं सेवस्य । किञ्च यजत्र यषव्य हे अग्न ऊतयेस्माऽकं रक्षणाय मध्ये बर्हिः स्तीर्णस्य बर्हिषो मध्य आ निषत्सि । आसमन्तान्निषीद ॥ आयामि । इण् गतौ । भौवादिकः । पादादित्वादनिघातः । जुषस्व । जुषी प्रीतिसेवनयोः । तुदादिः । लोट रूपम् । निघातः । चेतते । चिती संज्ञाने । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे ततोन्तोदात्तताभावाच्छतुरनुम इति विभक्तेरुदात्तताभावः । धातुस्वरः । सहस्वः । सहोऽस्त्यस्येति मतुप् । सकारस्य तसौ मत्वर्थ इति भसंज्ञकत्वाद्रुन भवति । मादुपधाया इति मतुपो वत्वम् । उगिदचामिति नुम् । हल्ब्यादिलोपे नकारस्य मतुवसो रुरिति रुत्वम् । आमन्त्रितनिघातः । विदुषः । विद ज्ञान इत्येतस्मादुत्तरस्य शतुर्विदेः शतुर्वसुरिति वस्वादेशः । भसं ज्ञायां वसोः सम्प्रसारणं प्रत्ययस्वरः । सत्सि । षद् लृ विशरणादिषु । लिट बहुलं छन्दसीति शपो लुक् । शित्प्रत्ययपरत्वाभावात्सीदादेशाभावः । सदेरप्रतेरिति षत्वम् । यजत्र । यज देवपूजादिषु । अमिनक्षियजीत्यादिनात्रन्प्रत्ययः । आमन्त्रित निघातः ॥ २ ॥

3.14.3
द्रव᳚तां त उ॒षसा᳚ वा॒जय᳚न्ती॒ अग्ने॒ वात᳚स्य प॒थ्या᳚भि॒रच्छ᳚ ।
यत्सी᳚म॒ञ्जन्ति᳚ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे᳚व तस्थतुर्दुरो॒णे ॥
▶ पदपाठः (Word-by-word)
द्रव᳚ताम् । ते॒ । उ॒षसा᳚ । वा॒जय᳚न्ती॒ इति᳚ । अ॒ग्ने॒ । वात᳚स्य । प॒थ्या᳚भिः । अच्छ᳚ ।
यत् । सी॒म् । अ॒ञ्जन्ति᳚ । पू॒र्व्यम् । ह॒विः॑भिः᳚ । आ । व॒न्धुरा᳚॑इव । त॒स्थ॒तुः॒ । दु॒रो॒णे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वाजन्ती वाजमन्नं कुर्वाणे उषसा उषासानक्ते अहोरात्रौ ते त्वां द्रवताम् । अभिगच्छताम् । त्वमपि वातस्य वायोः पथ्याभिर्मार्गैरच्छ तावहोरात्रौ शीघ्रमभिगच्छ । यद्यस्मात्कारणादहोरात्राग्न्योः परस्पराभिर्मार्गैरच्छ तावहोरात्रौ शीघ्रमभिगच्छ । यद्यस्मात्कारणादहोरात्राग्न्यो परस्पराभिगमनेनान्योन्यसम्बन्धस्तस्मादहोरात्रयोः सायंप्रातः कालयोः पूर्व्यं पुरातनं त्वामृत्विजो हविर्भिराज्यादिभिः सीं सर्वतोञ्जन्ति । सिञ्चन्ति । किञ्च बन्धुरेव । यथा कूवरस्थानं परस्परसम्सक्तेषाद्वयोपेतं तद्वत्सम्सक्तौ तावहोरात्रौ दुरोणेऽस्माकं गृहेऽग्निहोत्रादिकर्मसिद्ध्यर्थमा आवृत्य पुनः पुनरावर्तमानौ सन्तौ तस्थतुः । तिष्ठां ॥ द्रवताम् । द्रु गतावित्यस्य लोट् रूपम् । पथ्याभिः । पथिषु साधव इत्यर्थे तत्र साधुः । पा.४-४-९८ । इति यत् । नस्तद्धित इति टिलोपः । तित्स्वरित इति स्वरितः तस्थतुः । तिष्ठतेर्लिट्युसि रूपम् । निघातः ॥ ३ ॥

3.14.4 समानपद
मि॒त्रश्च॒ तुभ्यं॒ वरु᳚णः सह॒स्वो॑ग्ने॒ विश्वे᳚ म॒रुतः᳚ सु॒म्नम᳚र्चन् ।
यच्छो॒चिषा᳚ सहसस्पुत्र॒ तिष्ठा᳚ अ॒भि क्षि॒तीः प्र॒थय॒न्त्सूर्यो॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । च॒ । तुभ्य᳚म् । वरु᳚णः । स॒ह॒स्वः॒ । अग्ने᳚ । विश्वे᳚ । म॒रुतः᳚ । सु॒म्नम् । अ॒र्च॒न् ।
यत् । शो॒चिषा᳚ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः᳚ । अ॒भि । क्षि॒तीः । प्र॒थय᳚न् । सूर्यः᳚ । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्वो बलवन् हे अग्ने मित्रश्च वरुणश्च मित्रावरुणौ विश्वे मरुतः सर्वे देवाश्च तुभ्यं त्वदर्थं सुम्नं स्तोत्रमर्चन् । वहन्ति । यद्वा सर्वे देवास्तुभ्यं त्वां सुम्नं सुखेनार्चयन् पूजयन्ति । यद्यस्मात्कारणात्सहसस्पुत्र हे अग्ने सूर्यः सुष्ठु अर्यः स्वामी यद्वा सर्वान्तर्यामितया सुष्ठुप्रेरको यद्वा सूर्यः शोभनवीर्योऽभि क्षितीः । क्षितिशब्दो मनुष्यवाची । विशः क्षितय इति तन्नामसु पाठात् । मनुष्यानभिलक्ष्य नॄन् मार्गप्रदर्शकत्वेन नेतॄन आत्मनो रश्मीन् प्रथयन्सर्वतो विस्तारयन्स्त्वं शोचिषा दीप्त्या समानः सन् तिष्ठाः । तिष्ठसि । तस्मादेते देवाः पूजयन्तीति ॥ अर्चन् । अर्च पूजायामित्यस्य लङ् रूपम् । अडाभावश्छान्दसः । तिष्ठाः ष्ठा गतिनिवृत्तावित्यस्य लेट् रूपम् । यद्योगादनिघातः । पाघ्रेत्यादिना तिष्ठादेशस्याद्युदात्तत्वेन निपातनादाद्युदात्तः । सूर्यः । राजसूय सूर्येति क्यबन्तत्वेन निपानात्सर्वार्थाः सिद्धा भवन्ति ॥ ४ ॥

3.14.5
व॒यं ते᳚ अ॒द्य र᳚रि॒मा हि काम᳚मुत्ता॒नह᳚स्ता॒ नम᳚सोप॒सद्य᳚ ।
यजि᳚ष्ठेन॒ मन᳚सा यक्षि दे॒वानस्रे᳚धता॒ मन्म᳚ना॒ विप्रो᳚ अग्ने ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । अ॒द्य । र॒रि॒म । हि । काम᳚म् । उ॒त्ता॒न॑ह᳚स्ताः । नम᳚सा । उ॒प॒॑सद्य᳚ ।
यजि᳚ष्ठेन । मन᳚सा । य॒क्षि॒ । दे॒वान् । अस्रे᳚धता । मन्म᳚ना । विप्रः᳚ । अ॒ग्ने॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने उत्तानहस्ता हविःस्वीकरणादुत्तानपाणयो वयं कामं कमनीयं पुरोडाशादिहविस्ते तुभ्यमद्ध्येदानीमस्मिन्कर्मणि ररिम । दद्मः । नमसा नमस्कारेणोपसद्य प्रसन्नो भूत्वा यजिष्ठेन यष्टृतमेन यागेच्छावता मनसान्तः करणेन देवान्यक्षि । यजनीयान्देवान्यज । पूजय । किञ्च विप्रो मेधावि कर्माभिज्ञस्त्वमस्रेधताक्षीणेन प्रभूतेन मन्मना मन्तव्येन स्तोत्रेण देवान्पूजय ॥ अद्य । सद्यः परुत्परार्यैषम इत्यादिना निपातितः । अन्तोदात्तश्च । ररिम । रादान इत्यस्य वर्तमाने लिटि परस्मैपदानां णलतुः । पा. ३-४-८२ । इत्यादिना मसोमादेशः । क्रादिनियमादिडागमः । आतो लोप इटि चेत्याकारलोपः । हियोगादनिघातः । आगमा अनुदात्ता इतीटोऽनुदात्तत्त्वात्प्रत्ययस्वरः । उपसद्य । षद्लृविशरणगत्यवसादनेषु । अस्यक्त्वा । समासेऽनञ् पूर्वेक्त्वोल्यबितिल्यप् । लित्स्वरः । यक्षि । यज देवपूजासङातिकरणदानेषु । लोटि बहुलं छन्दसीति शपो लुक् । षत्वकत्वे । सिपो ह्यादेशाभाश्छान्दसः । अस्रेधता । स्रिधिः क्षयार्थः । तत्पुरुष इति नञ् स्वरः ॥ ५ ॥

3.14.6
त्वद्धि पु᳚त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजा᳚ः ।
त्वं दे᳚हि सह॒स्रिणं᳚ र॒यिं नो᳚॑द्रो॒घेण॒ वच᳚सा स॒त्यम᳚ग्ने ॥
▶ पदपाठः (Word-by-word)
त्वत् । हि । पु॒त्र॒ । स॒ह॒सः॒ । वि । पू॒र्वीः । दे॒वस्य᳚ । यन्ति᳚ । ऊ॒तयः᳚ । वि । वाजाः᳚ ।
त्वम् । दे॒हि॒ । स॒ह॒स्रिण᳚म् । र॒यिम् । नः॒ । अ॒द्रो॒घेण᳚ । वच᳚सा । स॒त्यम् । अ॒ग्ने॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसः पुत्र बलस्य पुत्र हे अग्ने देवस्य देवनशीलस्य कर्मकरणप्रवृत्तस्य यजमानस्य त्वत् त्वत्तः सकाशात्पूर्वीः प्रभूता ऊतयो विघ्नपरिहारेण कर्म परिपालनादिरूपा रक्षा वि यन्ति हि । विविधं गच्छन्ति खलु । शमिमं यजमानं प्राप्नुवन्ति । तथा वाजा अन्नानि वियन्ति । एनं यजमानं प्राप्नुवन्ति । किञ्च हे अग्ने त्वं सहस्रिणं सहस्रसंख्याकं रयिं धनं नोऽस्मभ्यं देहि । तथाद्रोघेण द्रोहरहितेन पापशून्येन वचसा वाक्येन युक्तं सत्यं सत्यशीलं सन्मार्गे प्रवर्तमानंपुत्रं च देहि । प्रयच्छ ॥ त्वत् । युष्मच्छब्दस्य पञ्चम्येकवचने त्वादेशः । ङ सेरेकवचनस्य च । पा. २-२-३२ । इत्यदादेशः । एकादेशस्वरः । पुत्र सहसः । परमपिछन्दसीति पराङ्गवद्भावाद्द्वयोः सर्वानुदात्तत्वम् । देहि । डुदाञ् दान इत्यस्य लोटि घ्वसोरेद्भाविति धातोरेत्वमभ्यासलोपश्च । निघातः । आद्रोघेण । द्रुह जिघांसायाम् । घञ् । द्रोघः । घकारश्छान्दसः । नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वं ॥ ६ ॥

3.14.7
तुभ्यं᳚ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता᳚सो अध्व॒रे अक᳚र्म ।
त्वं विश्व᳚स्य सु॒रथ᳚स्य बोधि॒ सर्वं॒ तद᳚ग्ने अमृत स्वदे॒ह ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । द॒क्ष॒ । क॒वि॒क्र॒तो॒ इति᳚ कवि॑क्रतो । यानि᳚ । इ॒मा । देव᳚ । मर्ता᳚सः । अ॒ध्व॒रे । अक᳚र्म ।
त्वम् । विश्व᳚स्य । सु॒॑रथ᳚स्य । बो॒धि॒ । सर्व᳚म् । तत् । अ॒ग्ने॒ । अ॒मृ॒त॒ । स्व॒द॒ । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

दक्श समृद्धतया सामर्थोऽपेत कविक्रतोऽतीन्द्रियविषयप्रज्ञोपेत सर्वज्ञ देव दीप्यमान हे अग्ने मर्तासो यजमाना वयं तुभ्यं त्वदर्थं यानीमा यानीमेमानि हवींष्यध्वरे यज्ञेऽकर्म । हविस्त्यागमकार्ष्म । त्वं च सुरथस्य शोभनयानोपेतस्य विश्वस्य सर्वस्य यजमानस्य बोधि । गोपायिता भवामीति बुध्यस्य । हे अमृत मरणधर्मरहिताग्न इहास्मिन्कर्मण्यस्माभिर्दत्तं तत्सर्वं हविः स्वद । आस्वादय ॥ अकर्म । डुकृञ् करण इत्यस्य लङ् छन्दस्युभयथेति मसाअर्धधातुकत्वेन ङुत्वाभावाद्गुणः । यद्वृत्तयोगादनिघातः । बोधि । बुध अवगमने । छन्दसि लुङ्गेति लोडर्थे लुङ् । तिङां तिङो भवन्तीति सिपस्तादेशः । दीपजनभ्धेत्यादिना कर्तरि चिण् । चिणो लुगिति तप्रत्ययस्य लोपः । अडभावश्छान्दसः स्वद । स्वद आस्वादने । अन्तर्भावितण्यर्थः । लोटि रूपम् । निघातः ॥ ७ ॥