तृतीयं मण्डलम् - सूक्तम् 60

7 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: ऋभवः छन्दः: जगती

सूक्तम् 3.60 - सम्पूर्णम्

1 / 7
ऋक्: 3.60.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
3.60.1
इ॒हेह᳚ वो॒ मन᳚सा ब॒न्धुता᳚ नर उ॒शिजो᳚ जग्मुर॒भि तानि॒ वेद᳚सा ।
याभि᳚र्मा॒याभि॒ः प्रति᳚जूतिवर्पस॒ः सौध᳚न्वना य॒ज्ञियं᳚ भा॒गमा᳚न॒श ॥
▶ पदपाठः (Word-by-word)
इ॒ह॑इ᳚ह । वः॒ । मन᳚सा । ब॒न्धुता᳚ । न॒रः॒ । उ॒शिजः᳚ । ज॒ग्मुः॒ । अ॒भि । तानि᳚ । वेद᳚सा ।
याभिः᳚ । मा॒याभिः᳚ । प्रति᳚जूति॑वर्पसः । सौध᳚न्वनाः । य॒ज्ञिय᳚म् । भ॒गम् । आ॒न॒श ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो वो युष्माकं बन्धुता । बध्नन्ति फलेन संयोजयन्तीति बन्धवः कर्माणि । तेषां समूहो बन्धुता । इहेह सर्वत्र मनसा सर्वैर्ज्ञायते । नरो हि मनुष्या ऋभव उशिजो यज्ञभागम् कामयमाना भवन्तो वेदसा यज्ञभागप्रपककर्मविषयज्ञानेन तानि ताद्रुशानि कर्माण्यभि जग्मुः । प्राप्नुवन्ति । कानि तानि । मायाभिः । मीयन्ते ज्ञायन्त इति मायाः कर्माणि । याभिर्मायाभिर्यै कर्मभिः प्रतिजूतिवर्पसः प्रतिपक्षाभिभवनशीलतेजोयुक्ताः सौधन्वनाः । सुधन्वनामाङ्गिरसः पुत्रः कश्चिद्रुषिः । तस्य पुत्राः सौधन्वनाः । ते च त्रय ऋभुर्विभ्वा वाज इति । एतन्नामका यूयं यज्ञियं यज्ञार्हं भागं सोमपानादिलक्षणमानश । प्रप्ताः स्थ । तथा च मन्त्रवर्नः । ऋभुर्विभ्वा वाजो देवा आगच्छत स्वपसो यज्ञियं भागमैतन । ऋग्वे. १-१६१-६ । इति । अयमर्थो ब्राह्मणे‍प्यृभवो वै देवेशु तपसा सोमपीथमभ्यजयन्नित्यत्रोपख्यानपुर्वकं स्पष्टमभिहितं यद्वा । नरः कर्मणां नेतारो हे ऋभव उशिजः कामयमाना वेदसा हविर्लक्षणेन धनेन युक्ताः स्तोतारो वो युष्माकं तानि चमसतक्षणादीनि कर्माणि बन्धुता बन्धुतय सख्येन मनसा जग्मुः । अभिगच्छन्ति । कानीत्याशंकायामाह । यैश्चमसतक्षणादिभिः कर्मभिर्यज्ञार्हं भागं यूयमाभिततान्यभिगच्छन्ति । युष्माकं बुद्धिनैपुणानि चिन्तयन्तीत्यर्थः । इहेह नित्य योरिति द्विर्वचनम् । परस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः । बन्धुता । बन्ध बन्धने । शॄस्वृस्निहीत्यादिना कर्तर्युप्रत्ययः । समूह इत्यर्थे ग्रामजनबन्धुसहायेभ्यस्तल् । पा. ४.२.४३ । इति तल् । लित्स्वरः ॥ १ ॥

3.60.2 समानपद
याभि॒ः शची᳚भिश्चम॒सा{4} अपिं᳚शत॒ यया᳚ धि॒या गामरि᳚णीत॒ चर्म᳚णः ।
येन॒ हरी॒ मन᳚सा नि॒रत᳚क्षत॒ तेन᳚ देव॒त्वमृ᳚भव॒ः समा᳚नश ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । शची᳚भिः । च॒म॒सान् । अपिं᳚शत । यया᳚ । धि॒या । गाम् । अरि᳚णीत । चर्म᳚णः ।
येन᳚ । हरी॒ इति᳚ । मन᳚सा । निः॒॑अत᳚क्षत । तेन᳚ । दे॒व॒॑त्वम् । ऋ॒भ॒वः॒ । सम् । आ॒न॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो याभिः शचीभिः शक्तिश्चमसान् चतुरोऽपिंशत विभक्तवन्तःस्थ । यया धिया प्रज्ञया गां मृतामरिणीत चर्मण चर्मणा योजनात्प्रापितवन्तः स्थ । येन मनसा प्रज्ञानेन हरी एतन्नामकाविन्द्रस्याश्वौ निरतक्शत नितरामकुरुत । तथायं मन्त्रवर्नः । य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी । ऋग्वे. १-२०-२ । इति । तेन सर्वेणानेन कर्मणा देवत्वं यज्ञभागार्हत्वलक्षणं देवभावं समानश । सम्यक् प्राप्ताः स्थः । आपिंशत । पिश अवयवे । तुदादिः । तस्य लङि मध्यमे रूपम् । यद्वृत्तयोगादनिघातः । आरिणित । री गतिरेषणयोः । क्र्यादिः । तस्य लङि रूपम् । अत्रापि पूर्ववदनिघातः । निरतक्शत । तक्षू त्वक्शू तनूकरणे । लङि रूपम् । पूर्वपदनिघाते तिङि चोदात्तवतीति गतेर्निघातः । अडुदात्तः । आनश । अश्नोतेर्लिटि रूपम् । निघातः ॥ २ ॥

3.60.3
इन्द्र᳚स्य स॒ख्यमृ॒भव॒ः समा᳚नशु॒र्मनो॒र्नपा᳚तो अ॒पसो᳚ दधन्विरे ।
सौ॒ध॒न्व॒नासो᳚ अमृत॒त्वमेरि᳚रे वि॒ष्ट्वी शमी᳚भिः सु॒कृतः᳚ सुकृ॒त्यया᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । स॒ख्यम् । ऋ॒भवः᳚ । सम् । आ॒न॒शुः॒ । मनोः᳚ । नपा᳚तः । अ॒पसः᳚ । द॒ध॒न्वि॒रे॒ ।
सौ॒ध॒न्व॒नासः᳚ । अ॒मृ॒त॒॑त्वम् । आ । ई॒रि॒रे॒ । वि॒ष्ट्वी । शमी᳚भिः । सु॒॑कृतः᳚ । सु॒॑कृ॒त्यया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनोर्नपातो मनुष्यस्याङ्गिरसः पुत्रा अपसो यागादिलक्षणकर्मवन्त ऋभव इन्द्रस्य सख्यं समानख्यानत्वं समानशुः । सम्यक् प्राप्नुवन् । तथेन्द्रस्य सख्यं प्राप्तस्त ऋभवो दधन्विरे । पूर्वं मनुषुयत्वेन मरनयोग्या अपीदानीमिन्द्रस्य सख्येन प्राणान्धारयन्ति । तथा मन्त्रः । अधारयन्त वह्नयः । ऋग्वे. १-२०-८ । इति । सौधन्वनासः सुधन्वनामकस्यर्षेः पुत्रा ऋभवः सुकृतः शोभनकर्माणः सन्तः प्रभूतैः शमीभिर्देवत्वप्राप्तिप्रतिबन्धनिवारणहेतुभिः कर्मभिः सुकृत्यया शोभनेन कर्मना च विष्ट्वी व्याप्यामृतत्वमेरिरे । देवत्वं प्रापुः । तथा च मन्त्रान्तरमाम्नायते । मर्तासः सन्तो अमृतत्वमानशुः । ऋग्वे. १-११०-४ । इति । नपातः । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । दधन्विरे । धविर्गत्यर्थः । व्यत्ययेनात्मनेपदम् । लिटि रूपम् । ईरिरे । ईर गतौ । मन्त्रत्वादाम्न भवति । निघातः । सुकृत्यया । करोतेर्भावे कृञः श चेति क्यप् । प्रत्ययस्य व्यत्ययेनान्तोदात्तत्वम् । समासे कृदुत्तरस्वरः ॥ ३ ॥

3.60.4
इन्द्रे᳚ण याथ स॒रथं᳚ सु॒ते सचा{4}॒ अथो॒ वशा᳚नां भवथा स॒ह श्रि॒या ।
न वः᳚ प्रति॒मै सु᳚कृ॒तानि᳚ वाघत॒ः सौध᳚न्वना ऋभवो वी॒र्या᳚णि च ॥
▶ पदपाठः (Word-by-word)
इन्द्रे᳚ण । या॒थ॒ । स॒॑रथ᳚म् । सु॒ते । सचा᳚ । अथो॒ इति᳚ । वशा᳚नाम् । भ॒व॒थ॒ । स॒ह । श्रि॒या ।
न । वः॒ । प्र॒ति॒॑मै । सु॒॑कृ॒तानि᳚ । वा॒घ॒तः॒ । सौध᳚न्वनाः । ऋ॒भ॒वः॒ । वी॒र्या᳚णि । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो यूयमिन्द्रेण सचा सह सरथं समानमेकं रथमारुह्य सुतेऽभिषुतसोमवति यज्ञे याथ । गच्छथ । अथो अनन्तरमिन्द्रेण सहैकरथमारूढा यूयं वशानाम् । उश्यते काम्यते यजमानेन स्वर्गादिलक्षणं फलमेभिरिति वशा मनुष्याः । तेषां श्रिया स्तुतिहविरादिरूपया सह भवथ । हे सौधन्वनाः सुधन्वनः पुत्रा वाघतोऽमृतत्वादिलक्षणफलस्य वोधारो मेधाविनो वेति यास्कः । तादृशा हे ऋभवो वो युष्माकं सुकृतानि देवत्वस्य प्रापकाणि शोभनानि कर्माणि न प्रतिमै । प्रतिमातुमियत्तया परिच्छ्त्तुं न केनापि शक्यानि । तथा वीर्याणि युष्माकं सामर्थ्यानि च नैव प्रतिमातुं शक्यानि । वशानाम् । वश कान्तौ । वशिरण्योरुपसंख्यानमिति करणेऽप्प्रत्ययः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । वशाशब्दो बन्ध्यावचनश्चेदन्तोदात्तो भवति । वशा मेषा अवसृष्टास आहुताः । ऋग्वे. १०-९१-१४ । इति । वः । युष्मच्छब्दस्य षष्ठी बहुवचने वसादेशः । निघातः । प्रतिमै । माङ् माने । विच् । प्रतिमाः प्रतिमानम् । तस्य चतुर्थ्येकवचन आतो लोपश्छान्दसः । एकादेशस्वरः ॥ ४ ॥

3.60.5 समानपद
इन्द्र᳚ ऋ॒भुभि॒र्वाज᳚वद्भि॒ः समु᳚क्षितं सु॒तं सोम॒मा वृ᳚षस्वा॒ गभ᳚स्त्योः ।
धि॒येषि॒तो म᳚घवन्दा॒शुषो᳚ गृ॒हे सौ᳚धन्व॒नेभि᳚ः स॒ह म᳚त्स्वा॒ नृभि᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । ऋ॒भु॑भिः᳚ । वाज᳚वत्॑भिः । सम्॑उ᳚क्षितम् । सु॒तम् । सोम᳚म् । आ । वृ॒ष॒स्व॒ । गभ᳚स्त्योः ।
धि॒या । इ॒षि॒तः । म॒घ॒॑व॒न् । दा॒शुषः᳚ । गृ॒हे । सौ॒ध॒न्व॒नेभिः᳚ । स॒ह । म॒त्स्व॒ । नृ॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आभिप्लविके पञ्चमेऽहनि वैश्वदेवशस्त्र इन्द्र ऋभुभिरित्यार्भवस्तृचः । सूत्रितं च । घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ । आ. ७-७ । इति । आद्यस्तृतीयसवने होतुः प्रस्थितयाज्या । सूत्रितं च । इन्द्र ऋभुभिर्वाजवद्भिः समुक्शितमिन्द्रावरुणा सुतपाविमं सुतम् । आ. ५-५ । इति ॥

हे इन्द्र वाजवद्भिः । वचो नाम ऋभूणां भ्राता । यद्वा । वाजोऽन्नं तत्सहितैरृभुभिः सहितस्त्वं समुक्शितं सम्यगद्भिः सिक्तं ग्रावभिः सुतं सोमं गभस्त्योः । बप्सत्यदन्त्याभ्यामन्नमिति गृह्णन्ति पदार्थानाभ्यामिति वा गभस्ती बाहू । तयोर्बाह्वोरा वृषस्व । आक्षारय । ग्रहमुभाभ्यां बाहुभ्यां गृहीत्वा सोमं पिबेत्यर्थः । हे मघवन् हे इन्द्र धिया स्तोत्ररूपेण कर्मणेषितः प्रेरितस्त्वं दाश्षो हविर्दत्तवतो यजमानस्य गृहे सौधन्वनेभिः सुधन्वनः पुत्रैर्नृभिर्मनुष्यैरृभुभिः सह साकं मत्स्व । सोमपानेन हृष्टो भव । समुक्शितम् । उक्श सेचने । कर्मणि क्तः । गतिरनन्तर इति गतेः स्वरः । नभस्तोः । भस भर्त्सनदीप्त्योरित्यस्माद्भसेर्गट्चेति सूत्रेण तिप्रत्ययो धातोर्गडामश्च । यद्वा । गृह्णातेः पृषोदरादित्वादेवं नेयम् । मत्स्व । मदि स्तुत्यादिषु । लोटि बहुलं छन्दसीति विकरणस्य लुक् । निघातः ॥ ५ ॥

3.60.6
इन्द्र᳚ ऋभु॒मान्वाज᳚वान्मत्स्वे॒ह नो॒॑स्मिन्त्सव᳚ने॒ शच्या᳚ पुरुष्टुत ।
इ॒मानि॒ तुभ्यं॒ स्वस᳚राणि येमिरे व्र॒ता दे॒वानां॒ मनु᳚षश्च॒ धर्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । ऋ॒भु॒॑मान् । वाज᳚॑वान् । म॒त्स्व॒ । इ॒ह । नः॒ । अ॒स्मिन् । सव᳚ने । शच्या᳚ । पु॒रु॒॑स्तु॒त॒ ।
इ॒मानि᳚ । तुभ्य᳚म् । स्वस᳚राणि । ये॒मि॒रे॒ । व्र॒ता । दे॒वाना᳚म् । मनु᳚षः । च॒ । धर्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुष्टुत बहुभिः स्तुत हे इन्द्र ऋभुमान् ऋभुणा तद्वान् वाजवान् वाजेन ऋभोर्भ्रात्रा युक्रः शच्येन्द्राण्या कर्मणा वा सहितः सन् नोऽस्माकमिह कर्मण्यस्मिन् तृतीयसवने मत्स्व । हृष्टो भव । हे इन्द्र तुभ्यं त्वदर्थमिमानि स्वसराण्यहानि येमिरे । तव सोमपानार्थं त्रिषु सवनेशु नियतान्यासते । किञ्च देवानामग्न्यादीनां व्रता व्रतानि कर्माणि च मनुषो मनुष्यस्य धर्मभिः कर्मभिः साकं त्वदर्थं नियतान्यासते ॥ ६ ॥

3.60.7
इन्द्र᳚ ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह स्तोमं᳚ जरि॒तुरुप᳚ याहि य॒ज्ञिय᳚म् ।
श॒तं केते᳚भिरिषि॒रेभि᳚रा॒यवे᳚ स॒हस्र᳚णीथो अध्व॒रस्य॒ होम᳚नि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । ऋ॒भु॑भिः᳚ । वा॒जि॑भिः᳚ । वा॒जय᳚न् । इ॒ह । स्तोम᳚म् । ज॒रि॒तुः । उप᳚ । या॒हि॒ । य॒ज्ञिय᳚म् ।
श॒तम् । केते᳚भिः । इ॒षि॒रेभिः᳚ । आ॒यवे᳚ । स॒हस्र᳚॑नीथः । अ॒ध्व॒रस्य᳚ । होम᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजिभिर्वाजयुक्तैरृभुभिः सहितस्त्वं वाजयन् स्तोतुर्वाजमन्नं कुर्वाण इह यज्ञे यज्ञियं यज्ञार्हं जरितुः स्तोमं स्तोत्रमुपयाहि । आगच्छ । पुनः किंविशिष्टः । केतेभिः । केत्यते ज्ञायते सर्वमेभिरिति केशाः प्राज्ञामरुतः । तैः शतं शतसंख्याकैरिषिरेभिरिषिरैर्गमनकुशलैरश्वैः सहित आयवे मनुष्याय यजमानाय सहस्रनीथो बहुप्रकारनयनोपेतोऽध्वरस्य । न विद्यतेध्वरो हिंसा यस्य तादृशस्य सोमस्य होमनि होम आगच्छेति शेशः । वाजयन् । वाजं करोतीति णिच् । णाविष्थवदीतिष्ठवद्भावात्तुरिष्ठेमेयःस्विति टिलोपः । केतेभिः । कित ज्ञाने । घञ् । ञित्त्वादाद्युदात्तः ॥ ७ ॥