तृतीयं मण्डलम् - सूक्तम् 61

7 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: उषाः छन्दः: त्रिष्टुप्

सूक्तम् 3.61 - सम्पूर्णम्

1 / 7
ऋक्: 3.61.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
3.61.1 समानपद
उषो॒ वाजे᳚न वाजिनि॒ प्रचे᳚ता॒ः स्तोमं᳚ जुषस्व गृण॒तो म᳚घोनि ।
पु॒रा॒णी दे᳚वि युव॒तिः पुरं᳚धि॒रनु᳚ व्र॒तं च᳚रसि विश्ववारे ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । वाजे᳚न । वा॒जि॒नि॒ । प्र॑चे᳚ताः । स्तोम᳚म् । जु॒ष॒स्व॒ । गृ॒ण॒तः । म॒घो॒नि॒ ।
पु॒रा॒णी । दे॒वि॒ । यु॒व॒तिः । पुर᳚म्॑धिः । अनु᳚ । व्र॒तम् । च॒र॒सि॒ । वि॒श्व॒॑वा॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजेन वाजिन्यन्नेनान्नवति । तथा च मन्त्रः । सं वाजैर्वाजिनीवति । ऋग्वे. १-४८-१६ । इति । मघोनि धनवति हे उषः प्रचेताः प्रकृष्टज्ञानवती सती गृणतः तव स्तोत्रं कुर्वतः स्तोतुः स्तोमं स्तोत्रं जुशस्व । सेवस्व । यद्वा । वाजेन हविर्लक्शणेनान्नेन सह स्तोमं जुषस्वेति सम्बन्धः । विश्ववारे विश्वैः सर्वैर्वरणीये हे उषो देवि पुराणी पुरतनी युवतिरित्युपमा तद्वच्छोभमाना । सुसङ्काशा मातृमृष्टेव योशा । ऋग्वे. १-१२३-११ । इतिवत् । पुरन्धिः । पुरु बहु धीः स्तोत्रलक्षणं कर्म यस्याः सा । बहुस्तोत्रवती । पुरन्धिर्बहुधीरिति यास्कः । पुरन्धिः शोभमाना वा । एवं विधगुणोपेता त्वमनु व्रतं यज्ञकर्माभिलक्ष्य चरसि । यष्टव्यतया वर्तसे ॥ मघोनि । मघशब्दान्मतुरर्थे छन्दसीवनिपाविति वनिप् । स्त्रियामृन्नेभ्यो ङीप् । श्वयुवमघोनामतद्धित इति सम्प्रसारणे कृते गुणः । सम्बुद्धावम्बार्थनद्योर्ह्रस्वः । निघातः । पुराणी । पुराण शब्दः पुराणप्रोक्तेष्वित्यन्तोदात्तत्वेन निपातितः । टिड्ढाणञिति ङीप् । अनुदात्तस्य च यत्रोदात्तलोप इत्यन्तोदात्तत्वम् । पुरन्धिः । पृषोदरादित्वादुकारस्यामादेश ईकारस्य ह्रस्वश्च । आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानमित्याद्युदात्तत्वं ॥ १ ॥

3.61.2 समानपद
उषो᳚ दे॒व्यम᳚र्त्या॒ वि भा᳚हि च॒न्द्रर᳚था सू॒नृता᳚ ई॒रय᳚न्ती ।
आ त्वा᳚ वहन्तु सु॒यमा᳚सो॒ अश्वा॒ हिर᳚ण्यवर्णां पृथु॒पाज᳚सो॒ ये ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । दे॒वि॒ । अम᳚र्त्या । वि । भा॒हि॒ । च॒न्द्र॑र᳚था । सू॒नृताः᳚ । ई॒रय᳚न्ती ।
आ । त्वा॒ । व॒ह॒न्तु॒ । सु॒॑यमा᳚सः । अश्वाः᳚ । हिर᳚ण्य॑वर्णाम् । पृ॒थु॒॑पाज᳚सः । ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो देव्यमर्त्या मरणधर्मरहिता चन्द्ररथा सुवर्णमयरथोपेता सूनृताः प्रियसत्यरूपा वाच ईरयन्त्युच्चारयन्ती । तथा च मन्त्रवर्णः । सुम्नावरी सूनृता ईरयन्ती । ऋग्वे. १-११३-१२ । इति । तादृशी त्वं वि भाहि । सूर्यकिरणसम्बन्धाद्विशेषेण दीप्यस्व । पृथुपाजसः प्रभूतबलयुक्ता अरुणवर्णा येऽश्वा विद्यन्ते सुयमासः सुष्ठु नियन्तुं शक्या रथे योजितास्तेऽश्वा हिरण्यवर्णां त्वां त्वामावहन्तु । सुयमासः । यमेरकृच्छ्रार्थे खल् । लित्स्वरः ॥ २ ॥

3.61.3
उषः᳚ प्रती॒ची भुव᳚नानि॒ विश्वो॒र्ध्वा ति᳚ष्ठस्य॒मृत᳚स्य के॒तुः ।
स॒मा॒नमर्थं᳚ चरणी॒यमा᳚ना च॒क्रमि᳚व नव्य॒स्या व᳚वृत्स्व ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । प्र॒ती॒ची । भुव᳚नानि । विश्वा᳚ । ऊ॒र्ध्वा । ति॒ष्ठ॒सि॒ । अ॒मृत᳚स्य । के॒तुः ।
स॒मा॒नम् । अर्थ᳚म् । च॒र॒णी॒यमा᳚ना । च॒क्रम्॑इ᳚व । न॒व्य॒सि॒ । आ । व॒वृ॒त्स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो देवि विश्वा सर्वाणि भुवनानि प्रतीची । प्रत्याभिमुख्येनाञ्चति प्राप्नोतीति प्रतीची । अमृतस्य मरणधर्मरहितस्य सूर्यस्य केतुः प्रज्ञापयित्री त्वमूर्ध्वा नभस्युन्नता तिष्थसि । नव्यसि पुनः पुनर्जायमानतया नवतरे हे उषो देव्यर्थम् । आर्यते गम्यतेऽस्मिन्नित्यर्थो मार्गः । समानमेकं मार्गमुदयात्प्राचीनकाललक्षणं चरणीयमाना चरित्मिच्छन्ती त्वमा ववृत्स्व । पुनस्तस्मिन्मार्ग आवृत्ता भव । तत्र दृष्ठान्तः । चक्रमिव । यथा नभसि चरितुः सूर्यस्य रथाङ्गं पुनः पुनरावर्तते तद्वत् । प्रतीची । प्रतिपूर्वादञ्चतेः क्विन् । अञ्चतेश्चोपसङ्ख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । केतुः । चायृ पूजनिशामनयोरित्यस्माच्चायः की चेति तुः । की इत्यादेशः । आर्धधातुकलक्षणो गुणः । अर्थम् । अर्तेस्थन्प्रत्ययः । नव्यसि । नवशब्दादीयसुनि ङीपि रूपम् । ईकारलोपश्छान्दसः । ववृत्स्व । वृतु वर्तने । बहुलं छन्धसीति विकरनस्य श्लुः ॥ ३ ॥

3.61.4
अव॒ स्यूमे᳚व चिन्व॒ती म॒घोन्यु॒षा या᳚ति॒ स्वस᳚रस्य॒ पत्नी᳚ ।
स्व१॒᳚र्जन᳚न्ती सु॒भगा᳚ सु॒दंसा॒ आन्ता᳚द्दि॒वः प᳚प्रथ॒ आ पृ᳚थि॒व्याः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्यूम᳚॑इव । चि॒न्व॒ती । म॒घोनी᳚ । उ॒षाः । या॒ति॒ । स्वस᳚रस्य । पत्नी᳚ ।
स्वः᳚ । जन᳚न्ती । सु॒॑भगा᳚ । सु॒॑दंसाः᳚ । आ । अन्ता᳚त् । दि॒वः । प॒प्र॒थे॒ । आ । पृ॒थि॒व्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येयमुषाः स्यूमेव वस्त्रमिव विस्तृतं तमोऽवचिन्वत्यवचयमपक्शयं प्रापयन्ती मघोनी धनवती स्वसरस्य । सुष्ठ्वस्यति क्शिपति तम इति स्वसरः सूर्यो वासरो वा । तस्य पत्नी सती या गच्छति । स्वः स्वकीयं तेजो जनन्ती जनयन्ती सुभगा सुधना सौभाग्ययुक्ता वा सुदंसाः शोभनाग्निहोत्र कर्मा सेयमुषादिवो द्युलोकस्यान्तात्पृथिव्याश्चान्तादावसानात्पप्रथे । प्रथते । प्रकाशत इत्यर्थः । स्यूमेव । षिवु तन्तुसन्ताने । अविषिविशुषिभ्यः किदिति मन्प्रत्ययः । छ्वोः शूडनुनासिके चेत्य़ूट् । यणादेशः । सुपां सुलुगिति सोर्लुक् । नित्त्वादाद्युदात्तः । चिन्वती । शतुरनुम इति ङीप् उदात्तत्वम् । जनन्ती । जन जनन इत्यस्य ण्यन्तस्य शतरि रूपम् । छन्दस्युभयथेति शप आर्धधातुकत्वेन णिलोपः ॥ ४ ॥

3.61.5
अच्छा᳚ वो दे॒वीमु॒षसं᳚ विभा॒तीं प्र वो᳚ भरध्वं॒ नम᳚सा सुवृ॒क्तिम् ।
ऊ॒र्ध्वं म᳚धु॒धा दि॒वि पाजो᳚ अश्रे॒त्प्र रो᳚च॒ना रु᳚रुचे र॒ण्वसं᳚दृक् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । वः॒ । दे॒वीम् । उ॒षस᳚म् । वि॒॑भा॒तीम् । प्र । वः॒ । भ॒र॒ध्व॒म् । नम᳚सा । सु॒॑वृ॒क्तिम् ।
ऊ॒र्ध्वम् । म॒धु॒धा । दि॒वि । पाजः᳚ । अ॒श्रे॒त् । प्र । रो॒च॒ना । रु॒रु॒चे॒ । र॒ण्व॑स᳚न्दृक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारो वो युष्मानच्छाभिलक्ष्य विभातीं शोभमानामुषसं देवीं प्रति वो युष्माकं सम्बन्धिना नमसा नमस्कारेण सह सुवृक्तिं शोभनां स्तुतिं प्रभरध्वम् । यूयं कुरुत । मधुधा । मधुराणि स्तुतिलक्षणानि वाक्यानि दधातीति । मधु सोमः । तं धारयतिति वा । यद्वा । मधुधादित्यधात्री । यद्वा । अवग्रहाभावादव्युत्पन्नावयवमखण्डमिदं पदमुशोनाम । सेयमुषा दिवि नभस्यूर्ध्वं पाज ऊर्ध्वाभिमुखं पाजस्तेजोऽश्रेत् । श्रयति । तथा रोचना रोचनशीला रण्व संदृक् रमणीयदर्शनोषाः प्र रुरुचे । प्रकर्षण दीप्यते । यद्वा । रोचनालोकान्प । रुरुचे । प्रकर्षेण स्वतेजसा दीपयति । तथा च मन्त्रवर्णः । व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् । ऋग्वे. १-४९-४ । इति । रण्वसंदृक् । रवेर्गथर्थस्याच्प्रत्ययः । इदित्त्वान्नुमागमः । सम्पूर्वाद्दृशेः क्विन् । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः ॥ ५ ॥

3.61.6
ऋ॒ताव᳚री दि॒वो अ॒र्कैर᳚बो॒ध्या रे॒वती॒ रोद᳚सी चि॒त्रम᳚स्थात् ।
आ॒य॒तीम᳚ग्न उ॒षसं᳚ विभा॒तीं वा॒ममे᳚षि॒ द्रवि᳚णं॒ भिक्ष᳚माणः ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑व᳚री । दि॒वः । अ॒र्कैः । अ॒बो॒धि॒ । आ । रे॒वती᳚ । रोद᳚सी॒ इति᳚ । चि॒त्रम् । अ॒स्था॒त् ।
आ॒॑य॒तीम् । अ॒ग्ने॒ । उ॒षस᳚म् । वि॒॑भा॒तीम् । वा॒मम् । ए॒षि॒ । द्रवि᳚णम् । भिक्ष᳚माणः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावरी सत्यवती ये यमुषा दिवो द्युलोकादर्क्सिस्तेजोभिरबोधि सर्वैर्ज्ञायते । ततो रेवती धनवती येयं रोदसी द्यावापृथिवौ चित्रं नानाविधरूपयुक्तं यथा भवति तथास्थात् सर्वतो व्याप्य तिष्थति हे अग्ने आयतीं त्वदभिमुखमागच्छन्तीं विभातीं भासमानामुशसमुषोदेवीं भिक्षमाणो हवींषि याचमानस्त्वं वामं वननीयं द्रविणमग्निहोत्रादिलक्षणं धनमेषि । प्राप्नोषि । अबोधि । बुध अवगमने । कर्मणि लुङि चिण् भावकर्मणोरिति चिण् । चिणो लुक् । रेवती । रयिशब्दान्मतुप् । छन्दसीर इति वत्वम् । रयेर्मतौ बहुलमिति सम्प्रसारणपरपूर्वत्वे । गुणः । उगितश्चेति ङीप् । रेशब्दाच्चोपसंख्यानमिति मतुप उदात्तत्वं ॥ ६ ॥

3.61.7 समानपद
ऋ॒तस्य᳚ बु॒ध्न उ॒षसा᳚मिष॒ण्यन्वृषा᳚ म॒ही रोद᳚सी॒ आ वि᳚वेश ।
म॒ही मि॒त्रस्य॒ वरु᳚णस्य मा॒या च॒न्द्रेव᳚ भा॒नुं वि द᳚धे पुरु॒त्रा ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । बु॒ध्ने । उ॒षसा᳚म् । इ॒ष॒ण्यन् । वृषा᳚ । म॒ही इति᳚ । रोद᳚सी॒ इति᳚ । आ । वि॒वे॒श॒ ।
म॒ही । मि॒त्रस्य᳚ । वरु᳚णस्य । मा॒या । च॒न्द्रा॑इ᳚व । भा॒नुम् । वि । द॒धे॒ । पु॒रु॒॑त्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा वृष्टिद्वारा प्रेरक आदित्य ऋतस्याग्निहोत्रादिकर्मकरणे सत्यभूतस्याह्नो बुध्ने मूल उषसामिषण्यन् प्रेरणं कुर्वन्मही महतौ रोदसी द्यावापृथिव्यावा विवेश । स्वतेजेभिः सर्वतः प्रविष्टवान् । यद्वा । वृषा वर्षितेषण्यन् सर्वतो गच्छन्नुषसां सम्बन्धी रश्मिसमूहो रोदसी द्यावापृथिव्यौ विष्टवानिति योजनीयम् । तत उषा मही महती मित्रस्य वरुणस्य मित्रावरुणयोर्माया प्रभारूपा सती चन्द्रेव सुवर्णानीव भानुं स्वप्रभां पुरुत्रा बहुषु देशेशु विदधे । विदधाति । सर्वत्र प्रसारयति । मही । अल्लोपश्छान्दसः । पुरुत्रा । देवमनुष्येत्यादिनाधिकरणे त्राप्रत्ययः ॥ ७ ॥