तृतीयं मण्डलम् - सूक्तम् 50

5 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.50 - सम्पूर्णम्

1 / 5
ऋक्: 3.50.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.50.1
इन्द्र॒ः स्वाहा᳚ पिबतु॒ यस्य॒ सोम᳚ आ॒गत्या॒ तुम्रो᳚ वृष॒भो म॒रुत्वा᳚न् ।
ओरु॒व्यचा᳚ः पृणतामे॒भिरन्नै॒रास्य᳚ ह॒विस्त॒न्व१॒᳚ः काम᳚मृध्याः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । स्वाहा᳚ । पि॒ब॒तु॒ । यस्य᳚ । सोमः᳚ । आ॒॑गत्य᳚ । तुम्रः᳚ । वृ॒ष॒भः । म॒रुत्वा᳚न् ।
आ । उ॒रु॒॑व्यचाः᳚ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः᳚ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः᳚ । काम᳚म् । ऋ॒ध्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः स्वाहा स्वाहाकृतमिमं सोमं पिबतु । यस्येन्द्रस्यायं सोमः । स इन्द्रो यज्ञं प्रत्यागत्य तुम्रः कर्मविघ्नकारिणां हिंसको वृषभो यष्टॄणामभिमतफलवर्षको मरुत्वान्मरुद्भिस्तद्वान् उरुव्यचाः प्रभूतव्याप्तिः सन् एभिरस्माभिर्दत्तैरन्नैः सोमादिलक्षणैर्हविर्भिरा पृणताम् । समन्तात्पूरयतु । ततोऽस्येन्द्रस्य सम्बन्धिनस्तन्वः शरीरस्य कामं पुश्ट्यादिलक्षणविषयमभिलाषं हविरस्माभिर्दत्तमा ऋध्याः । सर्वतः पूरयतु । तुम्रः । तुमिराहननार्थः । उरुव्यचाः । व्यचेरसुन् । व्यचेः कुटादित्वमनसीति वक्तव्यमित्यत्रानसीति पर्युदासत् ङित्त्वाभावः । कृदुत्तरपदस्वरः । ऋध्याः । रुध्नोतेराशीर्लिङि रूपं ॥ १ ॥

3.50.2 समानपद
आ ते᳚ सप॒र्यू ज॒वसे᳚ युनज्मि॒ ययो॒रनु᳚ प्र॒दिवः᳚ श्रु॒ष्टिमावः᳚ ।
इ॒ह त्वा᳚ धेयु॒र्हर᳚यः सुशिप्र॒ पिबा॒ त्व१॒᳚स्य सुषु᳚तस्य॒ चारो᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । स॒प॒र्यू इति᳚ । ज॒वसे᳚ । यु॒न॒ज्मि॒ । ययोः᳚ । अनु᳚ । प्र॒॑दिवः᳚ । श्रु॒ष्टिम् । आवः᳚ ।
इ॒ह । त्वा॒ । धे॒युः॒ । हर᳚यः । सु॒॑शि॒प्र॒ । पिब᳚ । तु । अ॒स्य । सु॑सु᳚तस्य । चारोः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव जवसे यज्ञम् प्रत्यागमनाय सपर्यू परिचारकौ हरी आ युनज्मि । रथे योजयामि । प्रदिवः पुरातनस्त्वं ययोरश्वयोः शृष्टिं वेगम् । श्रुष्टीति क्शिप्रनामेति यास्कः । तमन्ववः । अनुगच्छसि । हे सुशिप्र शोभनहनो इन्द्र हरयो रथे योजतास्तेऽश्वा इह कर्मणि त्वां त्वां धेयुः । यज्ञं प्रति धारयन्तु । तत आगतस्त्वं सुषुतस्य सुष्ठ्वभिषुतं चारोः कमनीयमस्येमं सोमं तु क्शिप्रं पिब । सपर्यू । सपरशब्दः कण्ड्वादिः । तदन्तादौणादिकः कुप्रत्ययः । आवः । अवरक्षणादिशु । छान्दसे लङि रूपम् । यद्वृत्तयोगादनिघातः । धेयुः । दधातेराशीर्लिङि किदाशिषीति यासुट् । एर्लिङि । पा. ६-४-६७ । इत्येकारादेशः । निघातः । पिब । पादादित्वादनिघातः । सुषुतस्य । षुञ् अभिशवे । कर्मणि क्तः । गतिरनन्तर इति गतिस्वरः । उपसर्गात्सुनोतीत्यादिना संहितायां षत्वं ॥ २ ॥

3.50.3
गोभि᳚र्मिमि॒क्षुं द᳚धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या᳚य॒ धाय᳚से गृणा॒नाः ।
म॒न्दा॒नः सोमं᳚ पपि॒वा{4} ऋ᳚जीषि॒न्त्सम॒स्मभ्यं᳚ पुरु॒धा गा इ᳚षण्य ॥
▶ पदपाठः (Word-by-word)
गोभिः᳚ । मि॒मि॒क्षुम् । द॒धि॒रे॒ । सु॒॑पा॒रम् । इन्द्र᳚म् । ज्यैष्ठ्या᳚य । धाय᳚से । गृ॒णा॒नाः ।
म॒न्दा॒नः । सोम᳚म् । प॒पि॒॑वान् । ऋ॒जी॒षि॒न् । सम् । अ॒स्मभ्य᳚म् । पु॒रु॒धा । गाः । इ॒ष॒ण्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृणानाः स्तोत्रं कुर्वाणा ऋत्विजो मिमिक्शुं स्तोतॄणामभिमतफलं वर्षितुमिच्छन्तं सुपारं शोभनपारं स्तुतिभिरभिमुखीकर्तुं शक्यमित्यर्थः । तादृशमिन्द्र ज्यैष्ठ्याय धनादिसम्पत्त्या श्रेष्ठत्वाय धायसे चिरकालमायुर्धारनाय च गोभिर्गोमिश्रितैः सोमैर्दधिरे । धारयन्ति । शेषः प्रत्यक्षः । हे ऋजीशिन् सोमवन्निन्द्र स त्वं मन्दानो मोदमानः सोमं पपिवान् सोमस्य पाता सन् स्तोतृभ्योऽस्मभ्यं पुरुधा बहुधा गा अग्निहोत्रादिकर्मसिद्ध्यर्थं धेनूः समिषण्य । सम्यक् प्रेरय । गोभिः । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्नेति प्रतिषेधः । मिमिक्षुम् । मिह सेचन इत्यस्य सन्येकाच इतीट् प्रतिषेधे हलन्ताच्चेति किद्वद्भावः । सनाशंसभिक्ष उः । प्रत्ययस्वरः । ज्यैष्ठ्याय । ज्येश्ठस्य भाव इत्यर्थे ब्राह्मनादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तः । गृणानाः । गॄ शब्दे । क्र्यादित्वात् श्ना । चित्त्वादन्तोदात्तः । मन्दानः । मदि स्तुत्यादिष्टित्यस्य शानचि बहुलं छन्दसीति शपो लुक् । पुरुधा । पुरुशब्द इह संख्या वाची । संख्याया विधार्थे धेति धाप्रत्ययः । इषण्य । इष गतौ । इशणमिच्छतीति छन्दसि परेच्छायां क्यच् तदन्तादन्तर्भावितण्यर्थाल्लोटि रूपं ॥ ३ ॥

3.50.4
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव᳚ता॒ राध᳚सा प॒प्रथ᳚श्च ।
स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः᳚ कुशि॒कासो᳚ अक्रन् ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । काम᳚म् । म॒न्द॒य॒ । गोभिः᳚ । अश्वैः᳚ । च॒न्द्र॑व᳚ता । राध᳚सा । प॒प्रथः᳚ । च॒ ।
स्वः॒॑यवः᳚ । म॒ति॑भिः᳚ । तुभ्य᳚म् । विप्राः᳚ । इन्द्रा᳚य । वाहः᳚ । कु॒शि॒कासः᳚ । अ॒क्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र इमं धनादिविषयं काममस्मदीयमभिलाषं गोभिरग्निहोत्रादिकर्मसाधनभुतैर्गवादिभिर्वाहनसाधनभूतैरश्वैश्च चन्द्रवता दीप्तियुक्तेन राधसा धनेन च मन्दय । एतानि दत्त्वेममभिलाषं पूरय । किञ्च । एतैरस्मान्पप्रथः । प्रथितांश्च कुरु । पश्चात्स्वर्यवः स्वर्गाअदिसुखमात्मन इच्छन्तो विप्राः कर्मकुशलाः कुशिकासः कुशिका मतिभिर्मननीयैर्मन्त्रैर्वाहः स्तोत्रमिन्द्राय तुभ्यमक्रन् । अकार्षुः । मन्दय । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । गोभिः । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेत्यादिना प्रतिषेधः । प्रकृतिस्वरः । पप्रथः । प्रथप्रख्याने । क्विप् । डन्दस्युभयथेति तस्य सार्वधातुकत्वात् शप् । तस्य बहुलं छन्दसिति श्लुः । धातुस्वरः । अक्रन् । करोतेर्लुङि मन्त्रे घसह्वरेत्यादिना लुक् । निघातः ॥ ४ ॥

3.50.5
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसौत । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं सूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयम् । यज्ञार्थमाह्वयेम । तथा शृन्वन्तमस्माभिः क्रियमानाम् स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु व्रुत्राणि सम्यग्जेतारं त्वामुतये रक्षणाय वयमाह्वयेम । शुनम् । टुओत्वि गतिवृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसिति संप्रसारणे कृते शपो लुकि क्रुते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृणादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसेनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु अद भक्शने । संपुर्वात् क्विप् । संभक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ५ ॥