श्रवणम्

3.14.4 समानपद
मि॒त्रश्च॒ तुभ्यं॒ वरु᳚णः सह॒स्वो॑ग्ने॒ विश्वे᳚ म॒रुतः᳚ सु॒म्नम᳚र्चन् ।
यच्छो॒चिषा᳚ सहसस्पुत्र॒ तिष्ठा᳚ अ॒भि क्षि॒तीः प्र॒थय॒न्त्सूर्यो॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । च॒ । तुभ्य᳚म् । वरु᳚णः । स॒ह॒स्वः॒ । अग्ने᳚ । विश्वे᳚ । म॒रुतः᳚ । सु॒म्नम् । अ॒र्च॒न् ।
यत् । शो॒चिषा᳚ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः᳚ । अ॒भि । क्षि॒तीः । प्र॒थय᳚न् । सूर्यः᳚ । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्वो बलवन् हे अग्ने मित्रश्च वरुणश्च मित्रावरुणौ विश्वे मरुतः सर्वे देवाश्च तुभ्यं त्वदर्थं सुम्नं स्तोत्रमर्चन् । वहन्ति । यद्वा सर्वे देवास्तुभ्यं त्वां सुम्नं सुखेनार्चयन् पूजयन्ति । यद्यस्मात्कारणात्सहसस्पुत्र हे अग्ने सूर्यः सुष्ठु अर्यः स्वामी यद्वा सर्वान्तर्यामितया सुष्ठुप्रेरको यद्वा सूर्यः शोभनवीर्योऽभि क्षितीः । क्षितिशब्दो मनुष्यवाची । विशः क्षितय इति तन्नामसु पाठात् । मनुष्यानभिलक्ष्य नॄन् मार्गप्रदर्शकत्वेन नेतॄन आत्मनो रश्मीन् प्रथयन्सर्वतो विस्तारयन्स्त्वं शोचिषा दीप्त्या समानः सन् तिष्ठाः । तिष्ठसि । तस्मादेते देवाः पूजयन्तीति ॥ अर्चन् । अर्च पूजायामित्यस्य लङ् रूपम् । अडाभावश्छान्दसः । तिष्ठाः ष्ठा गतिनिवृत्तावित्यस्य लेट् रूपम् । यद्योगादनिघातः । पाघ्रेत्यादिना तिष्ठादेशस्याद्युदात्तत्वेन निपातनादाद्युदात्तः । सूर्यः । राजसूय सूर्येति क्यबन्तत्वेन निपानात्सर्वार्थाः सिद्धा भवन्ति ॥ ४ ॥